सदस्यः:Ipsita Dikshit/प्रयोगपृष्ठम्
पञ्चरात्रम् महाकविः भासः (१००ई०पू०) महाकविः भासस्य समय /देशः/जीवन बृतम्-
“यस्यश्चौरश्चिकुरनिकरः कर्णपुरो मयुरः ।
भासो ह्रासः कविकूलगुरुः कालिदासो विलासः” ॥
संस्कृत नाट्यसाहित्ये महाकविः भासः अन्यतमं स्थानं धत्त्ते । भासस्य स्थिति काल विषये पण्डिताः संप्रत्यऽपि न्यैकमत्यं भजन्ते । कअलिदासात् पूर्व भासस्य नाट्य ग्रन्थाः एवाध्य लभ्यन्ते । १)”प्रथित यशसा भास शैमिल्लकविपुत्रादितां” इत्यादिके वाक्ये कालिदास द्वारा महाकविः स्वसम्मानं सस्मार इति कालिदासात् पूर्ववर्ति आसीत् भासः इति निश्चियते । २)केचन भासस्य कालं १०० ई.पू. मानयन्ति । ३)प्रो. वर्णट भासं इसवियस्य सप्मत शताद्बेयां स्तितिं स्वीकरोति । ४)स्टेनकेनो महोदयः विन्टर नित्स भासं इसवियस्य द्वितीयचतुर्थ शताद्बयोरन्तराले स्थितिं स्वीकृतः । ५) केचित् मुदयन समकालिकं मन्यते । परे तु तं विक्रम समकालिन मन्ये तं श्रीहर्ष समकालिनमपि मन्यन्ते । तैः राज शेखरस्य
“कारणम् तु कवित्वस्य न संपन्न कूलिनता ।
धावक्वपि हि यद्भासः कवीनां अग्रिमो अभवत् “॥
६) भासं तु श्रीहर्ष सैव सभाकवि वाणभट्टः ।
“सुत्रधारकृतारमभैनाटकैर्वहुभूमिकैः
सपताकैर्यशो लेभे भासो देवकूलैरिव” ॥
७) समुद्रगुप्तो हि स्वकिये कृष्णचरिते मुनिकविवर्ण प्रसंगे भासं स्मरति । भासस्य अग्निवर्णसभाकवित्वं सिद्ध्यति इति ।वस्तुतस्तु भासो हि उदयन सभाकविरिति कपिलदेवस्य मतमेव युक्ति युक्तं दृश्यते । उदयनो हि बृद्धसमकालिकः तदा हि मगधेषु अजादशत्रोः पुत्रस्य दर्शनस्य शासनासीत्। केचित दर्शकं विम्बसार जेष्ठपुत्रमपि मन्यन्ते । कौटिल्यो हि चन्द्रगुप्तस्य विदुसारस्य प्रधानमात्यः तेन हि कौटिल्यस्य समय ३००-२१५ मितविक्रम पूर्वकालात् अन्तराले अनुमितः । चन्द्रगुप्तस्य समयः २७२-२४१ वि०पू० विदुसारस्य समयः २४१-२१६ वि०पू० मन्यन्ते । एभिः कारणै भासस्य प्रचिनता सिद्धा भवति । सा च प्रचिनता कालिदासात् अपि प्राचिनमितं साधयन्ति । १०० ई०पू० मितं कालः भासस्य वोधयति । भासस्य भाषितभाषाप्रयोगः भाषासौष्ठवं, सरला किन्तु सरसा शैलि रस परिपाकस्य शब्दाडम्बरशून्यता कथाप्रवाहश्च सर्वे संभूय तं हि पण्डितयुगान्नितान्तान्तपूर्ववर्तिनं सूचयति ।
भासनाटकचक्रेऽन्यतममिदं रुपकम् । अत्र त्रयोऽङ्कारसन्ति । महाभारते विराटपर्वास्येतिवृत्तम् । पाण्डवा द्वादशवर्षान् वनवासमेकवर्षमज्ञातवास विधातुं गच्छन्ति । ते तत्राज्ञातवासं विराटराजेधान्यां विदधति । अस्मिन् समये दुयोधन एकं यज्ञं प्रारभते । यज्ञ: निर्बिध्नं समाप्तिमेति । दुयोधने: द्रोणाय दक्षिणां दातुमभिलषति । द्रोणस्तु राज्यस्याध भागं पाण्डवेभ्यो दानं गुरुदक्षिणारुपेण पृच्छति।दुर्योधन-शकुनिकर्नप्रभतयो ननुमन्यन्ते। अन्ते दुर्योधनोक्तिः पञ्चभिर्दिनैः पाण्डवानां पदवि ज्ञायते चेतेभ्यो राज्यर्धं दीयत इति। तदाह शकुनि दुर्योधनेन प्रेरितः यदि पञ्चरात्रेण पाण्डवानां प्रवृतिरूपनेतव्या राज्यस्यार्धं प्रदास्यति, इति।विराटनगरात् प्रेवितः दुर्योधनेन दूत आगच्छति स आगत्य वदति विराटराजः यज्ञंप्रति नागछत् तत्र कारणं केमापि पुरुषेण विरटराजबन्धवाः कीचक उपकीचकाश्च मारीताः। तदा भीष्मोक्ति भीमेन ते मारीत इति ।विरातरजःयज्ञे भागं नाग्रहिदिति रोषीण तस्य गोधनमपहर्तुं दुर्योधन प्रभृतयो वाञ्छन्ति।
विराटराजस्य गवां निवासभुमिः । वद्ध गोपालः अन्यैः गोपालकैस्सह वार्तालापं करोति । तस्मिन् दिवसे विराटस्य जन्मदिनम |गोपालका आनन्देन गान –नृत्तादिकं कृर्वत्सु कौरवाःगाः हर्तृं प्रयासं विदधते ।भटा अमुं वृत्तान्तं राज्ञे विज्ञापयन्ति । राजपुत्र उत्तरःसारथिबृहन्नलारुपी अर्जुनस्य-रणक्षत्रं गच्छतः । वृहत्रलायाः सारथित्वे विराटराजः सन्दिग्धो भवति । भगवान् समाश्र्वासयति । उत्तरः वृहन्नलायाः सहायेन शत्रून् जित्वा गोधनं स्वीकृत्य समागच्छति । विराटराजः वृहन्नलामाहूय यूद्धवृतान्तं पृच्छति । तस्मिन् समये भीमसेननोऽभिमन्युश्च तत्रगच्छतः । उत्तरः आगत्य वदति वृहन्नलाद्वारा युद्धे विजयो जात इति अर्जुनो वदति वयं पाण्डवा अज्ञातवासरसमाप्त इदानीमिति । विरट उत्तरामर्जुनाय प्रदानुभिलषति ।
कौरवसभा वर्तते । कास्ग्चित् सूत आगत्य वदति यत्केनचित् अभिमन्युः अपहृतः अन्येन रक्षित इति ।तदानीं भीष्मो वक्ति रक्षिता रक्षकः पुरुषः भिम इति। शकुनिः भिष्माय क्रृध्यति पाण्डवपक्षपाती । तस्मिन् समये दूतरुपेणोतर आगत्योतरास्वयंवरे कौरवान् निमन्त्रयति ।द्रोणः प्रतिज्ञावृतान्तं दूयोधनाय सूचयति । दूर्योधनः राज्यस्यार्धभागं पाण्डवाय दत्वागुरुदक्षिणां द्रोणाय ददाति ।
इतिवृत्तान्महाभारताद्बहु परिवर्तनं पञ्चरात्रे वर्तते ।पञ्चरात्रान्ताभ्यन्तरे ज्ञातञ्चेत् राज्यं दास्यमीति प्रतिज्ञा, विराटराजः युद्धाय न गच्छति,इत्यादिरुपेण । अस्मिन् रुपके नायकः दृर्योधनः अङ्गी रस वीरः। अङ्गरसः भक्तिः।