सदस्यः:2030968sunilkumar/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

https://commons.wikimedia.org/wiki/File:Varamihra.jpg


भारतीये इतिहासे साहित्ये च बोधकथानां महान् भाण्डारम् अस्ति। एताः कथाः सत्कथाः वास्तविक्यः च सन्ति । यतोऽहि एतासु कथासु ये भावाः संदेशाः च सन्ति ते सर्वेऽपि वास्तविकाः सन्ति बहोः कालादारभ्य एताः कथाः जनान् परमं सत्यं प्रति प्रेरयन्ति। बोधकथाः प्रथमं हिन्दीभाषायाम् अशोककौशिकः रचितवान्। डा. सञ्जीवः संस्कृतभाषायाम् अनूदितवान्।

एकस्मिन् नगरे एकः कृपणः वसति स्म। तस्य कार्पण्यं न केवलं तस्मिन् नगरे, अपि तु नगरं परितः नगग्रामेषु जनाः जानन्ति स्म। परं कृपणस्तु कृपण एव भवति। सः एतस्मिन् विषये अवधानं न ददाति स्म।

कृपणस्य भाग्येन यस्मिन् नगरे सः वसति स्म तस्मिन् एव नगरे स्थिते मन्दिरे एकदा कथायाः आयोजनं जातम् । कथा कतिचन दिनानि प्राचलत्। कृपणस्यापि सुबुद्धिः आगता। सोऽपि कथां श्रोतुं प्रतिदिनं गमनम् आरब्धवान्। कथास्थले जनाः तं कृपणः इति मत्वा तस्मै आदरं न प्रयच्छन्ति स्म । तथापि स प्रतिदिनं कथामण्डपे एकस्मिन् कोणे उपविश्य कथां श्रृणोति स्म । प्रतिदिनं कथासमाप्त्यनन्तरं मौनेन उत्थाय स्वगृहं गच्छति स्म। कथायाः समापनदिने महाप्रसादस्य कार्यक्रमः आसीत्, यस्मिन् बहुविधप्रसादानां निर्माणं भवति। कथासमाप्तेः दिनद्वयात्पूर्वं कथावाचकः सूचनां प्रसारितवान् यत् “परश्वः कथासमाप्तिः महाप्रसादस्य वितरणं च भविष्यति । अतः महाप्रसादस्य व्यवस्था करणीया अस्ति। तन्निमित्तं भवद्भिः यत्किमपि समर्पयितुं शक्यते। ये दातुमिच्छन्ति ते श्वः आनीय अर्पयन्तु” इति।

स्वश्रद्धानुगुणं सर्वे किमपि किमपि आनीतवन्तः। समर्पणवेदिकायां समर्प्य स्व-स्व स्थाने उपविशन्ति स्म। महान् जनसम्पर्दः आसीत्। कृपणाय अंग्रे गन्तुं कोऽपि अवकाशमेव न ददाति स्म।

कृपणस्य क्रमः तदा आगतः यदा सर्वे गत्वा स्वीयं समर्पणं कृपवन्तः। कृपणस्य अग्रे गमनं दृष्ट्वा सर्वे अट्टहासं कृतवन्तः। तस्य हस्ते मलिनग्रन्थीं दृष्ट्वा जनाः इतोऽपि हसितवन्तः “एषः अपि दानं करिष्यति वा ?" इति। परं कृपणः भक्तानां अट्टहासे अवधानं न कृतवान्। कृपणः अग्रे गतवान्, कथावाचकं नमस्कृतवान्। भगवते प्रणामं कृतवान्। तदनन्तरं स्वीयां ग्रन्थीम् उद्घाट्य यदा स्वीयराशेः समर्पणं कृतवान् तदा जनाः खन्-खन् इति शब्दं श्रुतवन्तः। सर्वे आश्चर्यचकिताः। कृपणः सुवर्णस्य नाणकानि अर्पितवान्। तद्दृष्ट्वा ते इतोऽपि चकिताः। समर्पणस्य अनन्तरं यदा सः स्वीयं स्थानं प्रति गन्तुम् उद्युक्तः तदा

कथावाचकः उक्तवान् "भवान् अत्र आगच्छतु मञ्चे उपविशतु" इति। कृपणः तदा अभिमानेनोक्तवान् "एतन्मयि आदरः न अपि तु सुवर्णनाणकानामुपरि आदरः भवति" इति। कथावाचकः उक्तवान्

"नैव, सुवर्णनाणकानाम् उपरि आदरः न, एतानि नाणकानि इतः पूर्वं भवतः समीपे एव आसन्, तथापि एष आदरः भवता न प्राप्तः । आदरः तु भवतः त्यागस्य भवति। अद्य भवान् महान्तं त्यागं कृतवान्। अतः भवान् सम्मानितः सञ्जातः अस्ति’ इति।

एवं भवति त्यागस्य महिमा । कृपणः सद्य एव सम्मानितः। महाव्यापारी धनिकः च जातः। सर्वैः सम्माननमपि प्राप्तवान्

REFERENCES:- Andhra Pradesh intermediate board 1st year Sanskrit textbook