सदस्यः:2030744dhruthisubash/प्रयोगपृष्ठम्
"दुर्गापूजा महोत्सव:"

उत्सव बहुले भारते जना: उत्सवै: यत्र मानसिक परितोषम् मनोरंजनम्, शान्तिम्, विश्रान्तिम् च प्राप्नुवन्ति तत्रैव आध्यात्मिकं लाभं चापि लभन्ते। एते उत्सवा: महोत्सवाश्च बहुविधा: भवन्ति। केचन सामाजिक उत्सवाः, केचन राजनैतिक उत्सवा: केचन धार्मिक महोत्सवाः अस्माकम् दृष्टिपथम् आयान्ति। पश्चिमवङ्गराज्ये आश्वयुजमासः (सप्टम्बर्-अक्टोबरमासयोः वर्तमानः) वर्षस्य् प्रमुखभागायते । यतः अस्मिन्नेव मासे महोत्साह दायकं नवरात्रोत्सवम् आचरन्ति तत्रत्याः ।
एतेषु महोत्सवेषु दुर्गापूजा महोत्सव: अभीष्ट फलदायकः, दैविक, दैहिक, भौतिक ताप हारकः, शत्रु विनाशकः, समृद्धिदायकः विख्यातः अस्ति। भक्ता: नवादिनानि वृतम् धारयन्ति साधनाम् च साधयन्ति। महामायां जगदम्बिकाम् प्रति एषाम् परम गहनो विश्वास: यत्- कुपुत्रो जायेत क्वचिदपि कुमाता न भवति । आश्विन शुक्लपक्षे प्रतिवर्षं दुर्गा पूजयन्ति भारतवासिनः । विशेषेण भारतदेशस्य पूर्वस्यां दक्षिणस्यां दिशि, बंग, असम, अरुणाचल, मणिपुर, त्रिपुरा, मेघालयं, मिजोरम, नागालैंड, बिहार, उड़ीसा, आन्ध्र, तमिलनाडु आदि राज्येषु अयं महोत्सवः उसाहेन प्रवर्तते । देवासुरसंग्राम महिषासुरेण भयंकरं युद्धम् प्रवुत्तम् । तस्मिन् विजयार्थ सर्वे देवाः मिलित्वा संयुक्तां शक्तिं निर्माय अयुध्यन्त । अतः इयं पूजा शक्तिपूजापि कथ्यते । प्रतिपदा प्रभृति दशमी यावत् अयम उत्सवः आयोजयते । देव्याः पुजनेन मानवस्य न कुत्रापि पराजयों भवति । दुर्गा देव्याः पार्वत्याः अपरं रूपम् । भारते देशे सनातनधर्मस्य अनुयानिनः शक्तसम्प्रदाये भगवतीं दुर्गां जगतः पराशक्तिः इति विश्वसन्ति । शाक्तसाम्प्रदायस्य जनाः भगवन्तं देवीरूपेण पश्यन्ति । उपनिषत्सु उमा हैमवती इति दुर्गायाः वर्णनम् अस्ति । पुराणेषु दुर्गाम् आदिशक्तिः इति उक्तम् । वास्तवे दुर्गा शिवस्य पत्न्याः पार्वत्याः किञ्चित् रूपम् एव यस्याः उत्पतिः राक्षसानां नाशार्थम् अभवत् । सर्वासां देवतानां प्रार्थनाम् श्रुत्वा पार्वती त्रिदेवानां सहकारेण दुर्गारूपम् अवाप्नोत् । अतः दुर्गा युद्धदेवी भवति । दुर्गायाः पुनः स्वयः अनेकरूपाणि भवन्ति । अस्याः सुन्दरं शान्तं शुक्लरूपं भवति गौरी । एवमेव अस्याः भयङ्करं रूपं भाति काली । विभिन्नरूपेषु दुर्गा भारते, नेपाले च पूजयन्ति । अस्याः दुर्गायाः वाहनं शार्दूलः भवति । अखिले भरते भक्त जना: श्रद्धा-भक्ति-भावेन नव चण्डिका: पूजयन्ति। दुर्गा पूजा महोत्सव: शरद् ऋतौ भवति आश्विन मासस्य शुक्ले पक्षे प्रतिपदायाम् अस्य महोत्सवस्य शुभारम्भो भवति। कथितम् महामायया स्वेन श्रीमुखेन शरत्काले महापूजा, क्रियते या च वार्षिकी। तस्याम् ममैतन्महात्म्यं श्रुत्वा भक्ति समन्वितः ।। नवदुर्गायाम् प्रतिदिनम् साधका: भगवती मूर्ति सम्मुखे आसन बद्धो भूत्वा तद्गतेन मनसा स्व साधनाम् कुर्वन्ति, धूप-दीपम्, दर्शयन्ति, सपुष्पम् नारिकेलं समर्पयन्ति, सादरम् नैवेद्यम् निवेदयन्ति, मुख शुद्धयर्थम् एला लवंग कर्पूरयुक्तं ताम्बूलम् अर्पयन्ति। प्रतिदिनम् दुर्गासप्तशत्या: पाठम् कुर्वन्ति कारयन्ति च। गीत-वादनादिभिः नत्यन्ति, गायन्ति। सर्वाबाधा विमुक्त्यर्थम धन धान्य प्राप्तेर्थं रिपूणाम् क्षयार्थम्, उपसर्गाणाम् शमनार्थम्, उग्रासु ग्रह पीडासु शान्त्यर्थम् कर बद्धाः भक्ताः जगदम्बिकाम् स्तुवन्ति। प्रार्थयन्ति च- स्तुता सुरैः पूर्वमभीष्ट संश्रयात्, तथा सुरेन्द्रेण दिनेषु सेविता। करोतु सा न: शुभहेतुरीश्वरी, शुभानि भद्राणि अभिहन्तु चापदः। बंगाल प्रान्ते असौ महोत्सवः सर्वेषु महोत्सवेषु प्रधान महोत्सवः भवति। बंग प्रान्तीयानां गृहे-गृहे दुर्गाया: मूर्तिस्थापनं भवति। ते सर्वे वृतोपवासादिभिः स्वकीयां इष्टदेवीम् भगवतीम् महाकालिकाम् अर्चयन्ति । नवम्याम् दशम्याम वा देव्या: मण्मयीं मूर्तिम् शंखध्वनिभिः घण्टा रवै: मृदंग वादन: आपूर्यमाणे मंगलमये वातावरणे जले विसर्जयन्ति। यस्मिन् दिवसे मूर्ति विसर्जनम् भवति तस्मिन दिवसे भक्ति भावाप्लाविता: जनाः सपरिवारम् जलाशये गच्छन्ति प्रणमन्ति च महामायाम्। दुर्गायै दुर्गपारायै सारायै सर्वकारिण्यै ख्यात्यै तथैव कृष्णायै धूम्रायै सततं नमः ॥ विद्या त्वमेव ननु बुद्धिमतां नराणां शक्तिस्त्वमेव किल शक्तिमतां सदैव । त्वं कीर्तिकान्तिकमलामलतुष्टिरूपा मुक्तिप्रदा विरतिरेव मनुष्यलोके| घोररुपे महारावे सर्वशत्रुभयङ्करि । भक्तेभ्यो वरदे देवि त्राहि मां शरणागतम्| जडानां जडतां हन्ति भक्तानां भक्तवत्सला । मूढ़ता हर मे देवि त्राहि मां शरणागतम्| सौम्यक्रोधधरे रुपे चण्डरूपे नमोऽस्तु ते । सृष्टिरुपे नमस्तुभ्यं त्राहि मां शरणागतम् | नमो देवी महाविद्ये नमामि चरणौ तव । सदा ज्ञानप्रकाशं में देहि सर्वार्थदे शिवे |
या देवी सर्वभूतेषु, शक्तिरूपेण संस्थिता । नमस्तस्यै नमस्तस्यै नमो नमः । इन्द्रियाणामधिष्ठात्री भूतानां चाखिलेषुया । भुतेषु सततं तस्यै व्याप्त्यै व्याप्त्यै देव्यै नमो नमः ॥ चित्तिरूपेण या कृत्समेतद्व्याप्य स्थिता जगत् । नमस्तस्यै नमस्तस्यै नमस्तस्यै नमो नमः ।।