सदस्यः:Bishnupriya sahu
शिक्षादर्शने वादानां योगदानम्- आदर्शवादः , प्रकृतिवादः , प्रयोजनवादः , यथार्थवादः च ।
शिक्षा-
शिक्ष्यते उपादीयते विद्या यया सा शिक्षा । शिक्षा मानवस्य शारीरिक-मानसिक – बौद्धिकाध्यात्मिकविकासो जायते । शिक्षा मानवस्य सर्वाङ्गीण विकासस्य प्रक्रिया इति सर्वेषां शिक्षा विदुषां मतम् । शिक्षा मनुष्यं सच्चरित्रं सामाजिक – सुनागरिकञ्च कर्तुं प्रेरयति । शिक्षा भवति कल्पलतेति । अविद्याद्यशुभगुणानां परित्यागपूर्वकं विद्यादिशुभगुणानां स्विकारेण सदानन्दमयजीवनयापनं नाम शिक्षा अथवा शिलनिर्माणमेव शिक्षा (दयानन्दः) अस्माकं जीवनस्य सर्वासामपि समस्यानां समाधानार्थं विद्यमानः राजपथ एव शिक्षा । शिक्षादिप्तिदिपित एवं पुरुषः क्रमेणोन्नतिमाप्नोति ।
दर्शनं-
दृश्यते ज्ञायते विचार्यते परमतत्वं परमलक्षं वा येन तत् दर्शनं । दृशिर् प्रेक्षणे इत्यस्माद धातोः करते ल्युटप्रत्यये दर्शनम् इति पदं सिद्धम्। “दृश्यते अनेक इति दर्शनं “ । वास्तविकतया तार्किकं, वस्तुनिष्ठं, प्रामाणिकं, विश्लेषणम्, अभिज्ञातुं, क्रियमाणाविश्लेषणं करोति । सम्पूर्णं तथा परिपूर्णं ज्ञानं ददाति । मानवस्य अनुभव परिधौ विद्यमानं सामान्यं सिद्धान्तानाम् अध्ययनं तथा जातः चरम सत्तायाः क्रमवद्ध प्रशिक्षणं एव दर्शनं ।
शिक्षादर्शनयोर्मध्ये सम्वद्धः-
शिक्षादर्शनयोर्मध्ये व्यापकः प्रगाढः पारस्परिक सम्वद्धः अस्ति । दर्शनं शिक्षा च एकस्यैव माणवकस्य पार्श्वद्वयमिति स्वीकर्तुं शक्यते ।यदा तत्वशास्त्रं (दर्शनं) माणवकस्य सैद्धांतिक पार्श्वरुपेण विभाति तदा शिक्षा तस्यैव माणवकस्य सैद्धांतिक भागस्य व्यवहारिकं रुपम् अथवा आचरणात्मकं रुपं भवति, एवञ्च एकस्मिन् अपरो निहितोऽस्ति । दर्शनं जीवनस्य विचारात्मकपक्षे विद्यते , शिक्षा क्रियात्मकपक्षे विद्यते । शिक्षादर्शनस्य गत्यात्मकसाधनं भवति । कस्यापि कार्यस्य पुर्त्तये विचारः अथवा योजना, तथा प्रयोगः अथवा व्यवहारस्य आवश्यकता वर्त्तते। दर्शनं यदि जीवनस्य लक्ष्यं निर्धारयति तर्हिः शिक्षा तत् लक्ष्यप्राप्ति निमित्तं साधनं । शिक्षायाः सर्वाः क्षेत्रेण प्रभाव दर्शनमेव करोति। दर्शनरहिता शिक्षा पराजयायै कल्पते । शिक्षा काचित् कला चेत् सा कला तदैव परिपूर्णा भवति यदा तया सह दर्शनं एव तिष्ठति ।शिक्षा दर्शनस्य सहधर्मिणो एव अतः शिक्षादर्शनयोर्मध्ये धार्मिष्ठसम्वन्धः अस्ति ।
शिक्षादर्शने वादानां योगदानम्-
वादमुख्यतः विविधविचारधाराः भवति । वादस्य समूहेन दर्शनशास्त्रस्य उत्पत्तिः । अस्य अनिवर्यप्रभावः शिक्षायाः उपरि दरिदृश्यते । विविध दर्शनस्य योगदानमाध्यमेन शिक्षायाः भिन्न भान्न परिभाषां प्रस्तुयते । तदनन्तरं शिक्षायाः उद्देश्यं, विधिः, पाठ्यक्रमः , गुरुशिष्यसंकल्पना अनुसाशनं च इत्यादि विषयाः उपरि पृथक पृथक रुपेण दर्शने निरुपिता सन्ति ।
पाश्चात्यदर्शने वादाः-
-आदर्शवादः (Idealism)
-प्रकृतिवादः (Naturalism)
-प्रयोजनवादः ( Pragmatism)
-यथार्थवादः (Realism)
आदर्शवाद: ( Idealism )
आदर्शवादानुगुणम् आस्मिन् प्रपंचे मानव: विभिन्नरूपेण निवासति। आध्यात्मिकप्रपच्ञ: आदर्शवाद: नाम्ना एव व्यवह्रियते । अत्र चिन्तनस्य सार: भवति वैदिकवाङ्मय: । भारतीयदर्शनेषु आदर्शवादविषये यथा चर्चा कृताऽस्ति तथा नान्यत्र दर्शनेषु । आदर्शवाद: मनूष्यस्य आध्यात्मिकपक्षविषये वलं ददाति, कारणम् आध्यात्मिकमूल्यानि मानवस्य जीवनस्य च महत्वपूर्णानि तथ्यानि भवन्ति। विश्वासोऽस्ति यद् ब्रह्माण्डस्य बुध्दि: इच्छया वर्त्तते तत् समस्तभौत्तिकवस्तुनां स्पष्टीकरणं मनसा कर्तृंशक्यते । यथार्थसत्ता मनस: विद्यते न तु पदार्थस्य । सृष्टे: आधार: मन:, मुख्यतया मनस: सत्ता वर्णयति आदर्शवाद: । ‘सत्यं शिवम् सुंदरम्' एतेषां त्रयाणां तत्त्वनां वर्णानां करोति आदर्शवाद: आदर्शवादे विचाराणाम् आदर्शानां च कृते महत्वं दीयते । व्यक्ते: शरीरस्य महत्वं न थवति,अपितु तस्य व्यक्तित्वस्य महत्वं भवति । व्यक्तित्वं आदर्शानां विचाराणां च मिश्रणमेव भवति ।
प्रकृतिवाद: ( Naturalism )
महत्वं यह: वाद: ददाति स: प्रकृतिवाद: । भारतीयमतानुसारं नायं व्यतिरिक्त कश्चनवाद: अपितु चार्वाक दर्शनार्न्तभुक्त: जडवाद: एव । प्रकृति एव प्रधानम् । भैतिक जगत: सत्यं एवं वास्तविकं, आत्मापरमात्मा कल्पना मात्रम् । प्रकृतिवादिन: प्रत्यक्षज्ञानस्यैव समर्थनं कुर्वन्ति । ते इन्दियानुभवयोमाध्यमेन ज्ञान प्राप्तये वलं प्रददति,तथा तद् निमितम् अनुभववादं समर्थयन्ति । एतद्दर्शनानुसारं प्रकृतिरेव सर्वोत्तमसत्तारूपेण विद्यते । प्रकृतिवाद: आदर्शवादस्य विरूद्धतया प्रवर्त्तते, कारणं जडतत्वस्य अधीने मन: भवति । अन्तिमवास्तविकता जड़े निहीत: अस्ति (भैत्तिकवस्तुषु)न आध्यात्मिके ।
• प्रकृतिवादस्य विचारा:
१) प्रकृतिमनुसर ( Follow the nature)
२) पुस्तकीय ज्ञानस्य विरोध ( No bookish education)
३) निषेधात्मकीय शिक्षा ( Negative education)
४) पूर्ण- स्वातन्त्रयम्(complete Freedom)
५)बालकेन्दित-शिक्षा( paidocentric Education)
प्रकृतियथा सरलतया बालकं शिक्षयति, विद्यालयेऽपि सरलतया शिक्षणीयम् इति प्रकृतिवादिनां आशय: । पुस्तकीय-ज्ञानस्य विरोधं कृर्वन्ति। प्रकृतिवाद: बालकृस्य कृते सम्पूर्ण स्वातन्त्रयं दीयते। बालक: प्रकृतौ जीवति,अत: स: प्रकृत्या सह सम्बन्धं स्थापयित्वा तया अनुशासित: भवति ।
प्रयोजनवाद:( pragmatism)
प्रयोजनवादे केवलं फलस्य आवश्यकता वर्त्तते। प्रयोजनवादस्यानुसारं -“प्रयोजनं विना किमपि कार्यं नैव करणीयम्”। व्यवहार- कर्मणा यत्सिद्धं भवति तदेव करणीयं,पूवं यत्किमपि सत्यमासीत् परम् इदानीमपि सत्यमस्ति चेत् स्वीकरणीयं नो चेत् नैव अङ्गीकरणीयम् । एवं च अस्य वादस्य मतानुसारं सत्यं सर्वदा परिवर्तनशीलं भवति ।“ प्रयोजनवादस्य मुख्यसिद्धांन्त: भवति य: सिद्धान्त: कार्यं करोति स: सत्य:।“ वादऽयं वहु लोकप्रसिद्ध: आसीत्। एतदनुसारं तदेव सत्यं यत् मानवपप्रकृतिं पूर्णरूपेण सन्तुष्टं करोति ।
प्रयोजनवाद: शिक्षा च -
प्रयोजनवादस्य तथा आधुनिक शिक्षाया: मध्ये घनिष्ठ: सम्वन्ध: अस्ति ‘परिवर्तनं' इति प्रयोजनवादविचारधाराया: उदघोषणमस्ति।जीवनस्य आवश्यकतानुगुणं सिद्धान्त: परिवर्तित: भवति । प्रकृति परिवर्तनेन सदैव नूतन- नूतन समस्या: समाजे उद्भूता: भवन्ति। तासां ससमस्यानां समाधानार्थं प्रयोजनवादी शिक्षाया: साहार्य्यं स्वीकरोति। प्रयोजन वादिनि: शिक्षा: किमपि उद्देश्यं न निर्धारयन्ति।
यथार्थवाद: (Realism)
यथार्थवादानुसारं यत्किमपि प्रत्यक्षवस्तु अस्ति तत् सर्वंसत्यं। वस्तुसम्वन्धि विचार: तथा दृष्टिकोण अस्यवादस्य आशय:।अनुभवमाध्यमेन वस्तुन: अस्तित्वकल्पना तथा केवल इन्द्रिय माध्यमेनप्राप्तज्ञान सत्यं भवति।कस्यापि अस्तित्व भवति चेत् यथार्थं अस्ति। अर्थात् अस्माकं सम्मुखे यानि पश्याम: यानि सत्यमेव। आध्यात्मविषये यथार्थवादिनि: विरोधं कृर्वन्ति, एवं वैज्ञानिक दृष्टया सत्यस्य अन्वेषणकरणार्थं प्रयासंकरोति। यथार्थवादिन: आदर्शवादस्य विरधं कृवन्ति एवं प्रयोग विसरे वलं दीयते। वर्तमान जीवनस्यमहत्वं भवति इति तेषां विश्वास: ।अत: यथार्थवादिनां मते पाठ्यक्रमे एतादृशी शिष्या: स्थानं आवश्यकं में बालक: तद्सर्वं वास्तविक जीवने प्रयोगं करिष्यसि ।