सदस्यः:Debajani Nayak
मनोविज्ञानस्य प्रमुखाध्ययन विधयः
मनोविज्ञानं व्यवहारस्य अध्ययनं करोति । तत्रापि शिक्षामनोविज्ञानस्य प्रधानमुद्देश्यं वर्त्तते यत् शिक्षकः विभिन्नस्तरेषु अध्ययनरतछात्राणां व्यवहारस्य, अवगमनं, नियन्त्रणं , भाविकथनं च कर्तुं समर्थः भवेत् । आधुनिकयुगे कस्यापि विषयस्य वैज्ञानिकतायाः मापदण्डः तस्य विधिरेव वर्त्तते । विषयस्य विकासाय अनुसन्धनाय च विधिनां पद्धतिनां महत्वपूर्णं स्थानं वर्त्तते । वस्तुतः मनोविज्ञानस्य शिक्षामनोविज्ञानस्य च पद्धतयः समानाः वर्त्तते । व्यवहारस्य अध्ययनाय वहवह विधयः वर्त्तन्ते यथा –
1.अन्तदर्शनविधिः 2. निरीक्षणविधिः
3. प्रयोगात्मकविधिः 4.व्यक्तिवृत्ताध्ययन विधिः
5.उपचारात्मकविधिः
वस्तुतः एतास्सर्वा पद्धतयः निरिक्षणस्य प्रकाराः एव । निरीक्षणस्य परिस्थितिः, प्रकाराः , आवश्यक उरकरणानाम् आधारेण विविध पद्धतयः समुद्रिताः । यथा – काचित् व्यक्तिः स्वव्यवहारस्य निरीक्षणं स्वयं करोति चेत् आत्मावलोकनं इति कथ्यते । काचित् व्यक्तिः अन्यस्य निरीक्षणं करोति चेत् निरीक्षणं पद्धतिः इत्युच्चते । तथैव स्वतन्त्रपरतन्त्रयोः नियन्त्रणं कुर्वन् प्रायोगिक परिस्थितिषु निरीक्षणं करोति चेत् सा प्रयोगिक पद्धतिः इतिकथ्यते ।
अन्तदर्शनविधिः
अयं विधिः मनोविज्ञानस्य प्राचीनतमविधिः अस्ति । वूण्टटिचनश्महोदयौ अस्याः प्रवर्त्तकमिति मन्येते ।अन्तदर्शनस्य अर्थः भवति स्वस्मिन् स्वस्य दर्शनम् (To look within), अस्मिन् विधौ व्यक्तिः स्वस्य मानसिकक्रियाणां प्रतिक्रियाणां च अध्ययनं स्वयमेव करोति । उदाहरणार्थं यदि कश्चन जनः दुःखम् मअनुभवति तदा दुःखस्य भावं प्रकटयति । यदि कश्चित् जनः अत्याधिकं हर्षम् अनुभवति तदा सः कथयति – अद्य अहम् अतीव प्रसन्नः अस्मि । अस्य विधेः तिस्रः अवस्थाः भवन्ति । यथा-
(1) यदा जनः स्वस्य मानसिकक्रियाणां विचारं करोति अथवा कस्यचित् कार्यस्य कारणान् अन्वेषणं करोति ।
(2) यदा जनः स्वस्य आचरणं परिमार्जयितुं प्रयासं करोति ।
(3) यदा जनः कस्यापि कार्यस्य गुणादोषान् स्वयमेव चिन्तयति ।
निरीक्षणविधिः –
इन्द्रैः क्रियमाणां परीक्षणं निरीक्षणम् इति उच्यते। व्यवहारवादस्य प्रवर्त्तकाः J. b वाट्सन् प्रभृतयः अस्याः विकासः कुर्वन्ति स्म । तेषां मते जीवव्यवहारस्य अध्ययनं निरीक्षणेन कर्तुं शक्यते । अस्मिन् विधौ कस्यापि जनस्य व्यवहारस्य अध्ययनं अन्येन जनेन क्रियते । अस्मिन् विधौ सर्वेषाम् अवलोकनं सम्यकतया भवति । अस्य त्रयः अवस्थाः भवन्ति । यथा –
व्यवहारस्य अवलोकनं, अनुमानम्, व्यवहारस्य व्याख्या इति ।
अस्मिन् विधौ कस्यापि जनस्य व्यवहारस्य अवलोकनं क्रियते । निरीक्षणकर्त्ता स्वस्य पूर्वज्ञानं प्रयोज्य प्रदर्शित व्यवहारस्य अनुमानं करोति, विश्लेषणं च करोति । अनेन निरीक्षकः ज्ञातुं शक्नोति यत् एतस्य व्यवहारः इदृशः वर्त्तते । अनया प्राप्तनिष्कर्षाणां विश्वसनीयता, वैधता, वस्तुनिष्ठता च भवति । अन्तर्दर्शनविधिः चतुः प्रकारकाः भवन्ति । यथा- औपचारिक निरीक्षणम् , अनौपचारिक निरीक्षणम् , सहगामी निरीक्षणम् , असहगामी निरीक्षणम् च ।
प्रयोगात्मकविधिः
शिक्षामनोविज्ञाने प्रयोगविधिः विधिषु अन्यतमः । प्रयोगकारणात् एव विज्ञानपदवीं धारयति शिक्षामनोविज्ञानम् । नियन्त्रितावस्थायां क्रियमाणं परीक्षणं प्रयोगः कथ्यते । प्रयोगविधौ परीक्षणं प्रयोगाणां आधारे व्यवहारसम्बन्धि निष्कर्षाणां उपरि वलं दीयते। प्रयोगक्रियाणां परीक्षणाय एकस्य वस्तुनश्चयनं क्रियते । प्रयोगकारणात् एव विज्ञानपद्धति धारयति शिक्षामनोविज्ञानम् । अस्मिन् विधौ अन्येषां प्रभावक तत्वानां नियन्त्रणं कृत्वा प्रयोज्यस्य मानसिकक्रियाणां अध्ययनं क्रियते । प्रयोगक्रियायां परीक्षणाय एकस्य वस्तुनश्चयनं क्रियते । तेन सम्वन्द्धानिसर्वाणि प्रभावकाणि पृथगेव स्थाप्यन्ते , येषां प्रभावो मानसिकक्रियाणां भवितुमर्हति । अनेनैव प्रकारेण नियन्त्रितावस्थायां परीक्षणानि क्रियन्ते ।
व्यक्तिवृत्ताध्ययनविधिः –
मनोविज्ञानं जीवव्यवहारस्य अध्ययनं करोति । तत्रापि शिक्षामनोविज्ञानं छात्राणां व्यवहारस्य अध्ययनं करोति । विद्यालये छात्राणां वहु समस्याः आयाति । तत् समस्याः कदाचित् सामूहिकाः कदाचित् वैथक्तिकाश्च भवन्ति । व्यक्तिवृत्ताध्ययनविधिः व्वहारध्ययनस्य सः विधिः वर्त्तते यस्मिन् कस्यापि व्यक्तिविशेषस्य व्वक्तिगतरूपेण समग्रतया तस्य परिवेशस्य गहनतया अध्ययनं क्रियते । येन तस्य व्यवहारव्यक्तितयोः पक्ष्ययोः सर्वाङ्गचित्रणं स्पष्टीकरणं च सम्भवं भवेत् । अस्मिन् विधौ कस्यापि व्यक्तेः इतिहासस्य संकलनं कृत्वा तस्य व्यक्तित्वस्य न्युनतां तथा गुणानां उपरि प्रभावकतत्वानां अध्ययनं क्रियते । अनेन समस्याग्रस्तानां प्रतिभाशालीनां मन्दवुद्धियुक्तानां वालकानां अध्ययनं क्रियते सफलतां च प्राप्यते ।परीक्षणकर्ता वालकस्य विश्वासं विजित्य गतजीवनविषये ज्ञानार्थं प्रपयत्नं करोति । तस्य प्रतिवेशीनां मित्राणां मातापितृणां विषये तथा परिवारस्य स्थिति ज्ञानार्थं प्रयत्नं करोति । पूर्वज्ञानात् परं तस्य वालकस्य विषये तथा परिवारस्य स्थिति ज्ञानार्थं प्रयत्नं करोति । पूर्व ज्ञानात् परं तस्य बालकस्य विषये धारणा निदानं च करोति ।
उपचारात्मकविधिः
उपचारात्मकविधिः साधारणतः विशेषप्रकारस्य अधिगमे व्यक्तित्वस्य अथवा आचरणसम्भन्धी जटिलतानां अध्ययने तथा तेषां अनुकुलं विभिन्न प्रकारस्य उपचारात्मकविधिनां प्रयोगे उपयोज्यते । पद्धतिरियं वस्तुनिष्ठा वर्त्तते । अस्यां व्यक्तिविशेषस्य दशायाः निरीक्षणं कृत्वा तस्मै जनाय उपाचारात्मिका संस्तुतयः पदीयन्ते । जने याः न्युनताः भवन्ति । तासां न्यूनतानां पूरणाय संस्तुतयः एतस्यां प्रविधौ पदीयन्ते । उपाचारानन्तरं जनस्यानुगमनं (Follow up) क्रियते । उपाचारस्य फलं वीक्ष्यैव प्रविधेः साफल्यं परिकल्प्यते ।
पद्धतेरेतस्याः कार्यप्रणाली द्विधा विभज्यते । अत्राद्वौ समस्यात्मकस्य जनस्य समस्यायाः निदानं क्रियते । निदानार्थं तस्य जनस्य चिकित्सकेन भौतिकं परीक्षणं क्रियते । सन्दर्भेऽस्मिन् तस्य जीवनेतिहासो ज्ञायते । अत्रैव बुद्धैः, क्षमतायाः, रुचेरभिरुचेः व्यक्तित्वस्य च परीक्षणं क्रियते । एतद्धेतोः विविधिनां प्रयोज्यसम्बन्धिनां जनानां साक्षात्कारोऽपि क्रियते ।
देवजानी नायक
शिक्षाशास्त्री प्रथमवर्षम्
शिक्षाशास्त्रविभागः
अनुक्रमाङ्कः-19
एकलव्यपरिसरः,अगरतला