सदस्यः:Csu Selisa sahoo/प्रयोगपृष्ठम्
वेदान्त दर्शनम्
वेदस्य अन्तः वेदान्तः नाम उपनिषद्भागः । वस्तुतः वादरायणव्यासेन ब्रह्मसुत्राणि विरचितानि । तानि च सुत्राणि विरचितानि । तानि च सुत्राणि अभिलक्ष्य मुनिभिः स्वस्वमतम् उपस्थापितम् । प्रस्थानत्रयं भवति - उपनिषद् , गीता ,ब्रह्मसूत्रं । वेदान्तस्य प्रतिपादकभूताः इमेब्रह्मसूत्रम - उपनिषद् - गीता । ब्रह्मसुत्राणां कर्ता भवति भगवान् वादरायणव्यास इति । ब्रह्मसूत्राणां चत्वारः अध्यायाः सन्ति । यथा - समन्वय - अविरोध - साधन - फलाध्यायभेदेन चतुर्विधः । मुख्यतः अयं च वेदान्तः त्रिविधः जगति दृश्यते । यथा - अद्वैतवेदान्तः - द्वैतवेदान्तः - विशिष्टाद्वैतवेदान्तः । जीवब्रह्मणोः अभेदं प्रदर्श्य अद्वैतवेदान्तः जातः । जीवब्रह्मणोः भेदमाभिधाय द्वैतवेदान्तः विशिष्टाद्वैतवेदान्तो वा विरचितः । अद्वैतवेदान्तस्य भाष्यकारः शंकराचार्यः,किञ्च वार्तिककारः सुरेश्वराचार्यः । अद्वैतवेदान्ते सत्तात्रयम् अस्ति । यथा - पारमार्थिकीव्यवहारिकी - प्रातिभासिक इति । पारमार्थिकिसत्तायामेव ब्रह्म तिष्ठति । वेदान्तमते सच् ,चित् , आनन्द इति पदार्थत्रयेण सच्चिदानन्दः ब्रह्म सिध्यति । अद्वैतवेदान्ते सप्तदश पदार्थाः सन्ति । अस्मिन् वेदान्ते पञ्च कोषाः सन्ति ।