सामग्री पर जाएँ

सदस्यः:59.92.218.205/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
  कल्प्यम्-  (i)पिण्डम् ऊर्ध्ववर्तिनि पटले समारोप्य द्रवमापकं द्रवे चिन्हपर्यन्तं निमज्जयितुम् अपेक्षितो भार:=भ १ ग्राम:
          (ii)पिण्डम् अधोवर्तिनि पटले निधाय द्रवमापकं द्रवे चिन्हपर्यन्तं निमज्जयितुम् अपेक्षितो भार:=भ २ ग्राम:
         (iii)पिण्डम् ऊर्ध्ववर्तिनि पटले संस्थाप्य द्रवमापकं चिन्हपर्यन्तं जले निमज्जयितुम् अपेक्षितो भार:= भ ३ ग्राम:
                             पिण्डेन अपसारितस्य द्रवस्य भार:   भ२-भ१
          द्रवस्य आपेक्षिकं घनत्वम्=------------------------  -------
                             पिण्डेन अपसारितस्य जलस्य भार:  भ४-भ३


उदाहरणम्- यदा द्रावकशकलमेकं द्रवमापकोपरि निधाय लवणविलयने प्लाव्यते तर्हि द्रवमापकं चिन्हपर्यन्तं विलयने निमज्जयितुम् ६.५० ग्रामभारोऽपेक्ष्यते।यदा द्रावकखण्ड: द्रवमापकस्य अधोवर्तिना पटलेन आबध्यते तर्हि विलयने तच्चिन्हपर्यन्तमेव निमज्जयितुं ८.७२ ग्रामपरिमितो भार: न्यस्यते। तद्दावकखण्डमेव क्रमश: द्रवमापकस्य ऊर्ध्ववर्तिनि च पटले निधाय तच्चिन्हपर्यन्तमेव जले निमज्जयितुं २.१६ ग्रामपरिमितभारस्य तथा ४.१७ ग्रामपरिमितभारस्य च आवश्यकता भवति।अतो विलयनस्य आपेक्षिकं घनत्वम् उपलभ्यम्।

द्रावकखण्डेन अपसारितस्य द्रवस्य भार:=८.७२-६.५०=२.२२ ग्रामा: तेनैव द्रावकखण्डेन अपसारितस्य जलस्य भार:=४.१७-२.१६=२.०१ ग्रामा: द्रवस्य आपेक्षिकं घनत्वम्=२.२८/२.०१=१.१० प्रायश:

विभिन्नोच्छ्रितिपर्यन्तं निमज्जनशीला: द्रवमापका:- नैकल्सनद्रवमापके द्रवाभ्यन्तरे निमज्जनीयम् आयतनं स्थिरं भवति। मापकं चिन्हं यावत् निमज्जयितुं तदुपरि विभिन्ना: मापा: स्थाप्यन्ते। किन्तु द्रवमापकानामेषां भार: स्थिरो भवति।द्रवाभ्यन्तरे निमज्जनीयम् आयन्तनञ्च न्यूनाधिकं भवति। अस्यैव सिद्धान्तस्य अनुसरणं कृत्वा दुग्धमापक: विनिर्मित:।

६-दुग्धमापक:- यन्त्रमिदं शीशकेन निर्मीयते। यस्याध: भाग: गुरु: क्रियते।अस्मिन् भागे पारद: शीशककणा: वा पूर्यन्ते। अनेन दुग्धमापक: द्रवे सारल्येन स्थित: सन्तरति। यदा विभिन्ने द्रवे मापकश्चायं निमज्ज्यते तर्हि विभिन्नोच्छ्रितिपर्यन्तं नलिका तेषु द्रवेषु निमज्जति किन्तु प्रत्येकावस्थायाम् अपसारितद्रवस्य संहतिरेकैव भवति। यत: संहति:=आयतनम्xघनत्वम्।अतो यदि द्रवस्य घनत्वम् अधिकं भवति तर्हि स्वल्पम् आयतनं द्रवे निमज्जति यदि च घनत्वम् अल्पं भवति तर्हि अधिकमायतनं निमज्जति। अतएव यन्त्रमिदं विभिन्नेषु द्रवेषु निमज्ज्य नलिकोपरि चिन्हाङ्कनं कर्तुं शक्यते यत् एतत्स्थानपर्यन्तं निमज्जनात् एतावदापेक्षिकं घनत्वं भविष्यति। भूयश्च कस्मिंश्चिद् द्रवे निमज्ज्य च्न्हस्य पटनात् तस्य आपेक्षिकं घनत्वम् उपलब्धुं शक्यते।