सदस्यः:Debabrata Raj
साम्प्रतिक समाजे संगणकस्य (कम्प्यूटरस्य) उपयोगित्वम्
कम्प्यूटर (Computer) शब्दः आंग्लभाषायाः गणनार्थकात् कम्प्यूट (Compute) शब्दाद् निष्पद्यते । अत: कम्प्यूटरस्य कृते संगणक-शब्दः प्रयुज्यते । आधुनिकेषु आविष्कारेषु कम्प्यूटरस्य विशिष्टं महत्त्वं वर्तते । वर्तमान युग: संगणक युग: (Computer-age) इति निगद्यते । संगणकेन मानव-जीवने नवीना क्रान्तिः विहिता । संगणकस्य यादृशी तीव्रा प्रगति: संलक्ष्यते, न तादृशी प्रगतिः अन्यस्याः कस्या अपि क्रान्तेः संलक्ष्यते । प्रारम्भ-काले अस्य उपयोगः केवलं गणनाकायें समभवत्, परन्तु साम्प्रतम् अस्योपयोगः प्रायः सर्वेषु कार्येषु अनिवार्यतां धत्ते । साम्प्रतं कम्प्यूटरस्य उपयोगो यन्त्राणाम् आकार प्रकार निर्धारणे, भवनानां निर्माण-प्रक्रियायाम् ऋतुनिर्देशने, भवनानां निर्माण प्रक्रियायाम्, विमानादीनां दिशा-निर्देशने, रेल-विमानादिषु आरक्षणकार्ये, रोगाणां सूक्ष्म-परीक्षणे विश्लेषणे च, वैज्ञानिके शोधकार्ये, वाणिज्य-व्यवसाये, वेतन- गणनायाम्, कार्यालय प्रबन्धने, भण्डागार व्यवस्थापने, कार्मिकानां वेतनादि-निर्धारणे विधीयते । एवमेव बीमा शेयर प्रभृतिषु उद्योगेषु, शिक्षाक्षेत्रे, मनोरञ्जन-विधौ, ललित-कला-कार्य-कलापे महत्त्वपूर्णा भूमिका वर्तते कम्प्यूटरस्य ।
सर्वप्रथमं सांख्यिकी - कम्प्यूटरस्य निर्माणं पेनसिलवानिया - विश्वविद्यालये १९४६ ईसवीये अभवन् तदा एतस्य भारः त्रिंशत् - टन-परिमितम् आसीत् साम्प्रतं कम्प्यूटरः अतिद्रुतगत्या विकासं कुर्वन् लोकस्य उपयोगितां साधयति आकार-प्रकार - दृष्ट्या कार्यक्षमतां चाश्रित्य कम्प्यूटर: चतुर्वर्गेषु विभाज्यते । १. मेन फ्रेम-कम्प्यूटर:, २. मिनि- कम्प्यूटर: ३. माइक्रो-कम्प्यूटरः, ४. सुपर कम्प्यूटरः
१. मेन फ्रेम कम्प्यूटरः - एष संगणको महतीं क्षमतां धत्ते । अत्र अनेके जनाः कार्यं कर्तुं शक्नुवन्ति । एते संगणकाः उपकेन्द्रैः सह संयोजनेन- माइक्रोवेव-माध्यमेन भू उपग्रह-संचार-व्यवस्थायाम् वायुयान - आरक्षणे, रेलयान- आरक्षणे च प्रयुज्यन्ते । एते बहुमूल्याः भवन्ति । २. मिनि कम्प्यूटरः - एष मध्यमश्रेण्याः भवति । एते संगणकाः बीमा-बैंक-होटलादि-उद्योगेषु उपयुज्यन्ते । ३. माइक्रो कम्प्यूटरः - एष साम्प्रतं सर्वाधिकं प्रयुज्यते । अत्रैको जनः कार्यं कर्तुं प्रभवति । एते संगणकाः लघवोऽल्पमूल्यकाश्च भवन्ति । व्यक्तिगत कार्येषु उपयोगाद् एते संगणका: ( Personal Computer, P.C.) नाम्बां निर्दिश्यन्ते । एते लघ्वाकारा अपि उपलभ्यन्ते । आकार दृष्ट्या लघवोऽप्येते कार्यदृष्ट्या महतीं क्षमतां दधति । ४. सुपर कम्प्यूटर: - एते आकारदृष्ट्या विशाला भवन्ति । कार्य-दृष्ट्या एते अन्यसंगणकापेक्षया तीव्रतमा भवन्ति । एतेषु गणना कार्यम् एकत्रैव सर्व संपाद्यते । एतादृशानां संगणकानाम् ऋतुविज्ञानकायें, अन्तरिक्ष-प्रौद्योगिकी-कार्ये, उपग्रह प्रक्षेपणे, प्रक्षेपास्त्र-निर्माणे, प्रक्षेपास्त्र-प्रक्षेपणे, परमाणु-बम- निर्माणे, तस्य विस्फोटादि-कार्ये च विधीयते । शिक्षा क्षेत्रे संगणकानां बहुविधा उपयोगिता संगणकानां साहाय्येन जटिल समस्यानां निराकरणं सरलतया संभवति । प्रशिक्षण कार्येऽपि संगणकानाम् उपयोगो भवति। शोधकार्येऽपि संगणकानाम् उपयोगिता महत्त्वपूर्णा वर्तते । विविधविषयाणां स्वयं शिक्षणेऽपि संगणकानाम् उपयोगो विधीयते । सर्वमपि पाठ्यं विभज्य संगणके स्थाप्यते, तच्च सर्वं पाठ्यं क्रमशः उपतिष्ठति । एवम् अनेका विद्याः संगणक-माध्यमेन शिक्षितुं शक्यन्ते । एता विधा: CAL (Computer Assisted Learning), CAI ( Computer Aided Instruction) इति च नाम्ना निर्दिश्यन्ते । परीक्षाकार्येषु अपि संगणका: बहुधा प्रयुज्यन्ते । परीक्षा तिथि निर्धारणे, परीक्षाया आयोजने, परीक्षा परिणाम- संगणने, परीक्षा परिणाम प्रकाशने च संगणकानां महती भूमिका । पुस्तकालय - विषयिका सर्वाऽपि सूचना संगणक-माध्यमेन सरलतया प्राप्तुं शक्यते । पुस्तक प्रकाशने पुस्तकानां व्यवसाये च संगणकानाम् उपयोगो महत् सौविध्यं विदधाति । इलेक्ट्रिक पुस्तक प्रकाशनेन पुस्तकानाम् उपलब्धौ सौविध्यं भविष्यति । वेव साइट- माध्यमेन इलेक्ट्रानिक रूपेण पुस्तकं प्राप्तुं शक्यते ।
वैज्ञानिक-शोध-कार्येषु संगणकानां महत्त्वपूर्ण योगदानं वर्तते । वैज्ञानिकं शोधं कार्यं निरन्तरं प्रसरति । तत्र गणनायां जटिलतायाः संगणक-माध्यमेन समाधानं भवति । भौतिक-विज्ञाने, रसायन-विज्ञाने, खगोल विज्ञाने, भूगर्भ - विज्ञाने, गणितशास्त्रे, कृषि विज्ञानादिषु च संगणकस्य प्रयोगेण महती प्रगतिः संलक्ष्यते । भैषज्य-विज्ञाने, सामाजिक विज्ञाने, मानवशास्त्रादीनां शोधकार्येषु संगणकस्य उपयोगः प्रतिदिनं वर्धते । कम्प्यूटर - माध्यमेन विशाल-भवनानां, सेतूनां, वायुयानानाम् आदर्श-चित्रं सारल्येन प्रस्तूयन्ते ।
ललितकला क्षेत्रेऽपि संगणको नूतनां संभावनां जागरयति । संगणक: संगीत प्रक्रियायां, मूर्ति निर्माणेऽपि विविधं साहाय्यम् आचरति । क्रीडाक्षेत्रे संगणको नूतनां संभावनां प्रस्तौति । कम्प्यूटर-माध्यमेन विविधाः क्रीडा:- हाकी फुटबाल क्रिकेट प्रभृतयः दूरदर्शन चित्रपटे द्रष्टुं शक्यन्ते । विविध क्रीडानां सजीवं प्रसारणं संगणक-माध्यमेन संभाव्यते ।
चिकित्साक्षेत्रे संगणकानाम् उपयोगो महत्त्वपूर्णां भूमिकां निर्वहति । आतुराणां परीक्षणम् , उपचारक्रिययैव सह शल्यक्रियाऽपि संगणकानां प्रयोगेण अनुष्ठीयते । मस्तिष्कस्य चित्रनिर्माणे कैट स्केन (Computerised Axial Tomography) पद्धतिः प्रयुज्यते। व्यापार-क्षेत्रेऽपि संगणकानाम् उपयोगः प्रतिपलं वर्धते । कार्मिक- वेतन-गणना, कार्मिक-प्रबन्धनम्, भाण्डागार - नियन्त्रणं संगणक-माध्यमेन संपाद्यते । व्यापारिक-संस्थानाम् आय-व्ययादि-संकलनम्, दैनिक वेतन-गणनादिकम्, वार्षिक वेतन निर्धारणादिकं च संगणक माध्यमेन सारल्यं भजते । संगणकस्य प्रयोगेन प्रबन्धन-व्यवस्था अतीव सरला संजाता ।