सदस्यः:Balram dubey
• शीर्षकः-वंशानुक्रम: वातावरणम् च।
सर्वेषु प्राणिषु मानवस्य सर्वश्रेष्ठ: प्रणी मन्यते।मानवे अत्यधिकं विशिष्ठता भवति,तु सः अकल्पनियम् कार्यम् अपि कर्तुम् शक्यते, अतः प्रश्नं इदं उद्भवति? तस्मिन् एषा विशिष्टता कुतःआगचछति? तथा च कस्य रूपे आगच्छति? तेषाम् अध्ययनाय वंशानुक्रम: वातावरणश्च ज्ञानं आवश्यकं भवति। तर्हि वंशानुक्रम: किम् अस्ति? वातावरणम् किम् अस्ति? वंशानुक्रम् – कस्यापि शिशो: विकासः तस्य मातुः गर्भधारणसमयतः एव प्रारम्भः भवति। शीशो: एष विकासः मातुः पितुः च सम्बन्धात् भवति। अन्यम् अर्थं- वंशस्य क्रमैव वंशानुक्रम:। अर्थात् शिशो: विकासे मातुः पितुः च भूमिका भवति सहैव तस्य पितामहस्य मातामह्य चापि भूमिका भवति।तर्हि एनम् वंशानुक्रम: कथयति। तथा च अस्य प्रभावः मनुष्यस्य विकासे परंपरागतरूपे चलति।
उदाहरणम्(यथा)- यथा पितरौ च भवति तथैव तस्य सन्तानं अपि भविष्यति। चेत् पितरौ सुद्ध्यौ भवतः तु पुत्र:अपि सुधी: भविष्यति। चेत् पितरौ कृष्णः गौरः वा वर्णस्य अस्ति तु तयौ: सन्तानं अपि कृष्णः गौर: वा वर्णस्य भविष्यति।
परिभाषा:-
झा महोदयानुसारेण- “वंशानुक्रम: व्यक्तये: जन्मजातविशेषतानां पूर्णं योगं अस्ति।” जेम्स् ड्रेवरमहोदयानुसारेण-“मातुः पितुः शारीरिकम् मानसिकम् च विशेषतानाम् संतानेषु हस्तानान्तरणम् भवति, वशानुक्रमः अस्ति।”
• वातावरणम् अस्मान् परितः यत् स्थितं अस्ति, तत् वातावरणम् अस्ति। अर्थात् अस्मान् परितः यत् आवरणम् अस्ति, ततेव वातावरणम् अस्ति । जन्मस्य उपरांतम् प्राणीमात्रस्य परिपोषितम् पालनम् वा कृतम्, बाह्य: जगतस्य सर्वेषु कारकेषु वातावरणे समाहितं भवन्ति। कारकः द्विविधः भवतः- आंतरिक: बाह्यःच। आंतरिकस्य कारकस्य वंशानुक्रमः तथा च बाह्यकारकस्य वातावरणं कथयति।
यथा- 1 आंतरिकं कारकं-पुष्पस्य अङ्कुरात् पुष्पस्य वृक्षः उत्पन्नं भवति, परन्तु निम्बवृक्षः उत्पन्नं न भवति, सैव वंशानुक्रमः भवति।
2 बाह्य कारकं- वृक्षस्य जीवनं प्रदनार्थं, अनुकुलं गुणं प्रदानार्थं च वातावरणस्य महत्वं भवति। यथा वातावरणम् भविष्यति तथा वृक्षस्य गुणं भविष्यति। तत् वातावरणम् , अस्ति। वातावरणस्य परिभाषा: रॉसमहोदयानुसारम्-“ वातावरणं तत् बहिः शक्ति: अस्ति यत् अस्माकं प्रभावितं करोति।”
वंशानुक्रम: वातावरणश्च सम्बन्ध:
वंशानुक्रम: वातावरणं च परस्परं सम्बन्धितं अस्ति। वंशानुक्रम: वातावरणं च परस्परं पूरकं अस्ति। उचितेन वातावर्णेन विना वंशानुक्रमस्य कोऽपि औचित्यम् नास्ति। वुडवर्थ एवम् मारेक्विसमहोदयानुसारेण- “ वंशानुक्रमस्य वातावररणस्य च योगं नास्ति, गुणनफलम् अस्ति।” विकासस्य कस्यापि अवस्थायाम् व्यक्तेः शारीरिक: मानसिक: संवेगात्मक: विशेषताषु वंशानुक्रमवातावरणयॊ: च उभयो: प्रभावं अस्ति ।
उभयोः महत्त्वम्
वंशानुक्रमस्य महत्त्वम्- १शरीरिकसंरचनायाः ज्ञानं भवति- वंशानुक्रमस्य माध्यमेन शरीरिकसंरचनाया: ज्ञानं भवति। येन माध्यमेन शिक्षकः संरचनाया: आधारे बालकस्य विकासे ध्यानं दातुम् शक्यते। २लिङ्गं भेदस्य ज्ञानं भवति – वंशानुक्रमाय बालकेषु बालिकासु च भेदस्य ज्ञानं लभन्ते। येन बालकानां बालिकानां रूच्यां, अवबोधनस्य योग्यतायाम् अन्तरं भवति, तस्य अवबोधनार्थं शिक्षकः तस्य उत्तमम् सहाय्यम् कर्तुम् शक्यते। ३जन्मजात क्षमतानां ज्ञानं भवति- वंशानुक्रमस्य प्रभावाय शिशूनां जन्मजातक्षमतायाम् अन्तरं भवति। यस्य आधारे तस्य समग्रविकासाय आवश्यकम् सहाय्यं कर्तुम् शक्यते। ४भिन्नतानां ज्ञानं भवति- वांशानुक्रमस्य फलस्वरूपम् शिशौ बहु:भिन्नता: भवन्ति। शिक्षकःतस्य भिन्न्तानाम् आधारे शिक्षायाःप्रबन्धनम् कर्तुम् शक्यते। ५ बोद्धिकं ज्ञानम् भवति – वंशानुक्रमाय शिशोः बुद्ध्या: ज्ञानं कर्तुम् शक्यते। यथा पितरौ मन्द बुद्ध्यॊ: स्तः तु तयौ: शिशवः अपि अवश्यमेव मन्द्बुद्ध्येव भविष्यति। ६बालकस्य प्रवृत्या: ज्ञानम् भवति- वंशानुक्रमाय शिशोः प्रवृत्या: अध्ययनं कृत्वा तस्य सुप्रवृत्या: वर्धनाय प्रयासम् कर्तुम् शक्यते तथा च कुप्रवृत्या: नष्टं अपि कर्तुम् शक्यते।
वातावरणस्य महत्वं १ शिक्षकाय महत्वं – वातावरणस्य महत्वं ज्ञात्वा शिक्षकःविद्यालये छात्रेभ्य: इत्थम् वातावरणं निर्मितम् कर्तुम् शक्यते, येषु छात्रेषु विचाराभिव्यक्ति: शिष्टसामाजिकव्यवहारः, कर्तव्यम्, अधिकारस्यज्ञानइत्यादि गुणानां विकासः भवेत्। प्रत्येकसमाजस्य तस्य एकम् विशिष्टवातावरणं भवति । शिक्षकः वातावरणं ज्ञात्वा विद्यालये लघुसमाजस्य वातावरणं निर्मितम् कर्तुम् शक्यते यत् विशिष्टसमाजाय अनुकूलम् भवेत् । २ मानसिकविकासे महत्वं – बालकस्य मानसिकविकासः केवलं बुद्धयतः एव न अपितु तस्मिन् बालकस्य ज्ञानेन्द्रिया:,मस्तिकस्य सम्पूर्णभाग:, ग्राह्य,मानसिक प्रक्रियाः चादय सम्मिलिताः भवति। अतः बालकः वंशतः केचन नीत्वा उत्पन्नं भवति परन्तु तस्य विकासः योग्यवातावरणतः एव सम्भवमस्ति। ३ व्यक्तित्व विकासे सहायक: - व्यक्तेः विकासे आंतरिकक्षमतानाम्,नवीनतानाम् ग्रहणम् कर्तुम् शक्यते परन्तु उभयोः परिस्थितयोः हेतौ उचितम् वातावरणम् अधिकं आवश्यकं भवति। ४ सामाजिकगुणानां विकासे सहायक:- समाजस्य सामाजिक गुणानाम् विशेषतानाम् च धरणाय वातावरणं सहायकं भवति। ५ बालकस्य सर्वाङ्गिणविकासे सहायकम्- शिक्षायाः एकं महत्वपूर्णं उद्देश्यं भवति यत् बालकस्य सर्वाङ्गिणविकासः भवतु।सः विकासः वातावरणे निर्भरम् भवति। अतः बालकाय योग्यं वातावरण: आवश्यकं भवति।
इति