सामग्री पर जाएँ

सदस्यः:Bhatt rishi

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

धर्मशास्त्रम्

       अत्र धर्मशब्दः, पङ्कजशब्दस्य समानं योगरूढम् अस्ति । यः मनुष्यः धर्मपथे अग्रसरः भवति तस्य यदाधारः वर्त्तते, सः धर्मः इति उच्यते । अयं धर्मशब्दस्य अक्षरार्थः अस्ति, तथा च अनिष्टाद् असम्बन्धरहितः इष्टफलस्य साधनं धर्मः अस्ति । कणादेन वैशेषिकदर्शने "यतोऽभ्युदयनिःश्रेयससिद्धिः स धर्मः" अर्थात् येन लौकिक-पारलौकिकसुखस्य प्राप्तिः भवेत् तद्धर्मः । जैमिनिना मीमांसादर्शने "चोदनालक्षणोऽर्थो धर्मः" इदं क्रियासापेक्षधर्मस्य लक्षणं वर्तते ।


त्रयो धर्मस्कन्धा यज्ञोऽध्ययनं दानमिति ।

(छान्दोग्योपनिषद्)

अर्थात् सामवेदीये छान्दोग्योपनिषदि धर्मस्य त्रयः स्कन्धाः निगदिताः सन्ति- यज्ञः,   अध्ययनम्,  दानम्   इति ।


मनुस्मृतौ-

धर्म   एव   हतो   हन्ति  धर्मो   रक्षति  रक्षितः

तस्माद्धर्मो न हन्तव्यो मानो धर्मो हतोऽब्रवीत् ।

(८ अ० १५ श्लो०)

धर्मस्य स्थानानि-

याज्ञवल्क्येन कथितम् -           पुराणन्यायमीमांसाधर्मशास्त्रङ्गमिश्रिताः ।

वेदाः स्थानानि विद्यानां धर्मस्य च चतुर्दश ॥

         पुराणम्, न्यायः, मीमांसा, धर्मशास्त्रम्, शिक्षा, कल्पः, व्याकरणम्, निरुक्तम्, छन्दः, ज्योतिषम्, ऋग्वेदः, यजुर्वेदः, सामवेदः, अथर्ववेदः एताः चतुर्दशविद्याः धर्मस्यस्थानानि सन्ति ।


"श्रुतिस्तु वेदो विज्ञेयो धर्मशास्त्रं तु वै स्मृतिः" इति मनुवचनानुसारं धर्मशास्त्रस्य अपरं नाम स्मृतिः अपि अस्ति । मन्वादिस्मृतयः स्वस्वकर्तुः नाम्ना प्रसिद्धः सन्ति । स्मृतीनां नामानि क्रमानुसारं नैव प्राप्यन्ते, भिन्न-भिन्नरूपेण लभ्यन्ते । अत्र पैठिनसिवचनस्य अनुसारं षड्त्रिंशत् स्मृतीनाम् उल्लेखः प्राप्यते - १. मनुः, २. अङ्गिरा, ३.व्यासः, ४. गौतमः, ५. अत्रिः, ६. उशना, ७. यमः, ८. वशिष्ठः, ९. दक्षः, १०. संवर्त्तः, ११. शातातपः, १२. पराशरः, १३. विष्णुः, १४. आपस्तम्बः, १५. हारीतः, १६. शङ्खः, १७. कात्यायनः, १८. भृगुः, १९. प्रचेता, २०. नारदः, २१. याज्ञवाल्क्यः, २२. बौधायनः, २३. पितामहः, २४. सुमन्तुः, २५. काश्यपः, २६. बभ्रुः, २७. पैठिनसिः, २८. व्याघ्रः २९. सत्यव्रतः, ३०. भरद्वाजः, ३१. गार्ग्यः, ३२. कार्ष्णाजिनिः, ३३. जावालिः, ३४. जमदग्निः, ३५. लौगाक्षिः, ३६. ब्रह्मगर्भस्मृतिः ।

         याज्ञवाल्क्येन विंशतिः स्मृतिकर्तॄणां नामानि लिखितानि सन्ति, तेषु "बृहस्पतिः, लिखितः" नाम्नि स्तः । यदि एतयोः ग्रहणं भवेत् तर्हि तत्र अष्टत्रिंशत् स्मृतयः भविष्यन्ति । प्रयोगपारिजाते द्वाविंशतिः स्मृतिकाराणाम् उल्लेखः सन्ति ते च - १. नाचिकेतस्मृतिः, २. स्कन्दस्मृतिः, ३. काश्यपस्मृतिः, ४. सनत्कुमारस्मृतिः, ५. शंतनुस्मृतिः, ६. जनकस्मृतिः, ७. जातुकर्ण्यस्मृतिः, ८. कपिञ्जलस्मृतिः, ९. कणादस्मृतिः, १०, विश्वामित्रस्मृतिः, ११. गोभिलस्मृतिः, १२. देवलस्मृतिः, १३. पुलस्त्यस्मृतिः, १४. पुलहस्मृतिः, १५. क्रतुस्मृतिः, १६. आग्नेयस्मृतिः, १७. गवेयस्मृतिः, १८. मरीचिस्मृतिः, १९. वत्सस्मृतिः, २०. पारस्करस्मृतिः, २१. ऋष्यशृङ्गस्मृतिः, २२. वैजवापस्मृतिः ।  एतासां  योगेन तत्र   षष्टिस्मृतयः  भवन्ति ।

"श्रूयते गुरुपरम्परया, न् तु केनचित् क्रियते इति श्रुतिः" अर्थात् गुरुपरम्परया श्रुतं भवेत्, यस्याः निर्माणं नैव स्यात् तत्स्मृतिः । तथा च अङ्गोपाङ्गस्य साधारणं नाम स्मृतिः वर्त्तते । स्मरणस्य न्यूनाधिकभावेन एव स्मृतेः प्रामाण्ये न्यूनाधिकभावः निश्चतम् अस्ति । अत एव बृहस्पिना उक्तम् -

वेदार्थोपनिबन्धत्वात्प्राधन्यं हि मनोःस्मृतम् ।

मन्वर्थविपरीता तु या स्मृतिः सा न शस्यते ॥

अर्थात् वेदार्थस्य संकलत्वात् मनोः प्राधान्यम् अस्ति एवञ्च मनुस्मृतेः विरुद्धा या स्मृतिः अस्ति सा न प्रशंसनीया इति ।

स्मृतिषु संस्काराणाम् अपि उल्लेखः प्राप्यते । संस्काराणाम् अनन्तरं मनुष्यस्य अपरं जन्म भवति  । ते यथा - " गर्भाधानं पुंसवनं सीमन्तोन्नयनं जातकर्म नामकरणान्नप्राशनचौलोपनयनं चत्वारि वेदव्रतानि स्नानं सहधर्मचारिणी संयोगः पञ्चानां यज्ञानामनुष्ठानमष्टका पार्वणं श्राद्धं श्रावण्याग्रहायणी चैत्र्याश्वयुजीति सप्त पाकसंस्थाः अग्न्याधानमग्निहोत्रं दशपौर्णमासीति चातुर्मास्यान्याग्रहणेष्टिर्निरूढपशुबन्धः सौत्रमणीति  सप्त हविर्यज्ञसंस्थाः अग्निष्टोमोऽत्यग्निष्टोम उक्थः षोडशी वाजपेयोऽतिरात्र आप्तोर्याम इति सप्त सोमसंस्था इत्येते चत्वारिंशत्संस्काराः । अष्टावात्मगुणा दया सर्वभूतेषु क्षान्तिरनसूया शौचमनायासो माङ्गल्यमकार्पण्यमस्पृहेति । - गौतमः

अङ्गिरानुसारं पञ्चविंशतिसंस्काराः सन्ति ते च संस्काराः नैमित्तिकाः, वार्षिकाः, मासिकाः, नित्यभेदेन चतुर्प्रकाराणां सन्ति इत्थम् आश्वलायेन कथितमस्ति –

नैमित्तिकाः     षौडशोक्ताः  समुद्वाहावसानकाः ।

सप्तैवायग्रहयणाद्याश्च संस्कारा  वार्षिका मताः ॥

मासिकं   पार्वणं  प्रोक्तमसक्तानां  तु   वार्षिकम् ।

महायज्ञास्तु नित्याः स्युः सन्ध्यावच्चग्निहोत्रवत् ॥


व्यासेन षोडशसंस्काराः उक्ताः सन्ति - गर्भाधानं पुंसवनं सीमन्तो जातकर्म च । नामक्रिया-निष्क्रमणेऽन्नाशनं वपनक्रिया ॥ कर्णवेधो व्रतादेशो वेदारम्भक्रियाविधिः । केशान्तः स्नानमुद्वाहो विवाहाग्निपरिग्रहः ॥ त्रेताग्निसंग्रहश्चेति संस्काराः षोडश स्मृताः । नवैताः कर्णवेधान्ता मन्त्रवर्जं क्रियाः स्त्रियः ।। विवाहो मन्त्रस्तस्याः शूद्रस्यामन्त्रतो दश ॥ एतेषु गर्भाधानादितः विवाहान्तपर्यन्तं चतुर्दशसंस्काराः, पञ्चदशतमः स्मार्ताग्न्याधानः, षोडशतमः श्रौताग्न्यधानसंस्कारः अस्ति ।

"https://sa.wikipedia.org/w/index.php?title=सदस्यः:Bhatt_rishi&oldid=467898" इत्यस्माद् प्रतिप्राप्तम्