सदस्यः:Akhsur
कर्नाटक राज्यम् अनेकानां कवीनां मातृभूमिः अस्ति| कर्नाटके अनेके प्रसिद्धाः कवयः आसन्, इदानीम् अपि सन्ति| तेषु कुवेम्पु, द.रा.बेन्द्रे, डा||यु.आर्. अनन्तमूर्तिः, मास्ति वेङ्कटेश अय्यङ्गारः, सर्वज्ञः इत्यादयः प्रसिद्दः सन्ति| एतेषु कविं सर्वज्ञः कविः महोदयः अतीव प्राचीनः वचनकारः अस्ति| सः कन्नड साहित्ये प्रसिद्दः लेखकः अस्ति| कविः सर्वज्ञः एकः प्रसिद्धः वचनकारः, दार्शनिकः, तत्वज्ञानी, सन्यासी च आसीत्| तस्य पूर्वतनं नाम पुष्पदत्तः इति आसीत्| तस्य पितुः नाम बसवरसः, सः शिव भक्तः आसीत्| तस्य मातुः नाम माली, सा शूद्रकुले जाता आसीत्| सः कर्नाटक राज्यस्य धार्वाड इति मण्डले अजायत इति इतिहासकाराः वदन्ति| सः षोडशशतके आसीत् इति विमर्शकानाम् अभिप्रायः अस्ति| "सर्वज्ञः" इति पदस्य, "सर्वं जानाति" इति अर्थः अस्ति| अर्थात् यः सर्वस्मिन् विषये ज्ञानवान् इति| सः तस्य त्रिपदिषु मानवीय मौल्यानां तथा जीवन पद्धथेः वर्णनं तथा मानवजन्मनः महत्वं च वर्णितवान्| केवलं अन्धश्रद्धया मूर्तिपूजनेन च तत्वज्ञानं तथा मोक्षं प्राप्तुं न शक्यते इति प्रतिपादितवान्| सः प्रधानतया ज्ञानं तथा भक्तिः च मुक्ति साधनम् इति प्रतिपादितवान|
ಮಾತಿನಿಂ ಹಗೆನುದಿಯು ಮಾತಿನಿಂ ಹಗೆಕೊಲೆಯು, ಮಾತಿನಿಂ ಸರ್ವಸಂಪದವು, ಲೋಕಕ್ಕೆ ಮಾತೆ ಮಾಣಿಕ್ಯ ಸರ್ವಜ್ಞ|| अस्मिन् त्रिपदौ कविः सर्वज्ञः मानवस्य जीवने वाचः महत्वं एवं वर्णयति| वचसा एव वैरत्वम् आरभ्यते| वचसा ए अस्मिन् लोके मारणं अपि भवति| उत्तम वचनैः सकलविधं ऐश्वर्यं प्राप्यते| अतः अस्मिन् लोके वाक् माणिक्य इव अर्थात् दुर्वचनैः वैरत्वस्य कारणं भवति परन्तु सद्वचनैः जीवने सुखसन्तोषः च लभ्यते|अतः जीवने सद्वचनं वक्तव्यं इति सर्वज्ञः वदति| इदं केवलम् एकम् उदाहरणम्|
एवं सर्वज्ञः द्विसहस्र त्रिपदीनं लिखितवान् इति प्रासिद्दः अस्ति| तेषां पाठनेन जीवनं आनन्दमयं सार्थकं च भवति|