सामग्री पर जाएँ

सदस्यः:2040366sairaj/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

विज्ञानस्य चमत्कार: अथवा विज्ञानं शाप: वरदानं वा?

संसारस्य विशेषेण ज्ञानं विज्ञानम् अर्थात् येन वयं भौतिकं जगत् विशेषतया पश्याम: जानीम: तद् एव विज्ञानम् इति परिभाषा।

पृथ्वी किं, के अस्या: गुणा: विगुणा: वा, किं जलं किम् आकाश: ,किं वायु: लता वनस्पतय: किम्? परमाणु: किं, परमाणुशक्ति: किम् इति बहुविधम् अन्वेषण कार्यम् विज्ञानम् एव।

रेल-मोटर-जलयान-वायुयानादिभि: विज्ञानेन देशाद्देश: सन्निकटीकृत:।अद्य वयं बाष्पयानेन देशदेशान्तरेषु परिभ्रमाम: । पोतेन अनायासमेव नदी: समुद्रान्श्च    तराम:। विमानेन वियति स्वच्छन्दं विहराम:। रेडियो इति उपकरणेन दविष्ठान् नेदिष्ठांश्च शब्दान् श्रुणुम:। दूरदर्शनेन दविष्ठामपि दृश्यम् अवलोकयाम:।चलचित्रेण मनोरञ्जनं ज्ञानवर्धनं च कुर्म:। इत्यहो आधुनिक विज्ञानस्य विस्मयावहो गरिमा।

अनलधूलिनिकरम्  इवोदगिरति निदाघे तापभयं नास्ति। न च दारुणेपि शिशिरे शैत्यभयम्। वातानुकूलयन्त्रेण समस्तेपि वर्षे वयं जीवितानन्दम् उपभोक्तुम् पारयाम:।

एक्स-किरण-सहाय्येन शरीरस्य अन्तर्गतमपि वीक्षितुं शक्नुम:।वेधचिकित्साया:शल्यचिकित्साया: च वरदानेन मरणोन्मुख: अपि रोगी नवजीवनम् आपरं सर्वमपि उपयोगाश्रितमेव । विज्ञानस्यापि सदुपयोग: दुरुपयोग: वा मानवाश्रित:।एतत् तु मनुष्यस्यैव कर्तव्यं यत् विज्ञानं मानवहिताय एव नियोजयेत् न तु मानवविनाशाय। प्नोति। राकेट् इति यन्त्रेण तु जना: चन्द्रलोकम् अपि गता:।एतत् सर्वं वैज्ञानिकानां प्रतिभानस्य अध्यवसायस्य च फलम् येन अस्माभि: सुखं समृद्धिं मनोरंजनं च लब्धम्। परं विज्ञानेन नूतना: भृशुण्डय: शतघ्नय: परमाणु विस्फोटका: मशीनगनटैंका, विमानभेदिका:  तोपा: च निर्मिता:। एतानि अस्त्र-शस्त्राणि मानव विनाशकानि। अतः अनेके वदन्ति यत् विज्ञानं तु मानवजातये अभिशाप: एव।विज्ञानेन चितस्य अशांति: वर्धते न तु शान्ति:। तर्क: आद्रियते न तु श्रम:। प्रयोग: आद्रियते न तु विश्वास:।