सदस्यः:Aniruddh Hanasoge sudarshan
दिखावट
मम नाम अनिरुद्धः । बॆङ्गळूरुमहानगरस्य जयनगरक्षेत्रे निवसामि । समीपस्थे क्रिस्तविश्वविद्यालये विज्ञानपदवीकक्ष्यासु द्वितीयार्धवार्षिके पठामि । अस्माकं गृहे संस्कृतम् अध्येतुं महान् प्रोत्साहः । अहम् अपि तत् पठितुम् इच्छामि । तत् विहाय मृदङ्गवादनं, रासायनिकप्रयोगाः, पाञ्चालिकविमाननिर्माणं च मम हव्यासाः । मम पिता इतिहाससंशोधकरूपेण कार्यं करोति । माता गृहिणी । एका अनुजा अपि अस्ति मम । सा दशमकक्ष्यायां पठति । विज्ञानपदव्याः पश्चात् अग्रे अध्ययनं कृत्वा विद्यावारिधिम् अपि समापयितुम् इच्छामि । विज्ञानक्षेत्रे संशोधनं कर्तुं मम महती इच्छा । तत्रापि वैमानिकशास्त्रे (aeronautics) मम अभिरुचिः ।