सामग्री पर जाएँ

सदस्यः:Biswabandita Behera

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

साहित्यशास्त्रम्

मन्त्राणां छन्दोबद्धतया छन्दसां ज्ञानं विना वेदमन्त्राः साधु उच्चारयितुं न शक्यन्ते। अतः छन्दोऽपि वेदाङ्गमवश्यज्ञेयञ्च । शौनक विरचिते ऋक्प्रातिशाख्ये चरमभावे छन्दसां पर्याप्तं विवेचनं विद्यते । अस्य छन्दः शास्त्रस्य पिङ्गलच्छन्दः सूत्रनामा ग्रन्थः सर्वाधिक प्रसिद्धः। अयं केनचित् पिङ्गलनामकेनाचार्येण विरचितः। अत्र वैदिकानि-लौकिकानि-छन्दांसि विवेचितानि। संस्कृतकालस्योदयो यद्यपि प्रशान्तपावने तपोवनेऽजायत। तथापि तस्य विकासो राज्ञां प्रसादेष्वभूदिति कथनं न सत्यादपेतम्। कालिदासो विक्रमादित्यमन्तरा दुराप एवास्थास्यत्। हर्षवर्धनं विना वाणस्य महाकवित्व सम्भवो नासीत्। राजा महाराजाभिः भूयोभूयः समादृतान् विद्वद्वरेण्यान् तानुत्तमकाव्य निर्माणाय प्रैरयत्। राजानोहि कविनाद्रियन्ते स्म इति। राज्ञामाश्रये कवित्वं प्रस्फुटति स्म। राज्ञामाश्रयमवाप्यैक संस्कृत काव्यं सर्वांशतो विकासमभजत। उक्तञ्च-

अनर्घमपि माणिक्यं हेमाश्रयमपेक्षते ।

निराश्रया न शोभन्ते पण्डिता वनितालताः ।।

संस्कृत काव्यानि पुराणं रामायणं महाभारतं च बीजभावेनाश्रयन्ति । यतो मेघदूते कालिदासः साधारण भृत्यस्य यक्षस्यैव प्रणयकथाममरतामनयत्। दरिद्र चारुदत्ते भासोऽपि तथैव दरिद्राश्रयकथामुपस्थापितवान्, शुद्रकोऽपि मृच्छकटिके तथैव दरिद्रवृत्तमुपस्थापितवान् । वाल्मीकिना हि काव्यानामादिकाव्ये स्वरामायणे करूणरसस्य या धारा प्रवाहिता सा सततं स्यन्दमाना एव स्थास्यति। अनन्तरकालोत्पन्नाः पुनः कवयो रससापेक्षाः सन्तोऽपि ज्ञानगरिमाणमुपदर्शयितुं कवितामरचयन्। तादृशानां कवीनां मध्ये श्रीहर्षः प्रधानम्। तत्परं तु महावैयाकरणपाणिनेः जाम्बवतीजयम् प्रमाण्यते । पाणिनेः कवित्वं सरसं सरलं च दृश्यताम्

"https://sa.wikipedia.org/w/index.php?title=सदस्यः:Biswabandita_Behera&oldid=483751" इत्यस्माद् प्रतिप्राप्तम्