सदस्यः:Abhaya Pradhan
शैक्षिकचिन्तक: स्वामी दयानन्दसरस्वती
स्वामीदयानन्दस्य जन्म गुजुरातप्रान्तस्य काठियावाडक्षेत्रस्य ‘टङ्कारानगरे’ 1824 तमेSब्दे सितम्बरमासस्य द्वादशतमे दिनांके भाद्रपदमासस्य शुक्लपक्षस्य नवम्यां तिथौ बृहस्पतिवासरे जन्म अलभत।अस्य पिता कर्षणलालतिवारी,माता च रूकमणि आस्ताम्।मूलनक्षत्रे जन्मकारणत्वात् स्वामीदयानन्दस्य वाल्यावस्थायां ‘मूलशंकर:’ इति अभिधानमासीत्। स्वामीदयानन्दस्य जीवनदर्शनम् ;- आर्यसमाजस्य संस्थापक:स्वामी दयानन्द: महान् दार्शनिक: आसीत्।आदिशंकराचार्य: इव स्वामीदयानन्दो वेदस्य प्राचिनकाले विद्यमानं गौरवं पुन: प्रतिष्टापितवान्।स्वामी दयानन्द: “जीवात्मा”, “ब्रह्म” चेत्यनयो: गुणयो: पार्थक्यं मनुते स्म।तन्मते ब्रह्म तु सर्वशक्तिमान् वर्तते।ब्रह्म जीवात्मने तत् कर्मण: फलं प्रददाति।जीवात्मा च तस्य कर्मफलस्य उपभोगं करोति।स्वामी दयानन्द: ईश्वरस्य सगुणं निर्गुणं चेत् उभयं रुपं स्वीकरोति स्म। शिक्षाया: अर्थ: ;-
स्नामीदयानन्द: शिक्षां प्रक्रीयारुपे स्वीकृतवान्।तन्मते प्रक्रीयेयं गर्भावस्थायाम् आरम्भं मृत्युपर्यन्तं प्रचलति।स: शिक्षाम् ‘आन्तरिकशुध्दि:’ इति रुपे स्वीकृतवान्।स्वामीदयानन्दमहोदय: शिक्षाया: स्वरुपसन्दर्भे लिखितवान् यत् – “शिक्षा हिं सत्याSSचरणस्य योग्यता नाम” इति।विद्या चरित्रनिर्माणेSपि सहायिका भवति।
शिक्षाया: उद्देश्यानि ;-
स्वामिदयानन्दस्य मतानुसारं शिक्षाया: प्रमुखम् उद्देश्यं धर्माचरणं वर्तते। यथा (१) वैदिकसंस्कृते: पुनरुत्थानम्,(२) राष्ट्रियविकास:,(३) विश्वबन्धुत्वभावनाया: विकास:,(४) सांस्कृतिक वैयक्तिकताया: विकास:,(५) विशुध्दचरित्रस्य निर्माणम् च ।
पाठ्यचर्या: ;- 1. प्रथमत: बालकेभ्यो बालकाभ्याश्च पाणिनिना विरचितस्य ध्वनितत्त्वस्य बोध: करणीय:। 2. ध्वनिविज्ञानात् परं छात्रेभ्य: निर्घण्टु:, निरुक्तम् इति ग्रन्थद्वयं शिक्षणीयम्। 3. व्याकरणाभ्यासानन्तरं छात्रेभ्य: पिंगलछन्दोग्रन्थ: अध्यापनिय:। 4. उपवेदा: अपि शिक्षणीया:। शिक्षणविधय: ;- स्वामी दयानन्दस्य शिक्षणविधि: पाश्चात्यपध्दत्याश्रित: भवति।यथा – शब्दार्थविधि:,व्युत्पत्तिविधि:,अनुवादविधि:,व्याख्यानविधि:,प्रवचनविधि:,व्याकरणविधि:,कथोपकथनविधि: च। गुरू-शिष्ययो: सम्बन्ध: ;-
आचार्य: विशिष्टगुणसम्पन्न: भवेदिति दयानन्दस्य आशय:।स: शब्दार्थयो: सम्बन्धम् अधिगच्छति,मिथ्याभिमानात् मुक:,आदरवान् च भवति। न केवलम् अध्यापक: अपि तु छात्रोSपि विशिष्टगुणसम्पन्न:,शान्तस्वभाव,गुरुभक्त:,विचारशील: इत्यादय:भवेत् इति।
निष्कर्स: ;-
भारतस्य ये महान्तो विभूतय: स्वकीयेन स्वतन्त्रचिन्तनेन एतस्य देशस्य शिक्षाया: स्वरुपस्य निर्धारणाय प्रयासं कृतवन्त:,तेषु स्वामीदयानन्दस्य नाम विशिष्टं वर्तते। भारतीयसंस्कृते: हिन्दुधर्मस्य च प्रबलसमर्थत्वात् स: समकालिकाया: शिक्षापध्दत्या: सूक्ष्मातिसूक्ष्मालोचनां कृतवान्।अतएव शिक्षाया: क्षेत्रे स्वामीदयानन्दस्य योगदानं भारतीयानां हृदि सदैव विराजते।