सामग्री पर जाएँ

सदस्यः:Amrita1313931/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
                                                                                                श्रीहर्षवर्धन​
               स्थाण्वीश्वरोधिपतिहर्षवर्धनमहाराज एव रत्नवलीकारः श्रीहर्षकिविरिित ग्यायते । श्रीहर्षदेवस्यास्थाने धावक इित किश्चत् किवरासीत्, स एव नािटकािममां िवरचय्य महाराजस्य नािम्न प्रसिद्धिमनयत् इति जनश्रुतिः श्रूयते । परं श्रीहर्षदेवः स्वयमेव कविर्विद्वात् चासीदिति प्रसिद्धमेवास्ति हर्षचरिते । इत्िसंग इति चीनाप्रवासिकः सप्तमशतमानस्य पूर्वभागे हर्षवर्धन - महाराजस्यास्थानमागत्य - "अहिंसाधर्मं सङ्गीत नृत्याभिनयसमन्वितेन नाटकेन प्रचारपथमानीतवानिति" स्वीयग्रन्थे उल्लिखितवान् । स च विषयः श्रीहर्षदेवस्य नागानन्दनाटकमेव समन्वेति । सर्वथा श्रीहर्षदेव एव नाटकत्रयस्य कर्तेति विवादविहीनोऽयं विषयः ।
                 उत्तरभारतस्य उत्तरापथस्य वा सार्वभामपदवीमारूढो हर्षवर्धनमहाराजः प्रभाकरवर्धनमहाराजस्य पुत्र राज्यवर्धनस्य राज्यश्रियश्च भ्राता प्रथमं स्थाण्वीश्वरमनन्तरं प्रायः कान्यकुब्जराज्यमधितिष्ठति स्म । राज्यवर्धनस्य दुर्मरणादनन्तरं शत्रून् विजित्य हर्षदेवः सार्वभौमोऽभवत् । प्रियदर्शिका, रत्नावली, नागानन्दमिति त्रीण्येव नाटकानि तस्य कृत्य इति ग्यायते । तेषु रत्नावली काव्यसौन्दर्येण नाटकीय - संविधान - चातुर्येण मनोराञ्चक - कथा - प्रभावेण, मनोहरशैल्याः माधुर्येण च, न केवलं विद्वद्रञ्जनी अपि तु सामान्य - जननन्दिनी चेति प्रसिद्धिं गता विहते ।