सदस्यः:Harishkumar70
धर्मस्य महत्वम्
ध्रियते लोक अनेन इति धर्मः ; धरति धारयति वा लोकमिति धर्म:| ध्रियते लोकयात्रा जीवामर्थमपि धर्म: धूञ धारणपोषणयोः इत्यस्माद्दाते मन् प्रत्यये कृते धर्मशद्व निष्पद्यते । अस्मिन् संसारे यानि सर्वाणि कार्याणि भवन्ति तस्य मूलकारणं धर्मं एव । तर्हि धर्मं विषये वेदे , पुराणे, धर्मशास्त्रे, उपनिषदषु च वर्णनं दृश्यते । सर्वशास्त्राणां मूलभुतं वेदे प्रतिपादितं यत् धर्मः द्विविधम् इति । श्रौत स्मृतिः च –
“धर्मज्ञै विहितो धर्मः श्रौतस्मर्ति द्विधा द्विजैः ’’
श्रौत धर्मस्य प्रतिपादकः मन्त्रः -
“यज्ञेन यज्ञमययन्त देवास्थानि धर्माणी प्रथमान्यासन्”
धर्मशास्त्रेय़षु वर्णितम् यत् –
देशे काल उपायेन द्रव्यं श्रद्धा समन्नितम् ।
पात्रे प्रदीयते यत सकलं धर्म: लक्षणम् ।।
अर्थात् - वस्तुतः यानि तत्वनि तथा ये सार्वभौम: सिद्धाता: जगतं धारयन्ति एव धर्मः । उपनिषदषु वर्णितं यत् – “ शरीरमाद्यंखलुधर्म-साधनम् ” अर्थात् - मनुष्यः शरीरमाध्येमेन सर्वधर्माणि (कर्तव्यानि) साधयति । नितीश्लोके वर्णितं यत् –
येषां न विद्या न तपो न दानं,
ज्ञानं न शीलं न गुणो न धर्मः।
ते मर्त्यलोके भुविभारभूता,
मनुष्यरूपेण मृगाश्चरन्ति ॥
अर्थात् - यदि मनुष्यस्य पार्शे विद्या , तप , ज्ञान , शिल , गुणः तथा च धर्म नास्ति सः मृगैव जीवति । एवं च सुभाषिते वर्णितं अस्ति यत् –
आहार निद्रा भय मैथुनं च
सामान्यमेतत् पशुभिर्नराणाम् ।
धर्मो हि तेषामधिको विशेष:
धर्मेण हीनाः पशुभिः समानाः ॥
अर्थात् – आहार-निद्रा – भय – मैथुनं च इत्यादिभिः कर्माणि मनुष्येषु पशुषु च समानं इति । परन्तु यदि मनुष्य धर्मं न आचरति तर्हि सः पशुतुल्यं मन्यते ।
हरिसकुमारमिश्र