सामग्री पर जाएँ

सदस्यः:Gayatri panda1

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

अत्याधुनिककक्क्षयाकक्षः

अधुना आधुनिकतापूर्णसमाजे आधुनिकतायाः विशेषः प्रभावः शिक्षायाम् उपरि दृश्यते । तत् च अत्याधुनिक कक्ष्याकक्षः । इदं पद्धतिम् अनुसृत्य अध्ययनक्षेत्रे न केवलं छात्राः उपकृतः भवन्ति अपितु शिक्षकाः अपि नूतन शिक्षण कौशल माध्यमेन कठिन बिषयः सर

लतया छात्रान् अवबोधयितुं समर्थाः भवन्ति । अधुना प्रत्येकम् अपि विद्यालये महाविद्यालये श्यामपट्टः स्थाने श्वेतपट्टः , अन्तप्रक्षेपकः च दृश्यते । एवं च छात्राणां ज्ञान केवलं पुस्तकं मध्ये सिमीतं न भुत्वा नवाचारं प्रति रुचीं वर्द्धत्ति । अध्यापकः स्वीय शिक्षणप्रक्रियां प्रभावी कर्तुं अनेकानि शिक्षणकौशलानि प्रयोगं करोति । परन्तु प्रत्येकं अध्यापकानां मध्ये सम्प्रेषणकौशलस्य ज्ञानं अत्यावश्यकं भवति । येन सः स्वीय पाठ्यवस्तुनि प्रभावपूर्णतया छात्रान् अवबोधयितुं समर्थः भवेत् । अधिगमप्रक्रियां प्रभावशाली कर्तुं कक्षायां नवीनप्रबिधिनां प्रयोगस्य आवश्यकता वर्तते । अतः अध्यापकः एवं कर्तुं शक्यते यत् कक्षायाम् आधुनिकशिक्षणाधिगमप्रक्रियायाः उपयोगं क्रियते । शिक्षणप्रक्रियां प्रभावी कर्तुं कानिचन महत्त्वपूर्ण शिक्षणाधिगमप्रबिधिनां आवश्यकता वर्तते । अधुना तु अत्याधुनिकडिजिटलकक्षाकक्षः अत्यन्त उपयोगी तथा महत्त्वपूर्ण शिक्षणाधिगमप्रबिधिरुपे कार्यं करोति । अधुना प्रतियोगितावादियुगे शिक्षायाः गुणवत्ताः एकाः मूलावश्यकताः वर्तते । अद्य प्रबिधिः मानवीयजीवनं सम्पूर्णं के प्रभावितं करोति । भारते अत्याधुनिककक्ष्याकक्षः एकः आधुनिकशिक्षणविधेः स्वरुपं वर्तते । यः छात्रान् गुणात्मकशिक्षां प्रददाति । अस्यानुसारं छात्रेषु प्रत्ययनिर्माणं, प्रत्ययविस्तारणं, तथा च पठनकौशले उपलब्धिनां गुणात्मकविकाशं जायते । शिक्षायां सम्प्रेषणार्थं प्रबिधिः अस्माकं कृते अत्यन्तपोयोगिं सिद्ध्यते । प्राचीनकाले गुरुकुलस्य व्यवस्थाः आसीत् । तत्र छात्राः मौखिकरुपेण अधिगमम् अकुर्वन् । परन्तु अधुना भारते अत्याधुनिककक्ष्याकक्षः पद्धतिः एकं नूतनशिक्षणकौशलरुपे अध्ययनक्षेत्रे प्रसिद्धोस्ति । इयं कक्षायाम् अनुदेशनात्मक सामग्री तथा च त्रि-आयाम एनिमेशन मोड्युल् इत्यस्य उपयोगं करोति । अधुना सर्वासु विद्यालयेषु अत्याधुनिककक्ष्याकक्षः पद्धत्यानुसारं शिक्षादानं व्यवस्थां प्रचलति । अद्य छात्राः अयं नवाचारप्रत्ययं तथा च अन्तक्रियात्मकः अधिगमप्रक्रियां स्वीकृत्य अधिगम कर्तुं रुचिं करोति । डिजिटल कक्ष्याकक्षः न केवलं शिक्षाप्रक्रियां रुचिपूर्ण्ं करोति अपितु छात्राणां उपलव्धिस्तरे अपि प्रगतिशीलं करोति । अयं पद्धतिः अधुना शिक्षाप्रणाल्यां प्रमुखं अ़ंगं जायते । अद्य शिक्षकः कक्षायां दृश्यश्राव्योपकरणेन अतिसरलतया छात्रान् अवबोधयितुं समर्थः भवेत् । अत्याधुनिककक्ष्याकक्षस्य आंग्लोभाषया नाम स्मार्ट ( SMART ) इति भवति । स्मार्ट इति शब्दस्य अभिप्रायः एवं वर्तते यत् - S = Specified , M = Measurable – मापनीयम् , A = Achievable – प्रात्पयोग्याः , R = Reliable – विश्वसनीयः , T = Time restricted – समयपावन्दम् इति । अत्याधुनिककक्ष्याकक्षः एवं भवति यत्र अनुदेशकः विभिन्नानि प्राविधिकोपकरणानि उपयुज्य शिक्षणं करोति । तत्रापि संगणकः तथा तत् सम्वन्धिः दृश्यश्राव्योपकरणानां प्रयोगं करोति । अस्यां कक्षायां शिक्षकः शिक्षणाधिगमप्रक्रियां प्रभावयितुं अनेकानि प्राविधिकोपकरणानि स्वीकरोति यथा – डि.वि.डि , प्ले बैक , पावार पाईंट प्रेजेंटेशन , डेटा प्रोटेक्टर , संगणकः , एपिस्कोप , एपिडियास्कोप , टेलिविजन इत्यादयः भवति ।


अत्याधुनिककक्ष्याकक्षस्य संरचना

स्मार्टकक्ष्याकक्षस्य संरचनायाः कानिचन महत्त्वपूर्णानि यन्त्रांशोपागमस्य आवश्यकता वर्तते यथा –

1. स्मार्टवोर्ड ।

2. श्वेतपट्टः ।

3. ड्राएइरेजश्वेतपट्टः ।

4. पर्दाः ।

5. डिजिटल अन्तप्रक्षेपकयन्त्रः ।

6. वि.सि.डि तथा च डि.वि.डि ।

7. वायरालैस माउस तथा पावार पाईंट स्लाइड् सो कन्ट्रोलर ।

8. चाट कम्प्युटर एवं च लैपटॉप कम्प्युटर ।

9. डॉक्युमेण्ट कैमरा ।

अत्याधुनिककक्षायाः उपयोगिता

1. अत्याधुनिककक्षायाः आधुनिकप्रणाली छात्र-शिक्षकयोः मध्ये बन्धुत्ववातावरणम् स्थापयति ।

2. अस्याः कक्षायाः छात्राः सरलतया स्वल्पसमये च अधिकम् अधिगमं कूर्वन्ति , साकं शिक्षकानाम् अपि अध्यापनकौशले उन्नतिं भवति ।

3. छात्राणां ज्ञानस्य संचारणार्थं इयं प्रविधिः एकः सहायकमाध्यमः रुपे सिद्ध्यते ।

4. इयं अन्तक्रिया माध्यमेन छात्राः कठिनविषयान् अतिसरलतया अवबोधयितुं समर्थाः भवन्ति ।

5. शिक्षकाः अपि इदं स्वीकृत्य अन्तर्जालः माध्यमेन प्राप्ततथ्याः रोचकरुपेण छात्रान् अवबोधयितुं समर्थाः भवन्ति ।

6. अयं माध्यमः छात्र-शिक्षकयोर्मध्ये पारदर्शिता स्थापयति ।

7. अस्य माध्यमस्य अन्य-एका विशेषता एवं भवति यत् कक्षायां छात्राणां उपस्थितेः अनुपस्थितेः च डिजिटल रेकड रक्षति ।




अत्याधुनिककक्षायाः घटकाः

1. आंगल , हिन्दि तथा च अन्यभाषायाम् अपि सर्वेषु विषयेषु एवं च भाषाप्रयोगशालायां मल्टिमिडिया सामग्रीम् ।

2. कम्प्युटर, डेक्सटप् , हाइ एंड कम्प्युटर च ।

3. अन्तप्रक्षेपकः , श्वेतपट्टः तथा च ग्रीन् पिन् अप् वोर्ड ।

4. विद्यालये अन्तर्जालेन साकं परिसरे वाई-फाई इति व्यवस्थाः करणीयम् ।

निष्कर्षः

अयं माध्यमः छात्रान् तथा अध्यापकान् आधुनिकताया परिवर्तनं करोति । इदं अत्याधुनिककक्षापद्धत्यां शिक्षाम् एकः नूतन आयामः मिलति तथा च एकः सुन्दर भविष्यः अपि निश्चितं भवति । अन्ते च एवं वक्तुं शक्यते यत् अधुना अद्यतन अन्तर्जालयुगे अत्याधुनिककक्षामाध्यमेन शिक्षाप्रदानम् व्यवस्थाः छात्राणां कृते तथा तेषां सुन्दर भविष्यं कृते च एका सहायिका भवति । अद्यतन छात्राः श्वस्तन देशस्य नागरिकाः भविष्यन्ति । तर्हि वक्तुं शक्यते – “ पठ्यते भारतं वर्ध्द्यते भारतम् “ ।

"https://sa.wikipedia.org/w/index.php?title=सदस्यः:Gayatri_panda1&oldid=460930" इत्यस्माद् प्रतिप्राप्तम्