सामग्री पर जाएँ

सदस्यः:Heera balmiki

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
    औपचारिकशिक्षायां विद्यालयस्य भूमिका

औपचारिकशिक्षायां विद्यालयस्य भूमिका – विद्यालयः शिक्षायाः एका महत्वपूर्णा औपचारिकसंस्था भवति । विद्यालये बालकाः निर्दिष्टसमयस्य व्यवधाने एकस्यां शृङ्खलितंप्रक्रियां शिक्षाग्रहणं कुर्वन्ति । विद्यालयात् बालकाः श्रवण,भाषण,पाठन,लेखन(LSRW) कौशलानां विषये ज्ञानार्जनं कुर्वन्ति । T.P. Nunn विद्यालयः समाजस्य अनुरूपस्थानमिति वर्णयति । शिक्षायाः माध्यमरूपेण विद्यालयस्य भूमिका – 1) एकलघुसमाजरूपे विद्यालयस्य रूपान्तरम् –

  विद्यालये न केवलं पुस्तकस्य अध्ययनं भवति अपितु समाजस्य प्रत्येकं क्रियाकलापव्यवस्थानां नियमानां शिक्षा शिक्षार्थी अधिगच्छति । समाजे अन्यैः सह कथमुत्तमसंपर्कस्थापनं कृत्वा उपयुक्तनागरिकाः भवेयुः इति विषये व्यवहारिकज्ञानं दक्षताश्च शिक्षार्थी विद्यालयात् शिक्ष्यते । 

2) विद्यालयमाध्यमेन आध्यात्मिक एवं नैतिकमानवृद्धिः –

  विद्यालयः बालकानां आध्यात्मिकस्थितेः जनकः भवति । विद्यालयस्य आध्यात्मक वातावरणमनुभूतिः प्रभावश्च बालकस्य आध्यात्मिकस्थितिं प्रभावयतः । बालकानां नैतिकमानवृद्धिः विद्यालये एव सम्भवति । 

3) परिवारेण सह सहयोगस्थापनम् –

  सांस्कृतिक परम्पराणामस्थित्वं,संरक्षणे,तासु संस्कारमानेतुं तथा च भविष्यवंशधरान् प्रति स्थानान्तरणं कर्तुं विद्यालयः उपयुक्तमाध्यमः वर्तते । परिवारेषु बालकाः बहुविधा शिक्षां प्राप्नुवन्ति । अतः विद्यालयम् अधिकसक्रियकरणार्थम् अभिभावक-शिक्षकसङ्घः,गृहपरिदर्शनं,सास्कृतिककार्यक्रमः तथा च प्रगतिपत्रमाध्यमेन विद्यालयपरिवारयोः निविडसंपर्कस्थापनम् अपेक्षितं वर्तते । 

4) समाजेन सह सहयोगस्थापनम् –

  विभिन्न-औपचारिकप्रतिष्ठानेषु विद्यालयः सर्वोत्कृष्टः वर्तते । शिक्षा एका सामाजिकप्रक्रिया भवति । समाजस्य प्रगतेः संरक्षणं केवलं विद्यालय माध्यमेन भवति । विद्यालयः बालकमुन्नतसामाजिकप्राणित्वेन निर्माति । एवं रीपेण विद्यालयः शिक्षायाः औपचारिकशिक्षासाधनरूपेण विद्यमानः भवति ।
"https://sa.wikipedia.org/w/index.php?title=सदस्यः:Heera_balmiki&oldid=443028" इत्यस्माद् प्रतिप्राप्तम्