सामग्री पर जाएँ

सदस्यः:D.S.P.

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

एकश्लोकि रामायणम् आदौ रामतपोवनादिगमनं हत्वा मृगं कांचनं वैदेहीहरणं जटायुमरणं सुग्रीवसंभाषणम् । वालीनिर्दलनं समुद्रतरणं लंकापुरीदाहनं पश्चाद्रावणकुंभकर्णहननमेतद्धि रामायणम् ॥

॥ एकश्लोकि रामायणं संपूर्णम् ॥


श्रीरामप्रातःस्मरणम् प्रातः स्मरामि रघुनाथमुखारविन्दं मन्दस्मितं मधुरभाषि विशालभालम् । कर्णावलम्बिचलकुण्डलशोभिगण्डं कर्णान्तदीर्घनयनं नयनाभिरामम् ॥ १॥ प्रातर्भजामि रघुनाथकरारविन्दं रक्षोगणाय भयदं वरदं निजेभ्यः । यद्राजसंसदि विभज्य महेशचापं सीताकरग्रहणमङ्गलमाप सद्यः ॥ २॥ प्रातर्नमामि रघुनाथपदारविन्दं वज्राङ्कुशादिशुभरेखि सुखावहं मे । योगीन्द्रमानसमधुव्रतसेव्यमानं शापापहं सपदि गौतमधर्मपत्न्याः ॥ ३॥ प्रातर्वदामि वचसा रघुनाथ नाम वाग्दोषहारि सकलं शमलं निहन्ति । यत्पार्वती स्वपतिना सह भोक्तुकामा प्रीत्या सहस्रहरिनामसमं जजाप ॥ ४॥ प्रातः श्रये श्रुतिनुतां रघुनाथमूर्तिं नीलाम्बुजोत्पलसितेतररत्ननीलाम् । आमुक्तमौक्तिकविशेषविभूषणाढ्यां ध्येयां समस्तमुनिभिर्जनमुक्तिहेतुम् ॥ ५॥ यः श्लोकपञ्चकमिदं प्रयतः पठेद्धि नित्यं प्रभातसमये पुरुषः प्रबुद्धः । श्रीरामकिङ्करजनेषु स एव मुख्यो भूत्वा प्रयाति हरिलोकमनन्यलभ्यम् ॥

॥ इति श्रीराम प्रातःस्मरणम् ॥ मिलनः व्यासः दर्शनम् संस्कृत महाविद्यालयः

"https://sa.wikipedia.org/w/index.php?title=सदस्यः:D.S.P.&oldid=204971" इत्यस्माद् प्रतिप्राप्तम्