सदस्यः:Anita Nath Ishu
संस्कृतशिक्षणे परम्परागतपद्धते महत्वं अध्यापनं नाम एका कला वर्त्तते । भारते वैदिककालादारभ्य संस्कृताध्यापनाय काश्चन् शिक्षणपद्धतयः सन्ति, एतासु पद्धतिषु कश्चन प्राचीनाः नवीनाश्च सन्ति । वस्तुतः पद्धतिः किमर्थम ? पद् + इति = पद्धतिः भवति । 1. भण्डारकरविधिः 2. पाठ्यपुस्तकविधिः 3.प्रत्यक्ष-विधिः 4. परम्परागतविधिः परम्परागतपद्धतिः अथवा विधिः परम्परागतपद्धतिः द्विधा विभय्यते । प्रथमा पाठशालापद्धतिः द्वितीय व्याकरण पद्धतिश्चेति । पाठशालापद्धतेः साहित्यसम्बद्धांशाः आधाराः व्याकरणपद्धतेः व्याकरणंशाः आधाराः भवन्ति । पाठशालापद्धतेः नामान्तरमास्ति ण्डितप्रणाली पद्धतिरिति । एषा प्रकाचीन भारतीयशिक्षापद्धतेः प्रतिनिधिः अस्ति । विदेशीया आगत्य सार्वजनिकपाठशालां व्यवस्थाप्य शिक्षायाः रूपरेखां परिवर्तिता संस्कृतक्षेत्रेऽपि परिवर्तनं समागतम् । इदानीमपि वहवीषु पाठशालासु विद्यालयेषु महाविद्यालयेषु च अनया पद्धत्या अध्यापनं प्रचलत्येव । अत्र शिक्षणं सर्व मौखिकमासीत् । कण्ठस्थोकरणस्य स्मरणस्य च महत्त्वमधिकं भवति । परम्परागतपद्धत्या उद्देश्यानि – 1. चतुर्णां पुरूषार्थानां सम्पादनम् । 2. सच्चारित्त्य – सम्पादनम् । 3. समीचीन – व्यक्तित्वसम्पादनम् । 4. आत्मसंयमन – चिन्तन-तर्कशक्त्यादीनां सम्पादनम् । 5. प्राचीन – धार्मिकशिक्षायां अभिरूचिसम्पादनम् । अस्यां पद्धत्यां शिक्षकः स्वयं श्लोकान् महाखण्डान् वा पठति । छात्तैरनुवाचनं न क्रियते । गुरूरेव सक्रियो भूत्वा सर्वानंशात् वदेत् । वादविवाद, शास्त्रर्थः तार्किकशाक्तिः इत्यादीनां कृते अधिकं प्रमुख्यं दीयमानमासीत् दीयते च। अस्यां पद्धत्यां प्रारंभिकस्तरे, शब्दमञ्जरी, धातुमञ्जरी, अमरकोशः हितोपदेशः, पञ्चतन्त्रम्, इत्यादिषु ग्रन्थेषु केचनांशाः उपनिषद-कथाः पञ्चमहाकाव्यानि नाटकानि च भवन्ति । पद्धतिरेषा समीचीना । परम्परागतपद्धत्यापाठ्यक्रमः 1. प्रारम्भेशब्दरूपावलिः धातुपाठ सन्धि, समासचक्रं, अमरकोशः इत्यादीनां कण्ठस्थीकरणम् । 2. संस्कृते सरलगद्य – पद्य रूपकशानां पाठनम् । 3. मध्यसिद्धान्तकौमुदी, सिद्धान्तकौमुदी, अष्टाध्यायि, महाभाष्यादि ग्रन्थानां पाठनम् । 4. काव्यानां, प्रकरणग्रन्थानां दृढतरम् अध्ययनम् । 5. कविता, गद्यं, रूपकं, चम्पूः साहित्यकसमालोचनञ्च पाठनम् म। परम्परागतपद्धत्याः गुणाः 1. गुरूशिष्ययोर्मध्ये समीचीनः सम्बन्धो भवति । 2. आवर्त्तने उच्चारणगताः दोषाः निवारिताः भवन्ति । 3. रटन – प्रक्रियायाः कण्ठस्थीकरणस्य च प्रामुख्यं प्रदीयते । 4. संस्कृतिकाध्यात्मिकमूल्यानां अधिकं प्रामुख्यं प्रदीयते । 5. शोधसम्बद्धं ज्ञानं अनया प्राप्तुं शक्यते । परम्परागतपद्धत्याः दोषाः पाठ्यक्रमे एक एव पक्षःअधिकश्चास्ति । स्वयं कृते अवकाशः नास्ति । शिक्षा अध्यापककेन्द्रियता भवति । मनोविज्ञानसिद्धन्तानां प्रतिकृता पद्धतिरियम् । कल्पनाशक्तेः चिन्तनशक्तेश्च हासो भवति । निष्कर्षः पाठशालापद्धतिः इदानिमपि मठेषु, आश्रमेषु, पाठशालासु, विद्यालयेषु, महाविद्यलयेषु, संस्कृतविश्वविद्यालयेषु, च प्रचलिता वर्त्तते । परम्परागत-पद्धत्यां साहित्यस्य कृते मुखं स्थानं व्याकरणस्य गौणं स्थानं प्रदीयते । व्याकरणस्य संस्कृतसाहित्ये महत् प्रामुख्यम् अस्ति । अद्यतनेषु दिनेषु संस्कृतविद्यालयेषु प्रथमतया लघुसिद्धान्तकौमुदी अध्याप्यमानास्ति । आरम्भस्तरे शब्दाः धातवश्चाध्याप्यमानास्यन्ति । संज्ञा, परिभाषाः सत्राणि च पाठ्यपुस्तकेषु उदाहरणतया प्रदीयन्ते । सर्वमेतत् परम्परागतपद्धतिं सूचयति । मनोविज्ञानसिद्धान्तानाम् अनुसरणाभावेऽपि अस्याः पद्धतेः महत्वमस्ति । अनुभवेन ज्ञायते यत् अनया पद्धत्या उत्कृष्टाः पण्डिताः उत्तमाः विद्वांसः काव्यश्च निर्मिताः अभवत् । भारतीयसंस्कृतेः साहित्यस्य च संरक्षणाय इयं पद्धति नितरामुखपयुक्ता भवति ।