सामग्री पर जाएँ

सदस्यः:BNS Avaneesh pandey/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

*संगणकस्य( कम्प्यूटरस्य ) उपयोगित्वम्*

                                    *[ संगणकस्य कार्यजातम् , तस्य भेदाः , तेषाम् उपयोगिता च ]*

*विश्व - विज्ञान - ज्ञानस्य , संगणकोऽस्ति संग्रहः ।*

*सर्वकार्यस्य सिद्ध्यर्थं , सं TVगणकं सदाऽऽश्रय ॥*

*संगणक*

( Computer ) शब्द आंग्लभाषायाः गणनार्थकात् कम्प्यूट ( Comupte ) शब्दाद् निष्पद्यते , अतः कम्प्यूटरस्य कृते संगणकशब्दः प्रयुज्यते । आधुनिकेषु आविष्कारेषु कम्प्यूटरस्य विशिष्टं महत्त्वं वर्तते । संगणकेन मानव - जीवने नवीना क्रान्तिः विहिता संगणकस्य यादृशी तीव्रा प्रगतिः दृश्यते , न तादृशी प्रगतिः अन्यस्याः कस्या अपि क्रान्तेः संलक्ष्यते । अस्य उपयोगः भवननिर्माणे , विमानादीनां दिशा - निर्देशने , रोगाणां सूक्ष्म - परीक्षणे , शोधकार्ये , वाणिज्ये व्यवसाये च , शिक्षाक्षेत्रे , मनोरंजन - विधौ , ललित कलादिषु च भवति ।

*आकार* - प्रकार दृष्ट्या कार्यक्षमतां च आश्रित्य कम्प्यूटरस्य चत्वारो भेदाः सन्ति- १. मेन फ्रेम - कम्प्यूटरः , २. मिनि कम्प्यूटरः , ३. माइक्रो - कम्प्यूटर , ४. सुपर कम्प्यूटर : च ।

*शिक्षाक्षेत्रे संगणकानां* बहुबिधा उपयोगिता प्रशिक्षणकार्ये , शोधकार्ये , विविध विषयाणां शिक्षणे च संगणकस्य उपयोगो भवति । परीक्षा कार्येषु , परिणाम संगणने , परीक्षा परिणाम प्रकाशनादि कार्येषु अस्य उपयोगो भवति । पुस्तकादि - प्रकाशनेऽपि अस्य सहायता गृह्यते ।

*शोधकार्येषु* , भौतिकविज्ञाने , रसायन विज्ञाने , गणितशास्त्रे , कृषिविज्ञाने , भैषज्यविज्ञाने , समाज - विज्ञानादिषु संगणकस्य उपयोगः प्रतिदिनं वर्धते कम्प्यूटर माध्यमेन विशालभवनानां सेतूनाम् आदर्शचित्रं सारल्येन प्रस्तूयते व्यापारक्षेत्रे संगणकानाम् उपयोगः प्रतिदिनं वर्धते । वित्तीय संस्थानां कृते , बीमा शेयर प्रभृति कार्येषु संगणकः अनिवार्यतां भजते । साम्प्रतं सर्वाऽपि टेलीफोन एक्सचेंज - व्यवस्था संगणकानां माध्यमेन विधीयते ।

*कम्प्यूटर* संबद्धा इन्टरनेट प्रणाली महासमुद्रवद् वर्तते । सर्वस्मिन् जगति यत् किचिद् ज्ञानं विज्ञानं शोधकार्यादिकं वर्तते , तत् सर्वम् एकत्रैव प्राप्तुं शक्यते ।

*देशस्य उन्नत्यै , प्रगत्यै , विकासाय च संगणकस्य महती आवश्यकता वर्तते ।*