सामग्री पर जाएँ

सदस्यः:Harsha1104/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

वलसाड (गुजराती: વલસાડ) (आंग्ल: Valsad), ऐतिहासिकरूपेण बलसार इति नाम्ना प्रसिद्धं भारतस्य गुजरातराज्यस्य वलसाडमण्डले स्थितं नगरम्, नगरपालिका च अस्ति । इदं वलसाडमण्डलस्य मण्डलकेन्द्रम् अस्ति । नवसारी-सूरतयोः दक्षिणे वलसाड-नगरम् अस्ति ।

"वलसाड" इति नाम गुजरातीभाषायाः समासात् वड-साल इत्यस्मात् निष्पन्नम् यस्य अर्थः "वटवृक्षैः (वद्) आच्छादितः (सालः)" (अयं क्षेत्रः स्वाभाविकतया वटवृक्षैः समृद्धः आसीत्) ब्रिटिशराजकाले ऐतिहासिकरूपेण "बलसार" इति नाम्ना प्रसिद्धम् आसीत् ।