सदस्यः:2030990mahith/प्रयोगपृष्ठम्
https://commons.wikimedia.org/wiki/File:Annam_Bahu_Kurvita.jpg

अन्नं बहु कुर्वीत
अद भक्षणे इत्यस्मात् धातोः अन्नशब्दः निष्पन्नः। अद्यते इति व्युत्पत्त्या अन्नम् इति रूपसिद्धिर्भवति। सर्वेषां प्राणिनां प्राणधारणम् अन्नाधीनं वर्तते। तच्चान्नम् आश्य खाद्य-पेयरूपेण त्रिधा वर्तते। सुलभतया भोक्तुं योग्यमन्नम् आश्यमिति, अधिकदन्तप्रयत्नेन भोक्तुं साध्यमन्नं खाद्यमिति, सुलभतया ग्रसितुं पातुं च योग्यमन्नं पेयमिति भावः। भगवद्गीतायां अस्यान्नस्य भक्ष्य-भोज्य-लेह्य-चोष्यरूपेण चातुर्विध्यमुक्तम्। गीतायामपि उक्तम् - प्राणापानसमायुक्तः पचाम्यन्नं चतुर्विधम् इति ।
इदं चान्नं सत्त्व-रज-स्तमोभेदेन त्रिविधं वर्तते तथाहि चिरजीवनम्, उत्साहः,कार्यकरणे शरीरसामर्थ्यम्, अरोगता, चित्तप्रसादः, प्रीतिरित्येतेषां गुणानां विवर्धनाः, रसयुक्ताः, स्नेहवन्तः, चिरतरशरीरोपकारहेतवः, दृष्टादृष्टदोषशून्याः सात्त्विका आहाराः सात्त्विकत्वमभिलषद्भिः आदैया भवन्ति। अतिकषायपदार्थः, अतिलवणम्, अत्युष्णपदार्थः, अतिक्षारपदार्थः, अत्याम्लपदार्थः, अतिरूक्षातिदाहपदार्थाः राजसान्नवाच्या भवन्ति। ये राजसान्नं भुञ्जन्ति, ते अनुपदमेव दुःखम्, शोकं रोगं च प्राप्नुवन्ति। अतः श्रेयोऽर्थिभिश्चैवं विधमन्नं परिहरणीयं भवति। अर्धपक्कम्, अधिकपक्वम्, दुर्गन्धोपेतम्, अन्यभुक्तशेषम्, दिनान्तरपक्वम्, मांसादिकं चान्नं तामसान्नमिति कथ्यते । श्रेयोऽर्थिभिः तामसान्नं हेयं भवति अत्र रस्यादिवर्गः सात्त्विकः, कट्ठादिवर्गो राजसः, अर्धपक्वादिवर्गस्तामस इत्युक्तमाहारवर्गत्रयम्। तत्र श्रेयस्कामै राजसं तामसं च हित्वा सत्त्ववृद्धये सात्त्विकाहार एव सेवनीयः ।
अन्नस्वीकारपद्धतिः चरकसंहितायां प्रतिपादिता। तथाहि- "उष्णमन्नमश्नीयात् । स्निग्धमाहारम् इन्द्रियाणि द्रढीकरोति । बलाभिवृद्धिमुपजनयति । तस्मात् क्षीर-दधि घृतादिपदार्थयुक्तम् अन्नमश्नीयात् । जीर्णे एव भोजनं कुर्यात् । अजीर्णे भुज्जानस्य सर्वे रोगाः प्रजायन्ते । बलवर्धकमन्नमश्नीयात् । इष्टे देशे इष्टसर्वोपकरणमन्नं चाश्नीयात् । नातिद्रुतमश्नीयात्। नातिविलम्बितमश्नीयात्। अतिविलम्बितमश्नन् न तृप्तिमधिगच्छति। बहु भुङ्क्ते। अजल्पन्, अहसन्, अनन्यमनाश्च भुञ्जीत । इदं ममोपशेत इदं नोपशेत इत्यभिसमीक्ष्य सम्यक् भुञ्जीत" इति। अर्थात् स्वस्य शक्ति सामर्थ्यं च मनसि निधाय आहारसेवनं करणीयम्।
अन्नविषयः वेदादिषु सम्यक् निरूपितः अस्ति । तैत्तिरीयोपनिषदि आहारस्य विषये भारतीयानां दृष्टिः स्फुटं दृश्यते । ब्रह्मविद्यायाः बोधनाय प्रवृत्तायां तस्यामपि उपनिषदि अन्नविषये कानिचित् व्रतानि विहितानि । यथा- "अन्ननिन्दा न कर्तव्या। अन्नं न परिहरेत् । बह्नन्नं कुर्वीत। यदि कोऽपि अतिथिः गृहमागच्छति तर्हि तस्मै अवश्यम् आतिथ्यं देयम्। आतिथ्यं विना सः न प्रेषणीयः। एतत् जीवनव्रतं भवेत्। येन केनाप्युपायेन दानार्थं बहने प्राप्नुयात्। कृपया आहारं स्वीकरोतु इति अतिथिः प्रार्थनीयः । ये श्रद्धया आहारदानं कुर्वन्ति ते अग्रेऽपि अधिकम् आहारं प्राप्नुवन्ति। ये अल्पं यच्छन्ति ते अल्पमेव प्राप्नुवन्ति ।यः अन्नदानं न करोति तेन लब्धमन्नं निरर्थकम्। यः देवपितृऋषिभ्यः अतिथिभ्यश्च अदत्वा स्वयमेव खादति सः अन्नं न खादति, प्रत्युत स्वस्य पापराशिमेव खादति” इति।
एतत् चराचरात्मकं जगत्सर्वं अन्नादेव शक्तिसञ्चयं प्राप्नोति। अन्नकारणादेव जगतः प्राणधारणं भवति। अन्नेनैव सर्वे प्राणिनः उद्भवन्ति। अन्नेनैव जीवन्ति। अन्नेनैव मृत्युं चाप्नुवन्ति। अर्थात् सृष्टि-स्थिति-लयानां त्रयाणामपि अन्नमेव कारणं भवति । एवञ्च मनुष्यः यादृशम् अन्नं सेवते, तादृशमेव सम्पद्यते तस्य मनः । तथाहि
अन्नं जलं यथा व्यक्तिरुपभुङ्क्ते निरन्तरम् । तथा तस्य मनो वाणी भवेतां नात्र संशयः ।। इति ।
सर्वे धर्माः दानं प्रशंसन्ति। सत्स्वपि सहस्राधिकेषु दानवस्तुषु नान्नदानसमं दानम् इत्यादिवचनैः अन्नदानस्य महत्त्वं सुविदतमेव । स्वर्णादिदानैः प्रतिग्रहीतरि तृप्तिः जायते वा न वा। अन्नदानेन तृप्तिः अवश्यंभावी अन्नदानं प्राणदानसममिति पुराणवचनम्। तथाहि
अन्नात्प्राणः प्रभवति अन्नदः प्राणदो भवेत्। इति ।
बह्वन्नं कुर्वीतेत्यस्यापि वचनस्यायमेवाशयः। यया कया च विधया बह्वन्नं प्राप्य, ये अन्नार्थिनः भवन्ति तेभ्यः दानं कर्तव्यम् । तेन विश्वशान्तिः भवति। दाता च महत्सुखमवाप्नोति।
REFERENCE:- Andhra Pradesh Intermediate Board 1st year Sanskrit textbook