सामग्री पर जाएँ

सदस्यः:Divya prakash arya

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

श्रीबगलामुखी पञ्चाक्षर-स्तवनम् || (रचयिता: पण्डित चन्द्रकान्त चौबे) (छन्द: शार्दूलविक्रीडित) ब्रह्माण्डोत्कटकाण्डचण्डकिरणप्रौढप्रभाभास्वरैः बद्धारातिसमूहवाग्वदनकस्तम्भीकृताज्ञापरा। बालादित्यसुवर्णकान्तिरुचिरा बाधाविनाशोद्यता ब्रह्मास्त्रादिविभूषिता विजयते माता जगन्मोहिनी ॥१॥ गुम्फद्गात्रसुवर्णरत्नविलसद्गौराङ्गकान्तिच्छटा- गुञ्जन्मत्तधुरन्धरालिपटलग्रीवाविभूषोज्ज्वला। गुह्याचारविचारगूढमहिमा गुर्वी गुणानां निधिः गुप्तारातिविनाशिनी विजयते पीताम्बरा सा गुणा ॥२॥ लावण्यामृतसिन्धुवीचिनिचयक्रीडाकलाकोविदा लाक्षासिक्तपदाब्जयुग्मसुषमा लालित्यलीलास्पदा। लालापायिशत्रुजिह्वदलिनी लाङ्गलदण्डायुधा लाभालाभविवर्जिता भगवती लोकेशवन्द्या सदा ॥३॥ मुक्ताहारविराजमानकुचभृन्मुग्धेन्दुचूडाञ्चिता मुख्यप्राणनिरोधकारिणि महामोहान्धकारच्छिदा। मुण्डश्रेणिविराजितोरुगले मुद्गरधारिण्यसौ मुक्तिज्ञानप्रदायिनी विजयते मूढप्रपञ्चापहा ॥४॥ खीलीभूतसमस्तदुष्टवचसां जिह्वाग्रकीलात्मिका खिन्नानन्दविधायिनी खलु नृणां खेदप्रणाशोद्यता। ख्याताख्यानविचारसारहृदया खड्गोग्रहस्ताम्बुजा खीवर्णान्तिमतत्त्वरूपविभवा पायात् सदा चण्डिका ॥५॥ ॥ फलश्रुति ॥ पापौघप्रशमं धियः समुदयं शत्रुक्षयं तत्क्षणात् कुर्वाणा बगलामुखी विजयते देव्येष्टसिद्धिप्रदा। भक्त्या यः पठतीदमुग्रचरितं शृण्वन् नरो मुच्यते चौबेपण्डितचन्द्रकान्तरचितं स्तोत्रं सदा पातु वः ॥६॥

"https://sa.wikipedia.org/w/index.php?title=सदस्यः:Divya_prakash_arya&oldid=498047" इत्यस्माद् प्रतिप्राप्तम्