सामग्री पर जाएँ

सदस्यः:Dpradeep99

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
         गीतायां राष्ट्रभावना

गीतेयं न केवलं प्रस्तौति सर्वासामप्युपनिषदां सारभागम्,अपि श्रुतिसारमपि प्रस्तौतितराम् ।अतः समग्रस्यापि वाङमयस्य सारमुपस्थापयति ।अत एव गीता लोकप्रिया विश्वप्रिया चाभवत् । उक्तं च-

   सर्वोपनिषदो गावो दोग्धा गोपालनन्दनः ।
   पार्थो वत्सः सुधीर्भोक्ता दुग्धं गीतामृतं महत् ।।

स्वल्पशिक्षाप्रबुद्धोऽपि मानवो अस्याः सामान्यमर्थम् अवगन्तुं पारयति। अत एव ‘गीता सुगीता कर्तव्या किमन्यैः शास्त्रविस्तरैः’ इति वचने राष्ट्रभावना विद्यते ।कारणं गीतां पठित्वा तत्रत्योपदेशान् परिपाल्य यदि जीवननिर्वाहः क्रियते तर्हि राष्ट्रः सुचारुतया समुन्नत्या सह अग्रे सरेत् इत्यत्र नास्ति सन्देहलेशः ।आत्मनः अजरत्वम् अमरत्वम् अविनाशित्वं च यद्दर्शनानां सारमस्ति तत् कथमिव हृद्यरुपेण माधुर्येण प्रस्तुयते “अजो नित्यः शाश्वतोऽयं पुराणो,न हन्यते हन्यमाने शरीरे”(गीता २/२०) । किञ्च आत्मनः अवध्यत्वं शाश्वतत्वं चोपदिशता प्रोच्यते-

   नैनं छिन्दन्ति शास्त्राणि नैनं दहति पावकः। 
 न चैनं क्लेदयन्त्यापो न शोषयति मारुतः ।। (गीता २/२३)
                 मृत्युना शरीरनाशो भवति 
  नत्वात्मविनाशः,अन्यजन्मधारणं जीर्णवस्त्रपरिवर्तनेन नववस्त्रपरिधानमिव विज्ञेयम् ।यथा गीतायाम्-वासांसि 
  जीर्णानि यथा विहाय नवानि गृह्णाति नरोऽपराणि ।   तथा शरीराणि विहाय जीर्णान्यन्यानि संयाति नवानि देही।। (गीता २/२२)

इत्थमनेकानि उपदेशात्मकोदाहरणानि गीतायां विद्यन्ते,यानि पठित्वा अर्थानवबोध्य च जनः स्वार्थत्यागपूर्वकं राष्ट्रभावनामङ्गीकुर्यात् ।

प्रदीपकुमारबेहेरा

"https://sa.wikipedia.org/w/index.php?title=सदस्यः:Dpradeep99&oldid=449219" इत्यस्माद् प्रतिप्राप्तम्