सदस्यः:Ashishvyas82/प्रयोगपृष्ठम्
न्यायसिन्धान्तकौमुदि
साध्यः अस्मिन् अस्ति" इति विग्रहः । अस्मिन् इत्यत्र इदम् शब्दस्य पर्वतार्थः (पक्षार्थः), ङिप् प्रत्ययस्य अधिकरणत्वमर्थः । प्रकृत्यर्थस्य पर्वतपदार्थस्य सप्तम्यर्थाधिकरणतायाम् आधेयतासम्बन्धेन अन्वयः । पक्ष(पर्वतः)निष्ठाधिकरणता इत्यभूत् । अस्ति इत्यत्र अस् धातोः आधेयत्वमर्थः, आख्यातस्य च आश्रयत्वमर्थः । सप्तम्यर्थाधिकरणतायाम् अस् धात्वार्थाधेयतायां निरुपितत्व सम्बन्धेन अन्वयः, तस्य च आश्रयत्वे अन्वयः । आश्रयत्वस्य च प्रथमान्तार्थसाध्य(वन्हि)पदार्थे अन्वयः । एवं च पक्ष(पर्वत)निष्ठाधिकरणतानिरुपिताधेयताश्रयः साध्यः(वन्हिः) इति शाब्दबोधः । विग्रहवाक्यात् यादृशविशेष्यविशेषणभावापन्नोबोधो जायते समासवाक्यात् तद्विपरित विशेष्यविशेषणभावापन्नोबोधः इति नियमानुसारं विग्रहवाक्ये विशेष्यभूतः साध्यः वन्ह्यादिः समासवाक्ये विशेषणताम् आप्नोति । एवं विशेषणभूतं च पक्षः पर्वतादिःविशेष्यतां भजते । इत्थं च साध्यवान् पक्षः इत्येतस्मात् समासवाक्यात् साध्यः(वन्हि)निष्ठाधेयतानिरुपिताधिकरणतावान् पक्षः(पर्वतः) इति विपरितविशेष्यविशेषणभावापन्नः बोधः जायते ।
साध्यवान् पक्षः इत्यत्र साध्यपदं तदुत्तरं वतुप् प्रत्ययश्च । साध्यपदस्य साध्यःवह्न्यादिः अर्थः । वतुप् प्रत्ययस्य अधिकरणत्वमर्थः । वतुप् प्रत्ययार्थ अधिकरणतायां साध्यपदार्थस्य निरुपितत्व सम्बन्धेन अन्वयः । एवं च साध्यवान् इत्यस्य साध्यनिरुपिताधिकरणता अथवा साध्यनिष्ठाधेयतानुरुपिताधिकरणता इति बोधः । वतुप् प्रत्ययार्थ अधिकरणत्वस्य च पक्षपदार्थे आधेयता सम्बन्धेन अन्वयः । इत्थं च साध्य(वन्हि)निरुपिताधिकरणताश्रयः पक्षः(पर्वतः) अथवा साध्य(वन्हिः)निष्ठाधेयतानिरुपिताधिकरणताश्रयः पक्ष(पर्वतः) इति ।
पक्षेसाध्यः इत्यत्र पक्षपदं तदुत्तरवर्ति ङिप् प्रत्ययः । पक्षे इत्यत्र पक्षशब्दस्य पर्वतादिः अर्थः । ङिप् प्रत्ययस्य अधिकरणत्वमर्थः । पक्षपदार्थस्य सप्तम्यर्थाधिकरणतायाम् आधेयता सम्बन्धेन अन्वयः । इत्थं च पक्ष(पर्वत)निष्ठाधिकरणता इत्यभूत् सप्तम्यर्थधिकरणत्वस्य प्रथमान्तार्थे साध्य(वन्हि)पदार्थे निरुपकत्वसम्बन्धेन अन्वयः अथवा स्वनिरुपिताधेयतावत्वसम्बन्धेन अन्वयः । इत्थं पक्ष(पर्वत)निष्ठाधिकरणता निरुपको साध्यः(वन्हिः) ,अथवा पक्ष(पर्वत)निष्ठाधिकरणतानिरुपिताधेयताश्रयः साध्यः(वन्हिः) इति निष्कृष्टः शाब्दबोधः ।