सामग्री पर जाएँ

सदस्यः:ANIL KUMAR TRIPATHI75/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

स्फोटः

अस्य शब्दस्य आवश्यकता समाजे शिक्षायाम शिक्षणे च अस्याः भाषायाः अहं भूमिका अस्ति ।

संसारे$स्मिन् सर्वस्यापि ज्ञानस्य मूलं शब्दा एव भवन्ति ।

स्फोटं विना अस्मिन् संसारे किञ्चिनपि कार्यं न कुर्वन्ति ।

शब्दं विना वार्तालापं सम्भवं न भविष्यति, चूँकि शब्दस्य माध्यमेनैव वार्तालापं प्रचलति ।

अस्य शब्दस्य माध्यमेन पठन पाठनं सम्भवति ।

अस्य शब्दस्य बोधः वृत्तिविशिष्ट ज्ञानाधीनो भवति ।

कः स्फोटः

स्फोटः नाम शब्दः । ध्वनिः शब्द गुणः ।

स्फोटः उत्पत्तिविनाशरहितः नित्यः ब्रह्मस्वरूपः अखण्डवाक्यजातिरिति स्वीक्रियते। "शब्द एव स्फोट" इति प्रतिपादयति । एवं स्फोटस्य विचारधारा व्याकरणवाङ्मये वाङ्मयान्तरे च लभ्यते ।

स्फोट शब्दार्थः

स्फुटत्यर्थो यस्मादिति व्युत्पत्त्या स्फुट्यते व्यज्यते वर्णैः यः स इति व्युत्पत्त्या वा ध्वनिव्यङ्गयत्वे सति अर्थप्रकाशकत्वमेव स्फोटत्वम् । "स्फुट- विकसने " इत्यस्माद्धातोः " अकर्तरि च कारके संज्ञायाम् "इति सूत्रेण घञ् प्रत्यये कृते स्फोट शब्दः निष्पद्यते ।

स्फोटस्वरूपम्

केचन स्फोटः अनित्य इति वदन्ति । अन्ये च तं नित्यं निरवयवं चामनन्ति । यः उच्चारणादिसाधन भूतैः कण्ठताल्वादिभिः संयोगविभागाभ्यामुत्पद्यते सः स्फोटः इत्युच्यते ।

बाग्रूपेण स्फोटः

शाब्दिकानां चतर्धा हि वागस्ति ।

यथा = (1)परा (2)पश्यन्ती (3)मध्यमा (4) वैखरी चेति ।

परा = तत्र मूलाधारचक्रे स्थिता पवनसंस्कारीभूता स्पन्दशून्या बिन्दुरूपिणी " परा " वागित्युच्यते ।

पश्यन्ती = ततः नाभिपर्यन्तमागच्छता तेन वायुना अभिव्यक्ता मनोगोचरीभूता वाक् " पश्यन्ती " इति कथ्यते ।

मध्यमा = ततो ह्रदयपर्यन्तमागच्छता वायुना अभिव्यक्ता तत्तदर्थवाचकशब्दस्फोटस्वरूपा श्रोत्रग्रहणायोग्यत्वेन सूक्ष्मा जपादौ बुद्धिनिर्ग्राह्या " मध्यमा " वाग्भवति ।

वैखरी = ततः पुनः मुखपर्यन्तमागच्छता तेन वायुना ऊर्ध्वमाक्रमता मूर्धानमाहत्य परावृत्त्य च तत्तत्स्थानेषु अभिव्यक्ता  " वैखरी " वागुच्यते ।

स्फोटः वृत्तिभेदरहितः = स्फोटः ध्वनिजन्यः अस्ति ।

ध्वनिर्द्विविधः = (1) प्राकृतः = प्रकृतौ भवः प्राकृतः । तत्र स्फोटस्य ग्रहणे प्राकृतध्वनिरेव स्वीक्रियते । प्रकृत्या बोधनेच्छया स्वभावेन वा जातत्वात्प्राकृतध्वनिः स्फोटव्यञ्जको भवति ।

(2) वैकृतः = प्राकृताज्जातः विकृतिविशिष्टः चिरस्थायिनिवर्तकः वैकृतः ध्वनिः उच्यते ।

स्फोटः नाम शब्दः भवति । शब्देन पदस्य निर्माणं भवति । पदेन वाक्यानां निर्माणं जायते । तथा च वाक्यानां वार्तालापे प्रयोगं सम्भवति । इमं विना वार्तालापं न सम्भवति । मानवस्य वदिष्यति भाषारूपे विद्यति ।।