सामग्री पर जाएँ

सदस्यः:59.92.145.83/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
कल्प्यं यत्, 
१-केवलं द्रवमापकं चिन्हपर्यन्तं निमज्जयितुम् अपेक्षित: भार:=भ१ ग्राम:
२-ऊर्घ्वपटले पिण्डं स्थाप्य द्रवमापकं चिन्हपर्यन्तं निमज्जयितुम् अपेक्षित: भार:=भ३ ग्राम: 
३-यदा घनपिण्ड: अधोवर्तिनि पटले वर्तते तदा द्रवमापकं चिन्हपर्यन्तं निमज्जयितुम् अपेक्षित: भार:= भ१-भ२ ग्राम:

तर्हि पिण्डस्य भार:=भ१-भ२ ग्राम: तथाच पिण्डेन अपसारितस्य जलस्य भार:=भ३-भ२ ग्राम:

घनपिण्डस्य अपेक्षिकं घनत्वम्=भ१-भ२/भ३-भ२

उदाहरणम्-द्रवमापकमेकं चिन्हपर्यन्तं जले निमज्जयितुं १२.३७ ग्रामपरिमितजारस्य आवश्यकता भवति। यदा घनपिण्ड एक:द्रवमापकोपरि आरोप्यते तर्हि द्रवमापकमुदके चिन्हपर्यन्तं निमज्जयितुं ७.६०ग्रामभारस्य यदा च जलाभ्यन्तरे पटलोपरि आरोप्यते तद ८.५६ ग्रामभारस्य आवश्यकता भवति। अस्तु, घनपिण्डसय आपेक्षिकं घनत्वमुपलभ्यम्।

घनपिण्डस्य भार: वयौ=१२.३७-७.६०=४.७७ ग्रामा: घनपिण्डस्य भारे घटितो ह्रास:=८.१६-७.६०=.५६ ग्राम: घनपिण्डस्य (ताम्रस्य) आपेक्षिकं घनत्वम्=४.७७/.५६=८.५ ।

(ब) नैकल्सनद्रवमापकेन कस्यचिद् द्रवस्य आपेक्षिकघनत्वोपलब्धि:-

(१) सा रीतिर् यस्यां द्रवमापकस्य तोलनम् अपेक्षते-सर्वप्रथमं द्रवमापक:कुण्डलिनीतुलया भौतिकतुलया वा तोल्यते।तदनु दीर्घे जारपात्रे जलं सम्पूर्य तस्मिन् द्रवमापक: प्लाव्यते। तदुपरिवर्तिनि पटले भारमारोप्य द्रवमापक: चिन्हपर्यन्तं द्रवे निमज्ज्यते भारश्च लिख्यते। पुनश्च एकस्मिन् दीर्घे जारपात्रे जलं सम्पूर्य द्रवमापक: चिन्हपर्यन्तं जले निमज्ज्यतेऽपेक्षितो भारश्च लिख्यते। एभिर्मापैस्तु आपेक्षिकं घनत्वमुपलभ्यते।

कल्प्यम्-(i)द्रवमापकस्य भार:='भ' ग्राम:

     (ii)द्रवमापकं जले निमज्जयितुम् अपेक्षितो भार:='भ'१ ग्राम:
    (iii)द्रवमापकं द्रवे निमज्जयितुम् अपेक्षितो भार:='भ'२ ग्राम:
     तर्हि द्रवमापकेन अपसारितस्य जलस्य भार:='भ'+'भ'१ ग्राम:
     तथाच, द्रवमापकेन अपसारितद्रवस्य भार:='भ'+'भ'२ ग्राम: 
     यत: द्रवमापक: एकचिन्हपर्यन्तमेव जले निमज्जित: अत: द्रवस्य जलस्यचोभयोरायतने समाने स्त:।
                         अपसारितद्रवस्य भार:         भ+भ २

अतो द्रवस्य आपेक्षिकं घनत्वम्=‌-‌------------------------=-------

                         अपसारितजलस्य भार:        भ+भ १

उदाहरणम्-द्रवमापकस्यैकस्य भार: ४२५.७ ग्रामपरिमितोऽस्ति। यदा स चिन्हपर्यन्तं जले निमज्ज्यते तर्हि तदुपरि १८.२२ ग्रामपरिमिता: मापा: आरोप्यन्ते, यदा स लवणविलयने निमज्यते तदा २३.२४ ग्रामपरिमिता: मापा आरोप्यन्ते।अतो लवणविलयनस्य आपेक्षिकं घनत्वम् उपलभ्यम्।

यदा कश्चिद् घनपिण्ड: द्रवे तरति तदा तत्पिण्डस्य भार: अपसारितद्रवस्य भारेण तुल्यो भवति। अतएव द्रवमापकेन अपसारितजलस्य भार:=४२५.७+१८.८२=४४३.६२ ग्रामा: एवञ्च, द्रवमापकेन अपसारितविलयनस्य भार:=४२५.७+२३.२४=४४८.६४ ग्रामा: विलयनस्य आपेक्षिकं घनत्वम्=४४८.६४/४४३.६२=१.०११

(२)रीतिर्यस्यां द्रवमापकस्य तोलनम् आवश्यकं न भवति-द्रवमापकं द्रवे प्लावयित्वा तदुपरि कश्चिद् घनपिण्ड:(पिण्डोऽयं यावदधिकायतनिको भवति तावदेव समीचीनं फलं प्राप्यते, अतएव द्रावखण्ड: सर्वोत्तमो भवति) आरोप्य: एवञ्च तेन पिण्डेन सह एतावान् मापो आरोप्य: येन द्रवमापक: चिन्हपर्यन्तं निमज्ज्येत्।मापा इमे अधिलेखनीया:। तत: घनपिण्ड: द्रवमापकस्य अधोवर्तिनि पटले स्थाप्य: तदनु च द्रवमापकोपरि एतावन्त: मापा:आरोप्या: येन द्रवमापका: द्रवे चिन्हपर्यन्तं निमज्ज्येत मापाश्च अधिलेख्या:।द्वितीयाद् भाराद् प्रथम: भार: ऊनीकरणीय:तत: द्रवे निमज्जनात् पिण्डभारे घटितो ह्रास: ज्ञायते। भारह्रासोऽयं पिण्डेन स्थानान्तरितस्य द्रवस्य भारेण तुल्यो भविष्यति। सम्प्रति द्रवमापकं जलपूर्णे जारपात्रके सम्प्लाव्य तमेव पिण्डं प्रथमं द्रवमापकस्य पटले निधाय भूय: अधोवर्तिनि पटले विन्यस्य चिन्हपर्यन्तं निमज्जयितुम् अपेक्षितो भार: ज्ञातव्य: तथा च भारयोर्द्वयोरन्तरं परिज्ञाय पिण्डेन अपसारितस्य उदकस्य भारो ज्ञातव्य:। पिण्डेन स्थानान्तरितस्य द्रवस्य भार: स्थानान्तरितोदकस्य भारेण विभाज्य:। तत: द्रवस्य आपेक्षिकं घनतवम् उप्लभ्यते।