सामग्री पर जाएँ

सदस्यः:Csu Swapnaswarupa Swain/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

विद्याधनं सर्वधनप्रधानम्

विद्या मानवानां कृते अतीव आवश्यकः गुणोअस्ति। विद्यया मानवाः धर्माधर्म हिताहितं कर्तव्याकर्तव्यं जानन्ति। विद्यासम्पन्नस्य मानवस्य सर्वन्नैव समारोह भवति। विद्वान् राज्ञः श्रेष्ठतरः  भवति सः सर्वत्र सत्कारं प्राप्नोति। विद्यया मनुष्यः धनमाप्नोति। विद्यया तस्य हितं रक्ष्यते। यशः वितन्यते , खेदः, अपनीयताम्, हितं च साध्यते। विद्या न केवलं भौतिकीं सिद्धिं प्रददाति, अपि तु मनुष्यान् संसारे वन्धनात्  अपि मोचयति। यः मोक्षः मानवजीवनस्य सर्वोपरि लक्ष्यं विद्यते। यथोक्तं  -  विद्ययाअमृतमश्नुते। विद्याहीनः मनुष्यः मुर्खः सन् असभ्यः पशुः मन्यते। सः व्यवहारिके जीवने सर्वत्र असफलो भवति, सर्वे तमुपहसन्ति।

एतदर्थं विद्या, सर्वश्रेष्ठं धनं मन्यते। अन्यद् धनं चौराः चोरयितुं  शक्नुवन्ति। भ्रातरः विभक्तुं शक्नुवन्ति।भारीय च भवति। परन्तु विद्याधनं सर्वभयात् मुक्तम्। अन्यत् धनं व्ययेन क्षयन्ति  , परं विद्याधनं व्ययेन वर्द्धते। इदमेव वैचित्र्यं विद्याधनस्य श्लाघनीयम्। यथोक्तम् -

"न चौरहार्यं न च राजहार्यं     न भातृभाज्यं न च भारकारि।

व्यये कृते वर्द्धते एव नित्यं    विद्याधनं सर्वधनं प्रधानम्।।"

                                धन्यवादाः 🙏