सदस्यः:DAKTAR Biswal37
बिषयः- अधिगमसिद्धान्ताः ,तेषाम् शैक्षिक निहितार्थाः च ।
अधिगमस्य अर्थः -शिक्षणं अथबा ब्यबहारे परिबर्तनं । शिक्षणेन ब्यक्तेः आंतरिक क्षेत्रं प्रभाबितं भबति,येन तस्य ब्यबहारे परिबर्तनम् दृस्यते। अधिगमप्रक्रिया मानसिक क्षमतानाम् बिकासः इति। मानबस्य अधिगमप्रक्रिया जन्मतः एब आरभ्यते अतः इयम् प्रक्रिया निरन्तर प्रचलति जन्मतः मृत्युपर्यन्तं। मानबस्य अधिगमार्थं न कोपि समयः न किंचित सुनिश्चितं स्थानं भबति। प्रसिक्षण अधिगम प्रक्रियायाः स्थानांतरणं यदा शिक्षणबिषये चर्चा क्रियते तदा अधिगमं बिना शिक्षणं अपूर्णं इति शिक्षणं बिना अधिगमः अपूर्णः च प्रतियते । अधिगमसिद्धान्ताः- अधिगमस्य प्रक्रिया , परिभाषा प्रकाराश्च ज्ञातपूर्वाः । तत्र ज्ञानस्य , कौशलानाम् अभिवृत्तीनाम् अभिरुचीनां समायोजनस्य च प्रक्रियैव अधिगमः इति ज्ञायते । अभ्यासः , अनुभवः , प्रशिक्षणञ्च अधिगमं प्रभावयन्ति । एवमेतेषां प्राप्तिः विभिन्नरुपायैः पद्धतिभिश्च संभवति । अतः अधिगमप्रक्रियायाः विषये बहुभिः मनोवैज्ञानिकैः पञ्चाशदधिकाः सिद्धान्ताः प्रतिपादिताः । प्रत्येकं सिद्धान्तः आधिगमस्य स्वभाव प्रक्रियाञ्च विवृणोति । अमी सिद्धान्ताः छात्राणाम् अध्यापकानाञ्च पुरतः विविधाधिगमपद्धतीः , अधिगमसोपानानि च प्रस्तुवन्ति । केचन सिद्धान्ताः प्रेरण प्रतिक्रियाणां सम्बन्धैः अधिगमः जायत इति प्रतिपादयन्ति । अन्ये अधिगमे उद्देश्यानाम् अन्तर्दृष्टः अवबोधनस्य च महत्त्वं प्रतिपादयन्ति । अपरे तु अधिगमे अनुभवानां महत्वं प्रतिपादयन्ति । परन्त्वेतेषु न कोपि सिद्धान्तः संपूर्णाधिगमप्रक्रियायाः व्याख्याने असमर्थः वर्तते । अतः विभिन्नसिद्धान्तानाम् अध्ययनेनैव अधिगमस्य स्वरूपस्वभावान् ज्ञातुं शक्नुमः । पुनश्च तेषां सिद्धान्तानां वर्गीकरणमावश्यकम् । वर्गीकरणेन सिद्धान्तानां स्वरूपम् , आधारः , अनुप्रयोगश्च इतोऽपि स्पष्ट भविष्यति । अधिगमसिद्धान्तानां वर्गीकरणं द्वधा भवितुमर्हति । यथा अधिगमसिद्धान्ताः प्रेरकप्रतिक्रियासिद्धान्ताः संज्ञानात्मक सिद्धान्ताः S - R Theories Cognitive Theories 1 थार्नडेक - यत्नदोषसिद्धान्तः कोहर- अन्तर्दृष्ट्यधिगमः पावलोव - शास्त्रीयनिबन्धनसिद्धान्तः टोल्मन्- सप्रयोजनव्यवहारवादः स्किन्नर - सक्रियनिबन्धनसिद्धान्तः कर्ट लेविन् - क्षेत्रसिद्धान्तः गत्रि - सामीप्यतासिद्धान्तः राबर्ट गाने - अधिगमानुक्रमः हल्- चालकन्यूनीकरणसिद्धान्तः ।
अधिगमसिद्धान्तानां वर्गीकरणम् - तत्राद्याः प्रेरकप्रतिक्रियासिद्धान्ताः प्रेरक - प्रतिक्रिययोः सम्बन्धेन अधिगमः जायत इति निरूपयन्ति । अपेक्षितप्रतिक्रियासम्पादनाय योग्यप्रेरकाणां चयनं कृत्वा उपस्थाप्यन्ते । एतेन प्रेरकप्रतिक्रिययोः मध्ये सम्बन्धः जायते । एतदेव अधिगममनो विज्ञानदृष्ट्या निबन्धनम् इति कथ्यते । निबन्धनप्रक्रियायां पुलर्बलनस्य महत्त्वपूर्णस्थानं विद्यते । एतेषां प्रवर्तकेषु थार्नडैक , पावलोव , स्किन्नर इत्यादयः प्रसिद्धाः वर्तन्ते । एतानेव सम्बन्धवादसिद्धान्ताः ( Connection theories ) , व्यवहारवादसिद्धान्ताः ( Behaviourist theories ) इति नाम्नापि व्यवहारः क्रियते ।
द्वितीयाः संज्ञानात्मकसिद्धान्ताः अध्येतुः परिसरस्य प्रत्यक्षीकरणस्य मध्ये संसर्गेण अधिगमः संभवतीति निरूपयन्ति । अधिगमप्रक्रियायां प्रयोजनम् ( Purpose ) अन्तर्दृष्टिः ( Insight ) अवबोधनम् ( Understanding ) , तर्कः ( Reasoning ) स्मृतिः ( Memory ) इत्यादिसंज्ञानात्मकसामर्थ्यानां महत्त्वमेते प्रतिपादयन्ति । एतत्सिद्धान्तस्य प्रवर्तकेषु कोहरमहोदयः , टोल्मनमहोदयः , कर्ट लेविन् महोदयः , वेर्दिमरमहोदयः प्रसिद्धा वर्तन्ते । एतत्ाकारद्वयमतिरिच्य सूचनाप्रक्रियाकरणसिद्धान्ताः ( Information pro cessing theories ) , मानवतावादाधिगमसिद्धान्ताः ( Humanistic theories of Learning ) अपि प्रतिपादिताः । थार्नडैकमहोदयस्य यत्नदोषसिद्धान्तः - अमेरिकादेशस्य मनोवैज्ञानिकः ई.एल.थार्नडैक ( E.L.Thorndike ) महोदयः बिडालेषु मूषकेषु कुक्कुटेषु च विविधप्रयोगैः अनुसन्धानं कृत्वा यत्नदोषाधिगमसिद्धान्तं प्रत्यपादयत् । जन्तवः बहुप्रयासैः किञ्चित् अधिगच्छन्ति । यदा कश्चित् जीवः तमेव विषयं ज्ञातुं पुनः पुनः प्रयतते तदा क्रमशः दोषाः न्यूनाः भवन्ति । एवं जीवः यलदोषैरेव प्रेरकप्रतिक्रिययोः सम्बन्धं ज्ञात्वा क्रमिकाधिगम प्राप्नोति । इत्थं प्रतिक्रिययोः सम्बन्धेन अधिगमः जायत इति हेतोः सिद्धान्तमम सम्बन्धवादसिद्धान्तः ( Theory of connectionism ) इत्यपि व्यवहरन्ति । थार्नडैकमहोदयस्य मते यदा जीवस्य पुरतः किमपि प्रेरकं भवति तदा प्रतिक्रियां करोति । प्रतिक्रियया जीवः सन्तुष्टश्चेत् प्रेरकप्रतिक्रिययोः मध्ये सम्बन्धः जायते । इत्थं प्रेरकप्रतिक्रिययोः सम्बन्ध एव अधिगमः इत्युच्यते । एतादृशसम्बन्ध निर्माणप्रक्रियां बहूनि कारकाणि प्रभावयन्ति । यदि परिणामः सन्तोषं जनयति तर्हि प्रेरकप्रतिक्रिययोः सम्बन्धः ( S - RBond ) सुदृढः भवति । परिणामः बाधाकरश्चेत् तयोस्सम्बन्धः न्यूनः भवति । यदि कस्यचित् विशिष्टप्रेरकस्य कस्यश्चित् विशिष्टप्रति क्रियायाश्च सम्बन्धः जायते तर्हि जीवाय विशिष्टप्रेरक प्रस्तौति चेत् विशिष्टप्रतिक्रियां करोति । इत्थं प्रेरकप्रतिक्रिययोः सम्बन्धनिर्माणमेव अधिगमः इत्युच्यते । अत एव सिद्धान्तस्यास्य सम्बन्धवादसिद्धः ( Connectionism Theory Bond Theory ) इति व्यवहारः लोकप्रसिद्धः वर्तते । पावलोवमहोदयस्य शास्त्रीयनिबन्धनसिद्धान्तः -( Pavlov's Theory of Classical Conditioning ) इयान् पावलोव ( Ivan Pavlov ) महोदयः रष्यादेशस्य मनोवैज्ञानिकः वर्तते । सः शुनकेषु बहुप्रयोगान् कृत्वा शास्त्रीयनिबन्धनम् ( Classical conditioning ) इति सिद्धान्तं प्रतिपादयामास । तस्य मते प्रत्येकं जीवस्य केचन जन्मजातः प्राकृतिकस्वभाव : ( Tendencies ) , प्रतिक्रियाश्च ( Reactions ) भवन्ति । योग्यसहजोद्दीपकस्य उपस्थितौ जीवस्य प्रतिक्रियाः प्रकटीभवन्ति । यथा- बुभुक्षितस्य पुरतः आहार स्थापयति चेत् मुखे लालासावः भवति । यदा सहजप्रेरकस्य ( Natural Stimulus ) अन्येन कृत्रिमप्रेरकेण ( Unnatural stimulus ) साकं कतिपयपर्यायाः योजयति चेत् कालान्तरे केवलकृत्रिमप्रेरकस्य उपस्थितावपि जीवः सहजप्रतिक्रियां करोति । इत्थं नूतनप्रेरकेण अपेक्षितप्रतिक्रियासंपादनमेव निबन्धनम् इत्युच्यते । पावलोवमहोदयः वृत्या शारीरिकविज्ञानी ( Physiologist ) आसीत् । सः शुनकेषु पाचनस्य शारीरिकप्रक्रियायाः ( Physiology of Digeston ) अध्ययन मकरोत् । प्रयोगवेलायां भोजनप्राप्तेः पूर्वं शुनकेषु जायमानलालास्रावस्य प्रतिक्रिया आश्रित्य शास्त्रीयनिबन्धनसिद्धान्तं प्रत्यपादयत् । तद्यथा - पावलोवमहोदयः स्वप्रयोग मवलम्ब्य प्रतिक्रियाणां द्विधा विभागमकरोत् । प्रथमः सहजप्रतिक्रियाः वर्तन्ते याः जन्मजाताः भवन्ति । उदा - जीवः आहारं स्वीकरोति चेत् विविधग्रन्थयः मुखे लालासावम् उत्पादयन्तिा स्वाभावोऽयं जन्मजातशारीरिकप्रक्रिया वर्तते । अतः इयं प्रतिक्रिया सहजप्रतिक्रिया ( Natural Response ) अथवा निर्निबन्धितप्रतिक्रिया ( Unconditioned Response ) इति कथ्यते । अत्र प्रस्तूयमानभोजनं सहजप्रेरकम् ( Natural Stimulus ) अथवा ( Unconditioned Stimulus ) इति कथ्यते । द्वितीयाः अर्जितप्रतिक्रियाः ( Acquired Responses ) याः जीवः विविधानुभवैः जीवनकाले अर्जयति । यथा - विद्यालये छात्राः घण्टानादं श्रुत्वा प्रार्थनायै सिद्धाः भवन्ति । विद्यालय गमनात्पूर्वं बालकः इमां प्रतिक्रियां न करोति स्म । अतः इयम् अर्जितप्रतिक्रिया । एतदेव निबन्धितप्रतिक्रिया ( Conditioned Response ) इति कथ्यते । एवं रीत्या नूतनप्रेरकेण अपेक्षितप्रतिक्रियाप्रापिरेव निबन्धनम् इति कथ्यते । स्किन्नरमहोदयस्य सक्रियनिबन्धनसिद्धान्तः ( Skinner's Operant Conditioning Theory ) अधिगमसिद्धान्तस्य प्रवर्तकेष्वन्यतमः प्रमुखश्च वर्तते बि.एफ. स्किन्नर महोदयः । अयं मूषकेषु कपोतेषु च प्रयोगान् विधाय सक्रियनिबन्धनसिद्धान्तं प्रतिपाद यामास । सः पावलोव इत्यादिभिः प्रतिपादितं प्रेरकप्रतिक्रियासम्बन्धं तिरस्करोति । शास्त्रीयनिबन्धने प्रेरकेण जायमानप्रतिक्रियाणां कृते पुनर्बलनं दीयते । अतः प्रतिक्रियाः कर्तुं जीवाय सर्वदा प्रेरकाः अपेक्षन्ते । प्रेरकाणामभवे प्रतिक्रियाः न भवन्ति ( No stimulus , no response ) इति सिद्धान्तं स्किन्नर तिरस्करोति । जीवस्य बहूनां प्रति क्रियाणाम् अज्ञातप्रेरकाणि भवन्ति अथवा कदाचित् प्रेरकाणि न भवन्तीति विश्वसिति । स्किन्नरमहोदयः प्रेरक - प्रतिक्रिया ( Elicited response ) , प्रेरकरहितप्रतिक्रिया . ( Emitted response ) इति प्रतिक्रियाणां प्रकारद्वयमभिवर्णयति । तत्र प्रेरकरहित प्रतिक्रियाणां सक्रियाः ( Operants ) इति , ताभिः । जायमानव्यवहारस्य सक्रियव्यवहारः ( Operant behaviour ) इति च नामकरणमकरोत् । तत्र सक्रियव्यवहारस्य पुनर्बलनं दीयते येन जीवः तमेव व्यवहारं वारं वारम् आवर्तयति । इत्थं प्रेरकरहितप्रतिक्रियाणां . पुनर्बलनेन व्यवहारस्य नवीकरणमेव सक्रियनिबन्धनम् ( Operant conditioning ) इति कथ्यते । अत्र प्रेरकाणापेक्षया प्रतिक्रियाः प्रधानाः वर्तन्ते , अतः सक्रियनिबन्धनं प्रतिक्रियात्मकनिबन्धनम् ( Type R - Conditioning ) इत्यपि कथ्यते । संज्ञानात्मकाधिगमसिद्धान्ताः ( Cognitive Learning Theories ) अधिगममनोविज्ञानस्य सिद्धान्तेष्वन्यतमाः संज्ञानात्मकसिद्धान्ताः वर्तन्ते । अधिगमे संज्ञानस्य ( प्रत्यक्षस्य ) प्राधान्यतामङ्गीकुर्वन्ति । अधिगमे प्रेरक - प्रतिक्रिययोः सम्बन्धं तिरस्कुर्वन्ति । व्यक्तिः संपूर्णपरिवेषम् अवगम्य कार्यं करोति । अत एवैतेषां गेस्टाल्टसिद्धान्ताः ( Gestalt theories ) इति नामकरणं वर्तते । Gestault इति जर्मनभाषापदस्य प्रतिरूपम् ( Shape ) , आकृतिः ( Shape ) अथवा समग्राकृतिः ( Configuration ) इत्यर्थाः वर्तन्ते । अत एतेषां मते कस्यापि वस्तुनः स्वरूपम् आदौ पूर्णरूपेणाधिगच्छति । ततः परं तस्य भागानां विषये चिन्तयति । यथा- बालकः यदा द्विचक्रिकामादौ पश्यति तदा तस्य संपूर्णस्वरूपं कार्याणि चावगच्छति , ततः परं तस्याङ्गानां विषये चिन्तयति । गेस्टाल्टवादिनः अधिगमः काचित् सप्रयोजन अन्वेषणात्मक - रचनात्मकप्रक्रिया इति मन्यन्ते । अत्र अध्येता संपूर्णस्वरूपस्य प्रत्यक्षीकरणं करोति तथा तस्याङ्गेषु विद्यमानसम्बन्धानां विश्लेषणं कृत्वा अधिगच्छति । संपूर्णप्रत्यक्षीकरणस्य अनन्तरं विवेकेन योग्यनिर्णयं स्वीकरोति । इत्थं संपूर्णपरिवेषस्य प्रत्यक्षीकरणात्परं ( Perception of fatal situation ) बुद्धिशक्त्या योग्यप्रतिक्रियासामर्थ्यम् एव अन्तर्दृष्टिः इति कथ्यते । अयमन्तर्दृष्टिः एका मानसिकप्रक्रिया या मनुष्येषु तथा श्रेष्ठपशुषु च वर्तते ।
कोह्लरमहोदयस्य अन्तर्दृष्ट्यधिगमसिद्धान्तः ( Kohler's Insight learning Theory ) संज्ञानात्मकसिद्धान्तप्रवर्तकेषु वाल्फगांग कोह्लर ( Wolfgang Kohler ) अन्यतमः वर्तते । सः मानवेतरप्राणिषु मानवसदृशं बुद्धमन्तं प्राणिं वानरं ( Ape ) मत्वा तेषु विविधप्रयोगान् अकरोत् । सः The Mentality of Apes इति पुस्तके अन्तर्दृष्ट्यधिगमः ( Learning by insight ) इति नूतनसंप्रत्ययं प्रत्यपादयत् । जीवः संपूर्णपरिस्थितिम् अवबुद्धय , विविधांशानां मध्ये परस्परसंबन्धं विज्ञाय स्वबुद्धिशक्त्या योग्यनिर्णय स्वीकरोति । कोह्लरमहोदयः निर्णयसामर्थ्यमेतम् अन्तर्दृष्टिः ( Insight ) इति कथयति । अधिगमस्य मानवीयतासिद्धान्ताः ( Learning Theoreis of Humanism ) कालान्तरे मनोविज्ञानस्य बहवः संप्रदायाः आविर्बभूवुः । तत्र मानवतावाद विचारधारायाः मनोवैज्ञानिकाः अधिगमस्य मानवीयसिद्धान्तान् प्रत्यपादयन् । विविधेषु पशुषु , पक्षिषु , जन्तुषु च प्रयोगं विधाय निर्मिताधिगमसिद्धान्ताः मानवाधिगमक्षेत्रे प्रयोक्तुं नाहन्तीति एतेषामाशयः । वस्तुतः मनोविज्ञाने अमानवीयप्रयोगाणां , यान्त्रिक पायाश्च विरोधरूपेण मानवीयसिद्धान्तः आविर्भूतः । अतः सिद्धान्तेऽस्मिन् वैयक्ति कस्वातन्त्र्यम् , वैयक्तिकेच्छाः , भावनाः ( Feelings ) अभिप्रेरणम् इत्यादीनां प्रामुख्यं वर्तते । एतस्य प्रवर्तकेषु कार्ल रोजर्स ( Carle Rogers ) , अब्रहम् मास्लो ( Abraham Maslow ) , जान हाल्ट ( John Halt ) , मेकोम् नावुल्स ( Macolm Knowles ) इत्यादयः उल्लेखनीयाः वर्तन्ते । मास्लो महोदयस्य मानवीयाधिगमसिद्धान्तः ( Maslow's Humanistic theory of learning ) मनोविज्ञानस्य इतिहासे मानवतावादसिद्धान्तस्य प्रतिपादकेषु अब्रहम मास्लो ( Abraham Maslow ) महोदयः सर्वप्रथमः वर्तते । मनुष्येषु पशुवत् अथवा यन्त्रवत् व्यवहारः न करणीयः तथा मानवीयदृष्ट्या तेषां वैयक्तिकावश्यकतासु अवधानं दातव्यम् इति तस्याशयः । फलतः मानवाः किमर्थम् अधिगच्छन्ति ? कथम् अधिगच्छन्ति ? इत्यादिप्रश्नानामुत्तरं मानवीयसिद्धान्तमाश्रित्य प्रत्यपादयन् । मास्लोमहोदयस्य अधिगमसिद्धान्तः मानवस्य आवश्यकतानाम् अनुक्रमम् ( Heirarchical arrangement of Human needs ) आश्रित्य तिष्ठति । तत्र आवश्यकतानां पञ्चस्तराः वर्तन्ते । व्यक्तिः आवश्यकतानां पूर्तये निरन्तरं प्रयतते । एकस्मिन् स्तरे आवश्यकतानां पूर्तिः भवति चेत् अग्रिमस्तरे विद्यमानावश्यकतानां पूर्तये प्रयत्नरतः भवति । आवश्यकतानां पूर्तिसमये व्यक्तिः विभिन्नानुभवान् प्राप्नोति ये चानुभवाः तस्य व्यवहारे अपेक्षितपरिवर्तनाय प्रोत्साहकाः भवन्ति । इत्थं सः आवश्यकतानां पूर्तिसमये नूतनविषयान् अधिगच्छति ।
भारतीयाधिगमसिद्धान्तः- पूर्वोक्ताः अधिगमसिद्धान्तास्सर्वेऽपि जन्तुषु पशुशु पक्षिषु चानुसन्धानं कृत्वा पाश्चात्यैः प्रतिपादिताः आसन् । कक्ष्याप्रकोष्ठे एतेषां सिद्धान्तानां प्रयोगे सति अधिगमे अमानवीयगुणानां प्रवेशः भवतीति केषाञ्चिन्मतम् । अतः भारतीयदर्शनमाश्रित्य आचार्याः पेरिसुब्बरायन्महोदयाः आप्तवाक्याधिगमसिद्धान्तं प्रत्यपादयन् । एतत् अधिगमस्य उच्चस्तरीयोद्देश्यानां प्राप्तये अत्यन्तमुपकरोति । सिद्धान्तोऽयं बहुभिः विश्वविद्यालयः अङ्गीकृतः वर्तते । सम्प्रति अस्मिन् विषये अनुसन्धानानि भारते विदेशेषु च प्रचलन्ति । सिद्धान्तस्यास्य सारांशः प्रस्तूयते । आप्तवाक्याधिगमसिद्धान्तः- Theory of Learning by Verbal testimony ) भारतीयदर्शनेषु ज्ञानप्राप्तये षट्प्रमाणानि प्रतिपादितानि । तत्र शब्दप्रमाणम् अन्यतमं वर्तते । शब्दप्रमाणेनैव मानवाः अत्यधिकं ज्ञानं प्राप्नुवन्ति । इदञ्च आप्तोपदेशः , आप्तवाक्यम् , आप्तवचनम् इति नामान्तरैः व्यवह्रियते । उक्तञ्च तर्कसंग्रहे ' आप्तवाक्यं शब्दः ' इति । अर्थात् प्रामाणिकव्यक्तेः वचांसि जीवस्य ज्ञाने , क्रियायां व्यवहारे च परिवर्तनम् आनयन्ति । यथा- वयं भाषायाः विज्ञानपर्यन्तं सर्वमपि ज्ञानं शिक्षकेभ्यः एव प्राप्नुमः । नित्यजीवने अस्माकं भावाः , विश्वासाः , मूल्यानि , इच्छाश्च आप्तवचनैः प्रभाविताः भवन्ति । प्रपञ्चे न कोऽपि जनः पाणिनीयसूत्राणि प्रायोगिकपद्धत्या अधिगच्छति , परन्तु शिक्षकादेव । वयं न कदापि महात्मा गान्धीमहोदयम् अपश्याम अमिलाम च । तथापि तस्य विषये जानीमः । कथम् ? आप्तवचनात् । अतः सर्वेषां जनानाम् अधिगमक्रियायाम् आप्तवाक्यं प्रबलभूमिकां निर्वहति । आप्तवाक्यं संज्ञानात्मक - भावात्मक - क्रियात्मक - विचारात्मक प्रेरणात्मक - व्यवहारात्मक - अनुभवात्मकक्षेत्रेषु सापेक्षं परिवर्तनम् आरनयति । नित्यजीवनेऽपि अस्माकम् अभिवृत्तीनां , विश्वासानां , मूल्यानाम् , इच्छानाञ्च परिवर्तने विविधसन्दर्भेषु आप्तवाक्यम् अङ्गीकुर्मः । यथोक्तं मुक्तावलीव्याख्याने रामरुद्रीये ' प्रकृतवाक्यार्थविषयकयथार्थज्ञानप्रयोज्यशब्दोच्चारणकर्ता आप्तः ' इति । अर्थात् यः विश्वसनीयः , यः पदार्थानां यथार्थतत्त्वज्ञः , यः स्वज्ञानम् अन्येभ्यः बोधयितुमिच्छति , यः शिक्षणकार्ये समर्थः सः आप्त इति कथ्यते ।