सदस्यः:Harapriya Mohakud
अतिलोभ: न कर्त्तव्य:
कस्मिश्चित् ग्रामे एक: कृषक: निवसति स्म । प्रचण्डातपकारणात् तस्य सर्वाणि क्षेत्राणि शुष्कानि जातानि । एकदा स: गृहात्: वर्हि: तस्य क्षेत्रे एव शयानासीत् । अकस्मात् तस्य निद्राभंग: अभवत् । तस्मिन समये स: एकं सर्पं दृष्ट्वा भयभीत: अभवत् । अरे अत्र तु सर्प: अस्ति ! एतस्य पूजा मया न कृता, अत एवं वृष्टि: नाभवत् । मया एतस्य पूजनं कर्त्तव्यम् । इति विचिन्त्य स: साक्षात् सर्पस्य समीपं गत्वा अवदत – “भगवन ! क्षन्तव्योSहम्” । अहं भवतां सर्वदा पूजनं करिष्यामि । तदनन्तरं स: तस्मै दुग्धम् अयच्छत् । परन्तु प्रात: काले स: सर्पं निकषां गत्वा दुग्धभाण्डे स्वर्णमुद्रां दृष्ट्वा अतीव प्रसन्नाभवत् । एकदा कृषक: वर्हि: गच्छन् आसीत् । तदा स: स्वपुत्रमवदत् - “अधुना भवान् सर्पाय दुग्धं यच्छतु”। पुत्रोSपि तथैव अकरोत् । यदा प्रात: काले पुत्र: दुग्धभाण्डे स्वर्णमुद्रां पश्यति, तथा स: लुब्ध: अभवत् । स: चिन्तयति यत् एतस्य सर्पस्य विले तु महान् कोष: वर्त्तते । अत: अहं निश्चयेन बहु स्वर्णमुद्रां स्वीकरिष्यामि । अग्रीम दिवसे यदा स: दुग्धदानाय सर्पस्य समीपम् अगच्छत् तथा स: सर्पं दण्डेन ताडितवान् । अतः सर्पस्य क्रोध: जाता: क्रोधेन तेन बालक: दंशित: मृतश्च । अतएव उच्यते-“ अतिलोभ: न कर्त्तव्य: ।