सदस्यः:Jaiprakash Shikha Shastri
- ॥ ओ३म् /|
योगस्याधारो वेदः
योगे योगे तवस्तरं वाजे वाजे हवामहे।
सखाय इन्द्र मूतये।। (वेद)
सुविदितमेव तत्र भवतां ज्ञानोपासनमहाव्रतानां विपश्चिदपश्चिमानां यदखिलेऽपि ब्रह्माण्डे ज्ञानविज्ञानस्य येऽपि क्रियाकलापाः दृश्यन्ते या अपि किल प्रवृत्तयः प्रसरन्ति तत्र सर्वत्र शकलज्ञानविज्ञानस्याधारभूता भगवती श्रुतिरेव हेतुत्वेनावगम्यते।
उक्तञ्च भगवता व्यासेन महाभारते-
अनादिनिधना नित्या वागुत्सृष्टा स्वयम्भुवा।
आदौ वेदमयी दिव्या यतः सर्वाः प्रवृत्तयः।।
सर्गारम्भे मानवसृष्टेः समकालमेव समस्त जागतिकव्यवहारसिद्धये परमकारुणिकेन परमेश्वरेण स्वकीयामृतकल्पेभ्यः प्रियपुत्रेभ्यो मानवेभ्यो वेदस्य पवित्रज्ञानं सदयं प्रणोदितम्। तच्च प्रथमं तावदग्रजन्मनामुग्रत-पस्तपश्यतां पूतचेतषामृषीणां सदयहृदय परलेष्वुदयमाससाद। यथा खलु व्याहरति भगवती-श्रुतिः।
उपह्वरे गिरीणां सङ्गमे च नदीनाम्। धिया विप्रोऽजायत।। ऋग्- 8/6/28।।
अपि च -
यज्ञेन वाचः पदवीयमायन्तामन्वविन्दन्नृषिषु प्रविष्टाम्।
तामाभृत्या व्यदधुः पुरुत्रा तां सप्तरेभा अभिसन्नवन्ते।। (ऋ. 10/71/3)
अनेन सुतरां सिद्ध्यतितरां सर्वासामपि परामपरामुभयविधां श्रेणीमभाजतामनवद्यानां खलु विद्यानामधिगमनस्थानं वेद एव।
तदत्र वेदे योगस्य किं स्वरूपम्? कथं वा तस्य महिम्ना विमण्डितो भगवान् वेद पुरुषः? प्रणिभालयामस्तावत्। अथ कोऽयं योगो नाम? योगो हि दिवादौ पठितादत्मनेपदिनः समाध्यर्थकाद् ‘‘युज’’ धातोः निष्पद्यते। यद्यपि ‘युजिर्-योगे’ ‘युज् संयमने’ धातुभ्यामपि सिद्ध्यति। परन्तु समाध्यर्थकादितर योगशब्दो हि योगदर्शन कर्त्तुः महर्षेः पतञ्जलेराशयस्य नानुकूलः। योगस्य स्वरूपं विवृण्वता ऋषिणोक्तम्-‘‘योगश्चित्तवृत्तिनिरोधः’’ चित्तवृत्तिनिरोधः एव योगः समाधिरिति। वेदेष्वपि योगपदेन समाधिरेवाभि-व्यज्यते। योगविषयगताः मन्त्रस्तु वेदेषु बहुलीभवन्तो दृष्टिसरणिमायान्ति। परन्तु सामवेदे भूयासो योगसरणिनिर्देशपरा आध्यात्मिकोपदेशेन निर्देशकाश्च मन्त्रा उपासकानामुपासना पद्धतिं अजिह्मा राजपद्धतिमिव नवरसरुचिरां सरसाञ्च विदधानाः विलसन्ति। स्थालीपुलाकन्यायेन केचन मन्त्राः अत्रोपस्थाप्यन्ते येषु मन्त्रेषु योगस्य स्वरूपं विवृणुते ऋषिः -
अग्निमिन्धानो मनसा धिया सचेत मर्त्यः।
अग्निमिन्धे विवश्वभिः।। (साम. द. 2 म.9)
विवस्वभिः ज्ञानप्रकाशहेतुभिर्ध्यानधारणासमाधिभिः परमेश्वरमिन्धान उपासित अत्रैतदवधेयं तावत् विचारवद्भिर्विद्वद्भिः यत् योगः, समाधिः, एकाग्रता चेमे समानमेवार्थं द्योतयन्ति। अतः लौकिकीं वा पारलौकिकीं वा यां कामपि सिद्धिं वाञ्छता जनेन योगयुक्तेन नूनं भाव्यम्। यदि केनापि जनेनेह जगति व्यावहारिकेषु वा पारमार्थिकेषु कार्यकलापेषु सफलतायाः पराकाष्ठा प्रादर्शि, तत्तर्हि एकाग्रता बलेनैव सम्बोभावीति। अत एव तु ऋग्वेदस्यर्षिः कथयति-
यस्मात् ऋते न सिद्ध्यति यज्ञो विपश्चितश्चन।
सधीनां यागमिन्वति।। (ऋग्- 1/18/7)
अपि च-
सघानो योग आभुवत् स राये स पुरन्ध्याम्।
गमद् वाजेभिरा सनः ।। (ऋग्. 1/5/3)
स परमात्मास्मद् समाधिहेतु वाजेभिः धनबल सामर्थ्य विशेषैरभिमुखी भूयात्। ततो योगयुक्तानां योगिनां सेवायै त्वणिमादिसिद्धिनिकराश्चरणसेविकेवांजलिविनिबद्धकराः प्रतिपलमाज्ञामातिष्ठन्ते। चित्तवृत्तिनिरोधे सति द्रष्टुः जीवात्मनः, परमात्मनः स्वरूपेऽवस्थितिर्भवति। तदा जीवः क्लेशपाशात् विमुच्यानन्दसागरे निमज्ज्यमानो विहरति। अत एव तु सडिण्डिमघोषं जुघोषयति ‘यजुषः ऋषिः’
तमेव विदित्वाति मृत्युमेति नान्यः पन्थाः विद्यतेऽयनाय। (यजु- 31/12)
संस्कृत साहित्ये योग शब्दः विभिन्नेष्वर्थेषु प्रयुज्यते। ऋग्वेदे प्रोक्तं यत्
योगादृते विदुषां यज्ञकर्माणि न सिद्ध्यन्ति। (ऋग्- 1/18/07)
आधुनिकविचारकाः यथा हिरियन्ना, डॉ. राधा कृष्णन् महोदयेन चित्तवृत्तीनां निरोधः एवं आत्मापरमात्मनः मेलनं समर्थयति। डॉ. बी. जी. रेलयानुसारं योगः सा विद्यास्ति, यया मनुष्यस्यान्तः करणं एवं विधं निर्मते यत् स उच्चस्फुरनान् प्रत्यग्रसरन् असीमचेतनाव्यापारमाप्नोति। ब्राह्मणग्रन्थेषु योगः स उच्यते यः कर्मकाण्डप्रधानवाह्यजगतः पृथग्भूय शरीरमाकर्षति। यस्मिन्चिन्तनस्य दृष्टिः बहिर्मुखेन अन्तर्मुखी स्यात्, स योग उच्यते। ब्रह्मज्ञानस्य मुख्यं साधनं तपः उच्यते। (तपसा ब्रह्म विजिज्ञासस्व) तै. आ. 9/2/1
अतः मनोयोगेन स परमात्मा प्राप्तुं शक्यते।
(मनो ह वाव तपः। ऐ. ब्रा. 3/6 गो.ब्रा. 2/3/2)
पतञ्जलिना योगदर्शने अनेकयुपायाः विज्ञप्ताः, तस्मिन्प्रारम्भिक साधकानां कृते अष्टांगयोगो निदर्शितः।
यमनियमासनप्राणायामप्रत्याहारधारणाध्यानसमाधयोऽष्टावंगानि। (योगदर्शन 2/29)
योगांगानुष्ठानादशुद्धिक्षये ज्ञानदीप्तिराविवेकख्यातेः। (योग. द. 2/28)
प्रथम-सोपानम् -
अहिंसासत्यस्तेयब्रह्मचर्यापरिग्रहाः यमाः।
द्वितीय-सोपानम्-
शौचसन्तोषतपः स्वाध्यायेश्वरप्रणिधानानि नियमाः।
तृतीय-सोपानम्-
स्थिरसुखमासनम्।
चतुर्थ-सोपानम् -तस्मिन् सति श्वासप्रश्वासयोर्गतिविच्छेदः प्राणायामः।
प्राणायामः त्रिविधः- आभ्यान्तर, बाह्य, स्तम्भ।
बाह्यभ्यन्तरस्तम्भवृत्तिर्देशकालसंख्याभिःपरिदृष्टो दीर्घसूक्ष्मः।
पंचम-सोपान-
स्वविषयासम्प्रयोगे चित्तस्वरूपानुकार इवेन्द्रियाणां प्रत्याहारः।
षष्ठ-सोपान-
देशबन्धश्चित्तस्य धारणा।
सप्तम-सोपान-
तत्र प्रत्ययैकतानता ध्यानम्।
अष्टम-सोपान-
तदेवार्थमात्रनिर्भासं स्वरूपशून्यमिव समाधिः।
अष्टांगयोगमाध्यमेन परमेश्वरं भजन्तं कीर्तयन्तं परमात्मना सार्धं एकीभूय कैवल्य मोक्षस्य प्राप्तिः योगस्यान्तिमः परिणामोऽस्ति। एवं विधमखिले वैदिकवाङ्मये योगस्य महिमया एवं तस्य साधनप्रक्रियया व्याप्तोऽस्ति। अत एव समाजं यदि वेदानां दार्शनिक सिद्धान्तानां प्रचारः करणीयोऽस्ति, वैदिकसत्यतां विश्वे मूर्तिमन्तन्दर्शनीयमस्ति चेत्पूर्णं ध्यानयोगं साधनां प्रति योक्तव्यं भविष्यति। योगाङ्गानां प्रत्येकस्मिन् गृहे प्रचारः करणीयो भविष्यति। यम-नियमादिसाधनाभिर्रहितं समाजस्य कृते शोभनीयः वस्तु नास्ति। यः प्रचारकः यम-नियमानामग्नौ भूत्वा न व्यतीतः, स कथं विश्वे आर्यत्वं प्रसारयिष्यति?
अत एव-
ज्ञाननिष्ठो विरक्तो वा धर्मज्ञोऽपि जितेन्द्रियः।
विना योगेन देवोऽपि न मोक्षं लभते प्रिये!।।
योगेन रक्ष्यते धर्मो विद्या योगेन रक्ष्यते।
।। इति शम् ।।