सामग्री पर जाएँ

सदस्यः:Ankita Priyadarsani

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

अभिक्रमितानुदेशनम् (Programmed Instruction)

सिड्झी.एल्. प्रेस्सीमहोदय: क्रि.प. 1920 तमे वर्षे एकं यन्त्रं निर्मितवान्। तदयन्त्रं छात्रस्य पुरस्तात् प्रश्नानाम् एकां शृङ्खलामुपस्थापयति । प्रथमप्रभ्रं पठित्वा चदा छात्रः उत्तरं ददाति तदा यन्त्रं सद्यः एव तस्य उत्तरं सत्यम्, असत्यं या प्रदर्शयति । ततः द्वितीयं प्रश्नम् उपस्थापयति। एवं छात्रः स्वविजयेन (उत्तरस्य सत्यताज्ञानेन) प्रोत्साहितः द्विगुणितवेगेन निर्धारितानि उद्देश्यानि अधिगच्छति । सिड्नीमहोदयेन प्रख्यापितञ्च यत् एतद्यन्त्रं बहूनां शिक्षकाणां कार्य स्वयं निर्वहणे समर्थ भवतीति। परन्तु तस्मिन् काले जनानां निरुद्योगसमस्यायाः कारणात् एतस्य यन्त्रस्य प्रोत्साहनं न लब्धम्।

पर्यवेक्षकस्य हस्ताक्षरम्

ततः क्रि.प. 1950 तमे वर्षे प्रो. बी. यफॅ. स्किनर् महोदयः अधिगमस्य विषये स्वयमुपस्थापितस्य 'व्यवहारनिबन्धनसिद्धान्तस्य' (Operant Conditioning Theory) आधारेण नवीनां स्वशिक्षणपद्धतिम् 'अभिक्क मितानुदेशनम्' (Programmed Instruction) इति नाम्ना प्रसिद्धाम् आविश्वकार।

शिक्षणप्रक्रियायां शिक्षक-छात्रयोर्मध्ये अन्तःक्रिया महत्त्वपूर्णा। समुचितरूपेण अन्तःक्रियामाध्यमेनैव शिक्षकः स्वोद्देश्येषु साफल्यं भजते । समुचित-प्रतिक्रियायाः कृते शिक्षकस्य अवधानं छात्रेषु व्यक्तिगतत्वेन भवेत्। परन्तु अधुना वर्धिष्यमाणायाः जनसंख्यायाः, ज्ञानस्य विविधक्षेत्रेषु शीघ्रगत्या विकासस्य च कारणेन प्रत्येकं छात्रेषु व्यक्तिगतावधानस्य प्रदानम् अध्यापकस्य कृते जटिलं कार्यमभवत्। एतादृश्यां परिष्ठितौ शिक्षणस्य नवीनविधीनाम् अन्वेषणमपेक्षितं, येन छात्रः स्वयमेव ज्ञानार्जनं कर्तुं शक्नुयात् अपि च शिक्षकस्य प्रतिक्रियामपि प्राप्तुं शक्नुयात्। अस्मिन् क्षेत्रे शिक्षणस्य नवीनविधिः वर्तते-'अभिक्रमिताधिगमः'।अभिक्रभिताधिगमः इत्यस्य अभिप्रायोऽस्ति क्रमबद्धाधिगमः इति । बी.एफ. स्किन्नरमहोदयः अस्य प्रविधेः जनकः । तस्य मतानुसारेण "अभिक्रमितानुदेशनं शिक्षणस्य कला, अधिगमस्य च विज्ञानं वर्तते।"

अभिक्रभिताधिगमेन छात्राणां सम्मुखे विषयवस्तु लघुनियोजितसोपानेन प्रस्तुतं भवति । अस्य संरचनायां शिक्षणसूत्राणामनुसरणं भवति । तेन छात्रः ज्ञातादज्ञातं प्रतीति शिक्षणसूत्राधारेण स्वयमेव ज्ञानं प्राप्नोति । अस्मिन् विधौ छात्रेण कृतस्य कार्यस्य पुष्टिः अपि शीघ्रं भवति। अभिक्रमिताध्ययनं आधारभूताध्ययनं वर्तते येन प्रभावपूर्ण रोचकं च ज्ञानं स्थायिरूपेण अधिगन्तुं शक्यते ।

"https://sa.wikipedia.org/w/index.php?title=सदस्यः:Ankita_Priyadarsani&oldid=483714" इत्यस्माद् प्रतिप्राप्तम्