सामग्री पर जाएँ

सदस्यः:B.laxmi panda

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

प्रक्षेप-प्रक्षेपेतरप्रविधिभिः व्यक्तित्वस्य आकलनम्

●व्यक्तित्वम् :

शिक्षायाः उद्देश्येष्वन्यतमं वर्तते सम्पूर्णव्यक्तित्वस्य विकासः । अतः अध्यापकाः व्यक्तित्वंस्य अर्थः , सिद्धान्ताः ,मापनम् इत्यादिविषयाम् जानीयुः । सामान्यतः लोकेशारीरिकसंरचना ,स्वास्थ्यम् ,सौन्दर्यम् वेषभूषा इत्यादिन् सामान्यगुणान् व्यक्तित्वम् इति लौकिकाः प्रयुयुञ्जुः ।

             व्यक्तित्वम् इत्यस्य आड्ंग्लभाषायाः PERSONALITY इति समानार्थकशब्दः वर्तते । आड्ंग्लभाषायाः PERSONALITY शब्दः व्यक्तेः बाह्यगुणान् आचारव्यवहारांश्च ध्योतयति । वस्तुतः लाटिनभाषायाः PERSONA इति शव्दात् PERSONALITY शव्दः निष्पन्नः । PERSONA इत्यस्य लाटिनभाषायां मुखावरणम् ( Mask) इत्यर्थः । अर्थात् रंगमंचे विविधाः नटाः आत्मनः स्वभावं गोपयित्वा अन्यव्यक्तिनाम् अभिनय कुर्वन्ति । तथैव नित्यजीवने जनाः वास्तविक- व्यवहारं प्रदर्शयन्ति । अतः विविधाभिः प्रक्षेपकअप्रक्षेपकपरीक्षाभिः व्यक्तेः गुढव्यवहारं ज्ञातुं प्रयत्नः क्रियते ।


●व्यक्तित्वस्य मापनम् :

व्यक्तित्वं नाम कस्यचित् मनुष्यस्य सर्वगुणानां समष्टिस्वरूपं वर्तते । परन्तु सर्वलक्षणानां मापनं स्पष्टतया न संभवति । तन्मापनाय योग्यसाधनानि उपकरणानि च नोपलभ्यन्ते । यथा दैर्घ्यं ( Length) , विस्तार (Width) ,औन्नत्यम् (Height) च मापयितुं शक्यते न तथा व्यक्तित्वगुणानाम् । व्यक्तेः भारः , औन्नत्यम् , कटिः इत्यादिनां स्पष्टतया मापनं संभवति । अतः व्यक्तित्वस्य मापनम् इति कथनमसगंतम् भवति । तत्स्थाने व्यक्तित्वस्य मुल्याङ्कनम् (Assessment of Personality) इति प्रयोगः सुसङ्गतं भवति । मनोविज्ञाने व्यक्तित्वस्य मुल्याङ्कनाय बहवः उपायाः प्रस्तुताः सन्मति । तेषां वर्गीकरणमित्थं विधीयते । व्यक्तित्वस्य मुल्याङ्कनम् -


१.प्रक्षेपकविधयः
                     २.अप्रक्षेपकविधयः 

अप्रक्षेपकविधयः -

                    १.व्यक्तिनिष्टविधयः
                    २.वस्तुनिष्टविधयः

●प्रक्षेपकविधयः व्यक्तित्व परीक्षणस्य विश्वसनीय विधिषु प्रक्षेपपरीक्षा मनोवित्सु वाहुल्येन प्रयुज्यते । प्रक्षेपविधेः जनकः फ्रेकं महोदयो मन्यते । तदनुसारं प्रक्षेपविधेः एतस्य ज्ञानं जायते यत् जनः किमपि कार्यं कथमवगच्छति करोति च । एतेन जनस्य अन्तः स्थितेज्ञानं भवति इति ।

●प्रक्षेपविधीनां लक्षणानानि :

★ व्यक्तेः अचेतनमनसि दमितेच्छानां भावनाञ्च ज्ञानं संभवति ।

★ एताभिः व्यक्तित्वसंरचना ज्ञातुं शक्यते ।

★ सामान्य-अपसामान्यमनुष्याणां व्यक्तित्वपरीक्षणाय एते उपकुर्वन्ति ।

★ एतेषां सञ्चालनं प्रायः समानं भवति ।

★ परीक्षाणाम् अङ्कप्रदानं , विश्लेषणं , व्याख्यानञ्च वस्तुनिष्ठतया क्रियते ।

★ प्रक्षेपपरीक्षाणां विश्वसनीयता वैधता च सामान्या भवति ।

●रोषाकमशीविन्यासपरीक्षाः

स्विट्जर्लाण्डदेशीयः मानसिकचिकित्सकः हर्मनरोषाकमहोदयः १९२१ तमे वर्षे व्यक्तित्वमूल्याङ्कनाय मशीविन्यासपरीक्षां निर्ममे । परीक्षायामस्यां १० अस्पष्टचित्राणि सन्ति । एतेषु ५ चित्राणि कृष्णवर्णानि ,द्वे कृष्णरक्तवर्णयुक्ते ,त्रीणि चित्रवर्णयुतानि च भवन्ति । यस्य व्यक्तित्वस्याध्ययनं क्रियते तस्मै चित्रितानि प्रपत्राणि एकैकशः प्रदर्शयन्ते । प्रयोगकर्त्ता चित्रप्रदर्शनानन्तरं तद्विषये प्रश्नान् पृच्छति ।

●रोषकपरीक्षायाः‌ सञ्चालनम्

★ रोषकपरीक्षायाः वैयक्तिकपरीक्षा वर्तते । अत्र एकस्मिन् प्रयोज्यस्य परीक्षणम् कर्तुमर्हति । यस्य सञ्चालनम् इत्थं क्योंकि ।

★ परीक्षकः प्रयोज्येन साकं स्नेहमयवातावरणे परीक्षायाः उद्देश्यानि स्वरूपञ्च स्पष्टीकरोति

★ परीक्षकः प्रयोज्याय एकैके चित्रं प्रदर्श्य-चित्रेस्मिन् किमस्ति ? चित्रम् दृष्ट्वा भवतः मनसि काः भावनाः उत्पद्दन्ते ? इत्यादिप्रश्नान् पृच्छति ।

★ परीक्षकः प्रयोज्यस्य प्रत्युत्तराणि सारण्यां लिखति । पुनश्च प्रयोज्यः कथं चित्रं गृह्नाति ?तस्य मुखे हावभावाः कीदृशाः सन्ति ? इत्यादिविषयानपि परीक्षकः अवोलोकनं कुर्यात् ।

★ इत्थं १० चित्राणि क्रमशः प्रयोज्याय दत्वा प्रतिक्रियाः निरीक्षते । प्रयोज्यः अस्पष्टानि चित्राणि दृष्ट्वा विविधाः प्रतिक्रियाः करोति । विश्लेषणेन परीक्षकः व्यक्तित्वनिश्चयं करोति ।

●प्रासङिगकबोधपरीक्षणम् (TAT):

अमेरिकादेशीयौ मोर्गान-मुरेमहोदयौ (Morgan & Murray) प्रौढानां व्यक्तित्वमापनाय प्रासङिगकबोधपरीक्षणं (TAT) निरमाताम् । अत्र ३० चित्राणि वर्तते । एतेषु १० चित्राणि पुरूषेभ्यः ,१० चित्राणि महिलाभ्यः ,१० चित्राणि उभाभ्यश्च निर्मिताः वर्तन्ते । एते मानवजीवनस्य विभिन्नपरिस्थितिः वर्णयन्ति । प्रयोज्यः चित्राण्येतानि दृष्ट्वा निश्चितकालावधौ कथामेकां लिखेत् । सामान्यतः प्रयोज्यः चित्रे विद्यमानव्यक्तिभिः तादामत्म्यं प्राप्य स्वस्य भावान् ,अभिरूचिन् ,अभिवृत्तीः ,इच्छाश्च प्रकटयति । परीक्षकः प्रयोज्यस्य प्रतिक्रियाणां विश्लेषणं कृत्वा व्यक्तित्वस्य निश्चयं क्योंकि ।

●वालाबवोधपरीक्षणम् (CAT):

लियोपोल्ड बेल्लकमहोदयः बालानां व्यक्तित्वपरीक्षणाय बालावबोधपरीक्षां (CAT) निर्मितवान् । परीक्षेयं तृतीयवर्षात् १० वर्षपर्यन्तं वालानां व्यक्तित्वमापनाय अत्यन्तम् उपकरोति । अत्र विविधजन्तूनां जीवनसम्बद्धानि १० चित्राणि सन्ति । वालकाः एतानि चित्राणि दृष्ट्वा कथां रचयेयुः । स्वाभाविकतया बालाः स्वानुभवान् ,भावान् ,विचारार्थ , व्यक्तित्वगुणांश्च कथामाध्यमेन प्रकटयन्ति । परीक्षकः कथायाः विश्लेषणं कृत्वा व्यक्तित्वस्य प्रकारं निश्चिनोति ।

●अप्रक्षेपकविधयः

पूर्वोक्तरीत्या प्रक्षेपकपध्दतिभिः व्यक्तित्वविश्लेषणं सुष्ठु कर्तुं शक्यते । परन्तु ‌तदर्थं प्रशिक्षणस्य महति आवश्यकता वर्तते । अप्रक्षेपकविधयः सरलतया व्यक्तित्वसमापनाय अत्यन्तमुपयोगिनः भवन्ति । एतासां विधिनां द्विधा विभक्तुं शक्नुमः । ताः व्यक्तिनिष्ठविधयः वस्तुनिष्ठविधयश्च ।

"https://sa.wikipedia.org/w/index.php?title=सदस्यः:B.laxmi_panda&oldid=460836" इत्यस्माद् प्रतिप्राप्तम्