सामग्री पर जाएँ

सदस्यः:117.192.107.32/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

उपनिषद्वाणी

    प्रपञ्चे अधुनावधिलब्धेषु प्राचीनसाहित्येषु अस्माकं वैदिकसाहित्यम् प्राचीनहमम् । 

वेदो नाम ज्ञानम् । "अनन्ता वै वेदा:" इत्युक्ति: वेदानां सङ्ख्या अपरिमिता इति सूचयति । वेदा: अपौरुषेया: । ऋषिभि: तपसा साक्षात्क्रुत: ज्ञानराशि: इति साम्प्रदायिका: कथयन्ति ।

    वेदानाम् अध्ययनसौलभार्थं ऋग्वेद: , येजुर्वेद: , सामवेद: , अथर्ववेदश्रेति चतुर्धा विभाग: 

व्यासमहर्षिणा कृत: । अत एव स: वेदव्यास इति ख्यात: ।

    उपनिषद: वेदानां सारभूता: भागा: । अत एव तासां वेदान्ता इत्यपि नामान्तरम् अस्ति । 

उपनिषन्नाम शिष्येण गुरो: समीपे उपविश्य प्राप्यमाना रहस्यतमा विध्या । शताधिका: उपनिषद: वैदिकवाड़्मये शोभन्ते । तासु ईश-केन-कठ-प्रश्न-मण्डूक-माण्डूक्य-ऐतरेय-तैत्तिरीय-छान्दोग्य -बृहदरण्यकोषनिषद: प्रख्याता: दशोपनिषद: सन्ति ।

     इमा: उपनिषद: प्रमुखतया जीवात्मपरमात्माध्यमूर्तान् विषयान् (बाह्येन्द्रियाग्राह्यान्)
दृष्टान्तपूर्वकं बोधयन्ति । काश्र्वन उपनिषद: कथारूपेणापि दृश्यन्ते । तादृशीषु कथासु 

कठोपनिषद: यमनचिकेतसो: संवाद: अन्यतम: । यम: नचिकेतसं एवं रूपेण अध्यात्मविध्याम् उपदिशति ।

               आत्मानं रथिनं विद्धि
                  शरीरं रथमेव तु ।
               बुद्धिं तु सारथिं विद्धि 
                  मन: प्रग्रहमेव च। ॥१॥
               इन्द्रियाणि हयानहु:
                  विषयांस्तेषु गोचरान् ।
               आत्मेन्द्रियमनोयुक्तं
                  भोख्तेत्याहुर्मनीषिण:। ॥२॥
               यस्त्वविज्ञानवान्भवति 
                 अयुक्तेन मनसा सदा । 
               तस्येन्द्रियाण्यवश्यानि
                  दुष्टश्र्वा इव सारथे: ।  ॥३॥
               यस्त्वविज्ञानवान्भवति
                  युक्तेन मनसा सदा । 
               तस्येन्द्रियाण्यवश्यानि
                  सदश्र्वा इव सारथे: ।  ॥४॥
               विज्ञानसारथिर्यस्तु 
                  मन: प्रग्रहवान्नर: ।
               सोऽध्वन: पारमाप्नोति 
                  तद्विष्णो: परमं पदम् । ॥५॥