सामग्री पर जाएँ

सदस्यः:Jani nilesh/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

चन्द्रालोकः

श्रीः

पीयूषवर्षश्रीजयदेवकविकृतः चन्द्रालोकः



उच्चैरस्यति मन्दतामरसतां जाग्रत्कलङ्कैरव-ध्वंसं हस्तयते च या सुमनसां उल्लासिनी मानसे । धृष्टोद्यन्मदनाशनार्चिरमला लोकत्रयीदर्शिका सा नेत्रत्रितयीव खण्डपरशोर्वाग्देवता दीव्यतु । । १.१ । ।


हं हो चिन्मयचित्तचन्द्रमणयः संवर्धयध्वं रसान्रे रे स्वैरिणि निर्विचारकविते मास्मत्प्रकाशीभव । उल्लासाय विचारवीचिनिचयालङ्कारवारां निधेश्चन्द्रालोकमयं स्वयं वितनुते पीयूषवर्षः कृती । । १.२ । ।


युक्त्यास्वाद्यलसद्रसैकवसतिः साहित्यसारस्वत-क्षीराम्भोधिरगाधतां उपदधत्सेव्यः समाश्रीयताम् । श्रीरस्मादुपदेशकौशलमयं पीयूषं अस्माज्जगज्जाग्रद्भासुरपद्मकेशरयशःशीतांशुरस्माद्बुधाः । । १.३ । ।

तं पूर्वाचार्यसूर्योक्ति-ज्योतिः स्तोमोद्गमं स्तुमः । यं प्रस्तूय प्रकाशन्ते मद्गुणास्त्रसरेणवः । । १.४ । ।


नाशङ्कनीयं एतेषां मतं एतेन दूष्यते । किं तु चक्षुर्मृगाक्षीणां कज्जलेनेव भूष्यते । । १.५ । ।

प्रतिभैव श्रुताभ्यास-सहिता कवितां प्रति । हेतुर्मृदम्बुसम्बद्धा बीजमाला लतामिव । । १.६ । ।

निर्दोषा लक्षणवती सरीतिर्गुणभूषणा । सालंकाररसानेक-वृत्तिर्वाक्काव्यनामभाक् । । १.७ । ।

अङ्गीकरोति यः काव्यं शब्दार्थावनलंकृती । असौ न मन्यते कस्मादनुष्णं अनलं कृती । । १.८ । ।

विभक्त्युत्पत्तये योग्यः शास्त्रीयः शब्द इष्यते । रूढयौगिकतन्मिश्रैः प्रभेदैः स पुनस्त्रिधा । । १.९ । ।

अव्यक्तयोगनिर्योग-योगाभासैस्त्रिधादिमः । ते च वृक्षादिभूवादि-मण्डपाद्या यथाक्रमम् । । १.१० । ।

शुद्धतन्मूलसंभिन्न-प्रभेदैर्यौगिकस्त्रिधा । ते च भ्रान्तिस्फुरत्कान्ति-कौन्तेयादिस्वरूपिणः । । १.११ । ।

तन्मिश्रोऽन्योन्यसामान्य-विशेषपरिवर्तनात् । नीरधिः पङ्कजं सौधः सागरो भूरुहः शशी । । १.१२ । ।

क्षीरनीरधिराकाश-पङ्कजं तेन सिद्धयति । विभक्त्यन्तं पदं वाक्यं तद्व्यूहोऽर्थसमाप्तितः । । १.१३ । ।

युक्तार्थतां तां च विना खण्डवाक्यं स इष्यते । वाक्यं च खण्डवाक्यं च पदं एकं अपि क्वचित् । । १.१४ । ।

धूमवत्त्वादिति यथा देवेत्यामन्त्रणं यथा । वाक्यान्येकार्थविश्रान्तान्याहुर्वाक्यकदम्बकम् । । १.१५ । ।

महादेवः सत्रप्रमुखमखविद्यैकचतुरः सुमित्रा तद्भक्तिप्रणिहितमतिर्यस्य पितरौ । अनेनासावाद्यः सुकविजयदेवेन रचिते चिरं चन्द्रालोके सुखयतु मयूखः सुमनसः । । १.१६ । ।


स्याच्चेतो विशता येन सक्षता रमणीयता । शब्देऽर्थे च कृतोन्मेषं दोषं उद्घोषयन्ति तम् । । २.१ । ।

भवेच्छ्रुतिकटुर्वर्णः श्रवणोद्वेजने पटुः । संविद्रते व्याकरण-विरुद्धं च्युतसंस्कृति । । २.२ । ।

अप्रयुक्तं दैवतादि-शब्दे पुंल्लिङ्गतादिकम् । असमर्थं तु हन्त्यादेः प्रयोगो गमनादिषु । । २.३ । ।

स हन्ति हन्त कान्तारे कान्तः कुटिलकुन्तलः । निहतार्थं लोहितादौ शोणितादिप्रयोगतः । । २.४ । ।

व्यनक्त्यनुचितार्थं यत्पदं आहुस्तदेव तत् । इयं अद्भुतशाख्यग्र-केलिकौतुकवानरी । । २.५ । ।

निरर्थकं तुहीत्यादि पूरणैकप्रयोजनम् । अर्थे विदधदित्यादौ दधदाद्यं अवाचकम् । । २.६ । ।

धत्ते नभस्तलं भास्वानरुणं तरुणैः करैः । एकाक्षरं विना भूभ्रू-क्ष्मादिकं खतलादिवत् । । २.७ । ।

अश्लीलं त्रिविधं व्रीडा-जुगुप्सामङ्गलात्मना । आह्लादसाधनं वायुः कान्तानाशे भवेत्कथम् । । २.८ । ।

स्याद्द्व्यर्थं इह सन्दिग्धं नद्यां यान्ति पतत्रिणः । स्यादप्रतीतं शास्त्रैक-गम्यं वीतानुमादिवत् । । २.९ । ।

शिथिलं शयने लिल्ये मच्चितं ते शशिश्रियि । मस्तपिष्टकटीलोष्ट-गल्लादि ग्राम्यं उच्यते । । २.१० । ।

नेयार्थं लक्षणात्यन्त-प्रसरादमनोहरम् । हिमांशोर्हारधिक्कार-जागरे यामिकाः कराः । । २.११ । ।

क्लिष्टं अर्थो यदीयोऽर्थ-श्रेणिनिःश्रेणिं ऋच्छति । हरिप्रियापितृवधू-प्रवाहप्रतिमं वचः । । २.१२ । । अविमृष्टविधेयांशः समासपिहिते विधौ । विशन्ति विशिखप्रायाः कटाक्षाः कामिनां हृदि । । २.१३ । ।

अपराधीन इत्यादि विरुद्धमतिकृन्मतम् । अन्यसङ्गतं उत्तुङ्ग-हारशोभिपयोधरौ । । २.१४ । ।

रसाद्यनुचिते वर्णे प्रतिकूलाक्षरं विदुः । न मां अङ्गद जानासि रावणं रणदारुणम् । । २.१५ । ।

यस्मिन्नुपहतो लुप्तो विसर्ग इह तत्तथा । कुसन्धिः पटवागच्छ विसन्धिर्नृपती इमौ । । २.१६ । ।

हतवृत्तं अनुक्तोऽपि छन्दोदोषश्चकास्ति चेत् । विशाललोचने! पश्याम्बरं तारातरङ्गितम् । । २.१७ । ।

न्यूनं त्वत्खड्गसंभूत-यशःपुष्पं नभस्तटम् । अधिकं भवतः शत्रून्दशत्यसिलताफणी । । २.१८ । ।

कथितं पुनरुक्ता वाक्श्यामाब्जश्यामलोचना । विकृतं दूरविवृतैरैयरुः कुञ्जराः पुरम् । । २.१९ । ।

पतत्प्रकर्षं हीनानु-प्रासादित्वे यथोत्तरम् । गम्भीरारम्भदम्भोलि-पाणिरेषः समागतः । । २.२० । ।

समाप्तपुनरात्तं स्यादेष पीयूषभाजनम् । नेत्रानन्दी तुषारांशुरुदेत्यम्बुधिबान्धवः । । २.२१ । ।

अर्धान्तरपदापेक्षि क्रीडानृत्येषु सस्मितम् । मोघारम्भं स्तुमः शम्भुं अर्धरम्भोरुविग्रहम् । । २.२२ । ।

अभवन्मतयोगः स्यान्न चेदभिमतोऽन्वयः । येन बद्धोऽम्बुधिर्यस्य रामस्यानुचरा वयम् । । २.२३ । ।

द्विषां सम्पदं आच्छिद्य यः शत्रून्समपूरयत् । अस्थानस्थसमासं न विद्वज्जनमनोरमम् । । २.२४ । ।

मिथः पृथग्वाक्यपदैः संकीर्णं यत्तदेव तत् । वक्त्रेण भ्राजते रात्रिः कान्ता चन्द्रेण राजते । । २.२५ । । ब्रह्माण्डं त्वद्यशःपूर-गर्भितं भूमिभूषण । आकर्णय पयःपूर्ण-सुवर्णकलशायते । । २.२६ । ।

भग्नप्रक्रमं आरब्ध-शब्दनिर्वाहहीनता । अक्रमः कृष्ण पूज्यन्ते त्वां अनभ्यर्च्य देवताः । । २.२७ । ।

अमतार्थान्तरं मुख्येऽमुख्येनार्थे विरोधकृत् । त्यक्तहारं उरःकृत्वा शोकेनालिङ्गिताङ्गना । । २.२८ । ।

अपुष्टार्थो विशेष्ये चेन्न विशेषो विशेषणात् । विशन्ति हृदयं कान्ता-कटाक्षाः खञ्जनत्विषः । । २.२९ । ।

कष्टः स्पष्टावबोधार्थं अक्षमो वाच्यसन्निभः । व्याहतश्चेद्विरोधः स्यान्मिथः पूर्वापरार्थयोः । । २.३० । ।

सहस्रपत्रमित्रं ते वक्त्रं केनोपमीयते । कुतस्तत्रोपमा यत्र पुनरुक्तः सुधाकरः । । २.३१ । ।

दुष्क्रमग्राम्यसन्दिग्धास्त्रयो दोषाः क्रमादमी । त्वद्भक्तः कृष्ण! गच्छेयं नरकं स्वर्गं एव वा । । २.३२ । ।

एकं मे चुम्बनं देहि तव दास्यामि कञ्चुकम् । ब्रूत किं सेव्यतां चन्द्र-मुखीचन्द्रकिरीटयोः । । २.३३ । ।

अनौचित्यं कीर्तिलतां तरङ्गयति यः सदा । प्रसिद्ध्या विद्यया वापि विरुद्धं द्विविधं मतम् । । २.३४ । ।

न्यस्तेयं पश्य कन्दर्प-प्रतापधवलद्युतिः । केतकी शेखरे शम्भोर्धत्ते चन्द्रकलातुलाम् । । २.३५ । ।

सामान्यपरिवृत्तिः स्यात्कुण्डलच्छविविग्रहा । विशेषपरिवृत्तिः स्याद्वनिता मम चेतसि । । २.३६ । ।

तथा सहचराचारु-विरुद्धान्योन्यसंगती । ध्वाङ्क्षाः सन्तश्च तनयं स्वं परं च न जानते । । २.३७ । ।

सरोजनेत्र पुत्रस्य मुखेन्दुं अवलोकय । पालयिष्यति ते गोत्रं असौ नरपुरन्दरः । । २.३८ । । पदे तदंशे वाक्यांशे वाक्ये वाक्यकदम्बके । यथानुसारं अभ्यूहेद्दोषान्शब्दार्थसंभवान् । । २.३९ । ।

दोषं आपतितं स्वान्ते प्रसरन्तं विशृङ्खलम् । निवारयति यस्त्रेधा दोषाङ्कुशं उशन्ति तम् । । २.४० । ।

दोषे गुणत्वं तनुते दोषत्वं वा निरस्यति । भवन्तं अथवा दोषं नयत्यत्याज्यतामसौ । । २.४१ । ।

मुखं चन्द्रश्रियं धत्ते श्वेतश्मश्रुकराङ्कुरैः । अत्र हास्यरसोद्देशे ग्राम्यत्वं गुणतां गतम् । । २.४२ । ।

तव दुग्धाब्धिसंभूतेः कथं जाता कलाङ्किता । कवीनां समयाद्विद्या-विरुद्धोऽदोषतां गतः । । २.४३ । ।

दधार गौरी हृदये देवं हिमकराङ्कितम् । अत्र श्लेषोदयान्नैव त्याज्यं हीति निरर्थकम् । । २.४४ । ।

महादेवः सत्रप्रमुखमखविद्यैकचतुरः सुमित्रा तद्भक्तिप्रणिहितमतिर्यस्य पितरौ । द्वितीयस्तेनासौ सुकविजयदेवेन रचिते चिरं चन्द्रालोके सुखयतु मयूखः सुमनसः । । २.४५ । ।



अल्पाक्षरा विचित्रार्थ-ख्यातिरक्षरसंहतिः । उषाकान्तेनानुगतः शूरः शौरिरयं पुनः । । ३.१ । ।

शोभा ख्यातापि यद्दोषो गुणकीर्त्या निषिध्यते । मुधा निन्दन्ति संसारं कंसारिर्यत्र पूज्यते । । ३.२ । ।

अभिमानो विचारश्चेदूहितार्थनिषेधकृत् । इन्दुर्यदि कथं तीव्रः सूर्यो यदि कथं निशि । । ३.३ । ।

हेतुस्त्यक्त्वा बहून्पक्षान्युक्त्यैकस्यावधारणम् । नेन्दुर्नार्कोऽयं और्वाग्निः सागरादुत्थितो दहन् । । ३.४ । ।

प्रतिषेधः प्रसिद्धानां कारणानां अनादरः । न युद्धेन भ्रुवोः स्पन्देनैव वीरा निपातिताः । । ३.५ । । निरुक्तं स्यान्निर्वचनं नाम्नः सत्यं तथानृतम् । ईदृशैश्चरितै राजन्सत्यं दोषाकरो भवान् । । ३.६ । ।

स्यान्मिथ्याध्यवसायश्चेदसती साध्यसाधने । चन्द्रांशुसूत्रग्रथितां नभःपुष्पस्रजं वह । । ३.७ । ।

सिद्धिः ख्यातेषु चेन्नाम कीर्त्यते तुल्यतोक्तये । युवां एवेह विख्यातौ त्वं बलैर्जलधिर्जलैः । । ३.८ । ।

युक्तिर्विशेषसिद्धिश्चेद्विचित्रार्थान्तरान्वयात् । नवस्त्वं नीरदः कोऽपि स्वर्णैर्वर्षसि यन्मुहुः । । ३.९ । ।

कार्यं फलोपलम्भश्चेद्व्यापाराद्वस्तुतोऽथ वा । असावुदेति शीतांशुर्मानच्छेदाय सुभ्रुवाम् । । ३.१० । ।

इत्यादि लक्षणं भूरि काव्यस्याहुर्महर्षयः । स्वर्णभ्राजिष्णुभालत्व-प्रभृतीव महीभुजः । । ३.११ । ।

महादेवः सत्रप्रमुखमखविद्यैकचतुरः सुमित्रा तद्भक्तिप्रणिहितमतिर्यस्य पितरौ । तृतीयस्तेनासौ सुकविजयदेवेन रचिते चिरं चन्द्रालोके सुखयतु मयूखः सुमनसः । । ३.१२ । ।


श्लेषो विघटमानार्थ-घटमानत्ववर्णनम् । स तु शाब्दः सजातीयैः शब्दैर्बन्धः सुखावहः । । ४.१ । ।

उल्लसत्तनुतां नीतेऽनन्ते पुलककण्टकैः । भीतया मानवत्यैव श्रियाश्लिष्टं हरिं स्तुमः । । ४.२ । ।

यस्मादन्तःस्थितः सर्वः स्वयं अर्थोऽवभासते । सलिलस्येव सूक्तस्य स प्रसाद इति स्मृतः । । ४.३ । ।

समताल्पसमासत्वं वर्णाद्यैस्तुल्यताथ वा । श्यामला कोमला बाला रमणं शरणं गता । । ४.४ । ।

समाधिरर्थमहिमा लसद्घनरसात्मना । स्यादन्तर्विशता येन गात्रमङ्कुरितं सताम् । । ४.५ । ।

माधुर्यं पुनरुक्तस्य वैचित्र्यं चारुतावहम् । वयस्य पश्य पश्यास्याश्चञ्चलं लोचनाञ्चलम् । । ४.६ । ।

ओजः स्यात्प्रौढिरर्थस्य संक्षेपो वातिभूयसः । रिपुं हत्वा यशः कृत्वा त्वदसिः कोशं आविशत् । । ४.७ । ।

सौकुमार्यं अपारुष्यं पर्यायपरिवर्तनात् । स कथाशेषतां यातः समालिङ्ग्य मरुत्सखम् । । ४.८ । ।

उदारता तु वैदग्ध्यं अग्राम्यत्वात्पृथङ्मता । मानं मुञ्च प्रिये किंचिल्लोचनान्तं उदञ्चय । । ४.९ । ।

शृङ्गारे च प्रसादे च कान्त्यर्थव्यक्तिसंग्रहः । अमी दश गुणाः काव्ये पुंसि शौर्यादयो यथा । । ४.१० । ।

तिलकाद्यं इव स्त्रीणां विदग्धहृदयङ्गमम् । व्यतिरिक्तं अलङ्कारं प्रकृतेर्भूषणं गिराम् । । ४.११ । ।

विचित्रलक्षणो न्यासो निर्वाहः प्रौढिरौचिती । शास्त्रान्तररहस्योक्तिः संग्रहो दिक्प्रदर्शिता । । ४.१२ । ।

महादेवः सत्रप्रमुखमखविद्यैकचतुरः सुमित्रा तद्भक्तिप्रणिहितमतिर्यस्य पितरौ । चतुर्थस्तेनासौ सुकविजयदेवेन रचिते चिरं चन्द्रालोके सुखयतु मयूखः सुमनसः । । ४.१३ । ।


शब्दार्थयोः प्रसिद्ध्या वा कवेः प्रौढिवशेन वा । हारादिवदलङ्कारः सन्निवेशो मनोहरः । । ५.१ । ।

स्वरव्यञ्जनसंदोह-व्यूहामन्दोहदोहदा । गौर्जगज्जाग्रदुत्सेका छेकानुप्रासभासुरा । । ५.२ । ।

आवृत्तवर्णसम्पूर्णं वृत्त्यनुप्रासवद्वचः । अमन्दानन्दसन्दोह-स्वच्छन्दास्पदमन्दिरम् । । ५.३ । ।

लाटानुप्रासभूर्भिन्नाभिप्राया पुनरुक्तता । यत्र स्यान्न पुनः शत्रोर्गर्जितं तज्जितं जितम् । । ५.४ । ।

श्लोकस्यार्धे तदर्धे वा वर्णावृत्तिर्यदि ध्रुवा । तदा मता मतिमतां स्फुटानुप्रासता सताम् । । ५.५ । ।

उपमेयोपमानादावर्थानुप्रास इष्यते । चन्दनं खलु गोविन्द-चरणद्वन्द्ववन्दनम् । । ५.६ । ।

पुनरुक्तप्रतीकाशं पुनरुक्तार्थसन्निभम् । अंशुकान्तं शशी कुर्वन्नम्बरान्तं उपैत्यसौ । । ५.७ । ।

आवृत्तवर्णस्तबकं स्तवकन्दाङ्कुरं कवेः । यमकं प्रथमा धुर्य-माधुर्यवचसो विदुः । । ५.८ । ।

काव्यवित्प्रवरैश्चित्रं खड्गबन्धादि लक्ष्यते । तेष्वाद्यं उच्यते श्लोक-द्वयीसज्जनरञ्जिका । । ५.९ । ।

कामिनीव भवेत्खड्ग-लेखा चारुकरालिका । काश्मीरसेका रक्ताङ्गी शत्रुकण्ठान्तिकाश्रिता । । ५.१० । ।

उपमा यत्र सादृश्य-लक्ष्मीरुल्लसति द्वयोः । हृदये खेलतोरुच्चैस्तन्वङ्गीस्तनयोरिव । । ५.११ । ।

उपमानोपमेयत्वे यत्रैकस्यैव जागृतः । इन्दुरिन्दुरिवेत्यादौ भवेदेवं अनन्वयः । । ५.१२ । ।

पर्यायेण द्वयोस्तच्चेदुपमेयोपमा मता । धर्मोऽर्थ इव पूर्णश्रीरर्थो धर्म इव त्वयि । । ५.१३ । ।

विख्यातस्योपमानस्य यत्र स्यादुपमेयता । इन्दुर्मुखं इवेत्यादौ स्यात्प्रतीपोपमा तदा । । ५.१४ । ।

उपमाने तु लीलादि-पदाढ्ये ललितोपमा । त्वन्नेत्रयुगलं धत्ते लीलां नीलाम्बुजन्मनोः । । ५.१५ । ।

अनेकस्यार्थयुग्मस्य सादृश्यं स्तबकोपमा । श्रितोऽस्मि चरणौ विष्णोर्भृङ्गस्तामरसं यथा । । ५.१६ । ।

स्यात्संपूर्णोपमा यत्र द्वयोरपि विधेयता । पद्मानीव विनिद्राणि नेत्राण्यासन्नहर्मुखे । । ५.१७ । । यत्रोपमानचित्रेण सर्वथाप्युपरज्यते । उपमेयमयी भित्तिस्तत्र रूपकं इष्यते । । ५.१८ । ।

समानधर्मयुक्साध्या-रोपात्सोपाधिरूपकम् । उत्सिक्तक्षितिभृल्लक्ष्य-पक्षच्छेदपुरन्दरः । । ५.१९ । ।

पृथक्कथितसादृश्यं दृश्यं सादृश्यरूपकम् । उल्लसत्पञ्चशाखस्ते राजते भुजभूरुहः । । ५.२० । ।

स्यादङ्गयष्टिरित्येवं-विधं आभासरूपकम् । अङ्गयष्टिधनुर्वल्लीत्य्-आदि रूपितरूपकम् । । ५.२१ । ।

परिणामोऽनयोर्यस्मिन्नभेदः पर्यवस्यति । कान्तेन पृष्टा रहसि मौनं एवोत्तरं ददौ । । ५.२२ । ।

बहुभिर्बहुधोल्लेखादेकस्योल्लेखिता मता । स्त्रीभिः कामः प्रियैश्चन्द्रः कालः शत्रुभिरैक्षि सः । । ५.२३ । ।

अतथ्यं आरोपयितुं तथ्यापास्तिरपह्नुतिः । नायं सुधांशुः किं तर्हि व्योमगङ्गासरोरुहम् । । ५.२४ । ।

पर्यस्तापह्नुतिर्यत्र धर्ममात्रं निषिध्यते । नायं सुधांशुः किं तर्हि सुधांशुः प्रेयसीमुखम् । । ५.२५ । ।

भ्रान्तापह्नुतिरन्यस्य शङ्कया तथ्यनिर्णये । तापं तनोति सोत्कम्पं ज्वरः किं न सखि स्मरः । । ५.२६ । ।

छेकापह्नुतिरन्यस्य शङ्कया तथ्यनिह्नवे । प्रजल्पन्मत्पदे लग्नः कान्तः किं न हि नूपुरः । । ५.२७ । ।

कैतवापह्नुतिर्व्यक्ते व्याजाद्यैर्निह्नवे पदैः । निर्यान्ति स्मरनाराचाः कान्तादृक्पातकैतवात् । । ५.२८ । ।

उत्प्रेक्षोन्नीयते यत्र हेत्वादिर्निह्नुतिं विना । त्वन्मुखश्रीकृते नूनं पद्मैर्वैरायते शशी । । ५.२९ । ।

इवादिकपदाभावे गूढोत्प्रेक्षां प्रचक्षते । यत्कीर्तिर्विभ्रमश्रान्ता विवेश स्वर्गनिम्नगाम् । । ५.३० । । स्यात्स्मृतिभ्रान्तिसंदेहैस्तदेवालंकृतित्रयम् । पङ्कजं पश्यतस्तस्या मुखं मे गाहते मनः । । ५.३१ । ।

अयं प्रमत्तमधुपस्त्वन्मुखं वेद पङ्कजम् । पङ्कजं वा सुधांशुर्वेत्यस्माकं तु न निर्णयः । । ५.३२ । ।

मीलितं बहुसादृश्याद्भेदवच्चेन्न लक्ष्यते । रसो नालक्षि लाक्षायाश्चरणे सहजारुणे । । ५.३३ । ।

सामान्यं यदि सादृश्याद्भेद एव न लक्ष्यते । पद्माकरप्रविष्टानां मुखं नालक्षि सुभ्रुवाम् । । ५.३४ । ।

हेतोः कुतोऽपि वैशिष्ट्यात्स्फूर्तिरुन्मीलितं मतम् । लक्षितान्युदिते चन्द्रे पद्मानि च मुखानि च । । ५.३५ । ।

अनुमानं च कार्यादेः कारणाद्यवधारणम् । अस्ति किञ्चिद्यदनया मां विलोक्य स्मितं मनाक् । । ५.३६ । ।

अर्थापत्तिः स्वयं सिध्येत्पदार्थान्तरवर्णनम् । स जितस्त्वन्मुखेनेन्दुः का वार्ता सरसीरुहाम् । । ५.३७ । ।

स्यात्काव्यलिङ्गं वागर्थो नूतनार्थसमर्थकः । जितोऽसि मन्द कन्दर्प मच्चित्तेऽस्ति त्रिलोचनः । । ५.३८ । ।

अलङ्कारः परिकरः साभिप्राये विशेषणे । सुधांशुकलितोत्तंसस्तापं हरतु वः शिवः । । ५.३९ । ।

साभिप्राये विशेष्ये तु भवेत्परिकराङ्कुरः । चतुर्णां पुरुषार्थानां दाता देवश्चतुर्भुजः । । ५.४० । ।

अक्रमातिशयोक्तिश्चेद्युगपत्कार्यकारणे । आलिङ्गन्ति समं देव ज्यां शराश्च पराश्च ते । । ५.४१ । ।

अत्यन्तातिशयोक्तिस्तत्-पौर्वापर्यव्यतिक्रमे । अग्रे मानो गतः पश्चादनुनीता प्रियेण सा । । ५.४२ । ।

चपलातिशयोक्तिस्तु कार्ये हेतुप्रसक्तिजे । यामीति प्रियपृष्टाया वलयोऽभवदूर्मिका । । ५.४३ । । सम्बन्धातिशयोक्तिः स्यात्तदभावेऽपि तद्वचः । पश्य सौधाग्रसंसक्तं विभाति विधुमण्डलम् । । ५.४४ । ।

भेदकातिशयोक्तिश्चेदेकस्यैवान्यतोच्यते । अहो अन्यैव लावण्य-लीला बालाकुचस्थले । । ५.४५ । ।

रूपकातिशयोक्तिश्चेद्रूप्यं रूपकमध्यगम् । पश्य नीलोत्पलद्वन्द्वान्निःसरन्ति शिताः शराः । । ५.४६ । ।

प्रौढोक्तिस्तदशक्तस्य तच्छक्तत्वावकल्पनम् । कलिन्दजातीररुहाः श्यामलाः सरलद्रुमाः । । ५.४७ । ।

सम्भावनं यदीत्थं स्यादित्यूहोन्यप्रसिद्धये । सिक्तं स्फटिककुम्भान्तः-स्थितिश्वेतीकृतैर्जलैः । मौक्तिकं चेल्लतां सूते तत्पुष्पैस्ते समं यशः । । ५.४८ । ।

वाञ्छितादधिकप्राप्तिरयत्नेन प्रहर्षणम् । दीपं उद्द्योतयेद्यावत्तावदभ्युदितो रविः । । ५.४९ । ।

इष्यमाणविरुद्धार्थ-सम्प्राप्तिस्तु विषादनम् । दीपं उद्द्योतयेद्यावत्तावन्निर्वाण एव सः । । ५.५० । ।

क्रियादिभिरनेकस्य तुल्यता तुल्ययोगिता । सङ्कुचन्ति सरोजानि स्वैरिणीवदनानि च । प्राचीनाचलचूडाग्र-चुम्बिबिम्बे सुधाकरे । । ५.५१ । ।

प्रस्तुताप्रस्तुतानां च तुल्यत्वे दीपकं मतम् । मेधां बुधः सुधां इन्दुर्बिभर्ति वसुधां भवान् । । ५.५२ । ।

आवृत्ते दीपकपदे भवेदावृत्तिदीपकम् । दीप्त्याग्निर्भाति भातीन्दुः कान्त्या भाति रविस्त्विषा । । ५.५३ । ।

वाक्ययोरर्थसामान्ये प्रतिवस्तूपमा मता । तापेन भ्राजते सूरः शूरश्चापेन राजते । । ५.५४ । ।

चेद्बिम्बप्रतिबिम्बत्वं दृष्टान्तस्तदलंकृतिः । स्यान्मल्लप्रतिमल्लत्वे सङ्ग्रामोद्धामहुंकृतिः । । ५.५५ । ।

दृष्टान्तश्चेद्भवन्मूर्तिस्तन्मृष्टा दैवदुर्लिपिः । जाता चेत्प्राक्प्रभा भानोस्तर्हि याता विभावरी । । ५.५६ । ।

वाक्यार्थयोः सदृशयोरैक्यारोपो निदर्शना । या दातुः सौम्यता सेयं सुधांशोरकलङ्कता । । ५.५७ । ।

व्यतिरेको विशेषश्चेदुपमानोपमेययोः । शैला इवोन्नताः सन्तः किं तु प्रकृतिकोमलाः । । ५.५८ । ।

सहोक्तिः सहभावश्चेद्भासते जनरञ्जनः । दिगन्तं अगमद्यस्य कीर्तिः प्रत्यर्थिभिः सह । । ५.५९ । ।

विनोक्तिश्चेद्विना किंचित्प्रस्तुतं हीनं उच्यते । विद्या हृद्यापि सावद्या बिना विनयसम्पदम् । । ५.६० । ।

समासोक्तिः परिस्फूर्तिः प्रस्तुतेऽप्रस्तुतस्य चेत् । अयं ऐन्द्रीमुखं पश्य रक्तश्चुम्बति चन्द्रमाः । । ५.६१ । ।

खण्डश्लेषः पदानां चेदेकैकं पृथगर्थता । उच्छलद्भूरिकीलालः शुशुभे वाहिनीपतिः । । ५.६२ । ।

भङ्गश्लेषः पदस्तोमस्यैव चेत्पृथगर्थता । अजरामरता कस्य नायोध्येव पुरी प्रिया । । ५.६३ । ।

अर्थश्लेषोऽर्थमात्रस्य यद्यनेकार्थसंश्रयः । कुटिलाः श्यामला दीर्घा कटाक्षाः कुन्तलाश्च ते । । ५.६४ । ।

अप्रस्तुतप्रशंसा स्यात्सा यत्र प्रस्तुतानुगा । कार्यकारणसामान्य-विशेषादेरसौ मता । । ५.६५ । ।

कमलैः कमलावासैः किं किं नासादि सुन्दरम् । अप्यम्बुधेः परं पारं प्रयान्ति व्यवसायिनः । । ५.६६ । ।

भवेदर्थान्तरन्यसोऽनुषक्तार्थान्तराभिधा । हनूमानब्धिं अतरद्दुष्करं किं महात्मनाम् । । ५.६७ । ।

यस्मिन्विशेषसामान्य-विशेषाः स विकस्वरः । स न जिग्ये महान्तो हि दुर्धर्षाः क्ष्माधरा इव । । ५.६८ । । कार्याद्यैः प्रस्तुतैरुक्तैः पर्यायोक्तिं प्रचक्षते । तृणान्यङ्कुरयामास विपक्षनृपसद्मसु । । ५.६९ । ।

उक्तिर्व्याजस्तुतिर्निन्दा-स्तुतिभ्यां स्तुतिनिन्दयोः । कस्ते विवेको नयसि स्वर्गं पातकिनोऽपि यत् । । ५.७० । ।

आक्षेपस्तु प्रयुक्तस्य प्रतिषेधो विचारणात् । चन्द्र संदर्शयात्मानं अथवास्ति प्रियामुखम् । । ५.७१ । ।

गूढाक्षेपो विधौ व्यक्ते निषेधे चास्फुटे सति । हर सीतां सुखं, किं तु चिन्तयान्तकढौकनम् । । ५.७२ । ।

विरोधोऽनुपपत्तिश्चेद्गुणद्रव्यक्रियादिषु । अमन्दचन्दनस्यन्दः स्वच्छन्दं दन्दहीति माम् । । ५.७३ । ।

श्लेषादिभूर्विरोधश्चेद्विरोधाभासता मता । अप्यन्धकारिणानेन जगदेतत्प्रकाशते । । ५.७४ । ।

असंभवोऽर्थनिष्पत्तावसंभाव्यत्ववर्णनम् । को वेद गोपशिशुकः शैलं उत्पाटयिष्यति । । ५.७५ । ।

विभावना विनापि स्यात्कारणं कार्यजन्म चेत् । पश्य लाक्षारसासिक्तं रक्तं त्वच्चरणद्वयम् । । ५.७६ । ।

विशेषोक्तिरनुत्पत्तिः कार्यस्य सति कारणे । नमन्तं अपि धीमन्तं न लङ्घयति कश्चन । । ५.७७ । ।

आख्याते भिन्नदेशत्वे कार्यहेत्वोरसंगतिः । त्वद्भक्तानां नमत्यङ्गं भङ्गं एति भवक्लमः । । ५.७८ । ।

विषमं यद्यनौचित्यादनेकान्वयकल्पनम् । क्वातितीव्रविषाः सर्पाः क्वासौ चन्दनभूरुहः । । ५.७९ । ।

समं औचित्यतोऽनेक-वस्तुसम्बन्धवर्णनम् । अनुरूपं कृतं सद्म हारेण कुचमण्डलम् । । ५.८० । ।

विचित्रं चेत्प्रयत्नः स्याद्विपरीतफलप्रदः । नमन्ति सन्तस्त्रैलोक्यादपि लब्धुं समुन्नतिम् । । ५.८१ । । अधिकं बोध्यं आधारादाधेयाधिकवर्णनम् । यया व्याप्तं जगत्तस्यां वाचि मान्ति न ते गुणाः । । ५.८२ । ।

अन्योन्यं नाम यत्र स्यादुपकारः परस्परम् । त्रियामा शशिना भाति शशी भाति त्रियामया । । ५.८३ । ।

विशेषः ख्यातं आधारं विनाप्याधेयवर्णनम् । गतेऽपि सूर्ये दीपस्थास्तमश्छिन्दन्ति तत्कराः । । ५.८४ । ।

स्याद्व्याघातोऽन्यथाकारि वस्त्वन्यक्रियं उच्यते । यैर्जगत्प्रीयते हन्ति तैरेव कुसुमायुधः । । ५.८५ । ।

गुम्फः कारणमाला स्याद्यथाप्राक्प्रान्तकारणैः । नयेन श्रीः श्रिया त्यागस्त्यागेन विपुलं यशः । । ५.८६ । ।

गृहीतमुक्तरीत्यर्थ-श्रेणिरेकावली मता । नेत्रे कर्णान्तविश्रान्ते कर्णौ दोर्मूलदोलिनौ । । ५.८७ । ।

दीपकैकावलीयोगान्मालादीपकं उच्यते । स्मरेण हृदये तस्यास्तेन त्वयि कृता स्थितिः । । ५.८८ । ।

सारो नाम पदोत्कर्षः सारताया यथोत्तरम् । सारं सारस्वतं तत्र काव्यं तत्र शिवस्तवः । । ५.८९ । ।

उदारसारश्चेद्भाति भिन्नोऽभिन्नतया गुणः । मधुरं मधु पीयूषं तस्मात्तस्मात्कवेर्वचः । । ५.९० । ।

यथासंख्यं द्विधार्थाश्चेत्क्रमादेकैकमन्विताः । शत्रुं मित्रं द्विषत्पक्षं जय रञ्जय भञ्जय । । ५.९१ । ।

पर्यायश्चेदनेकत्र स्यादेकस्य समन्वयः । पद्मं मुक्त्वा गता चन्द्रं कामिनीवदनोपमा । । ५.९२ । ।

परिवृत्तिर्विनिमयो न्यूनाभ्यधिकयोर्मिथः । जग्राहैकं शरं मुक्त्वा कटाक्षान्शत्रुयोषिताम् । । ५.९३ । ।

परिसंख्या निषिध्यैकं अन्यस्मिन्वस्तुयन्त्रणम् । स्नेहक्षयः प्रदीपेषु स्वान्तेषु न नतभ्रुवाम् । । ५.९४ । । विकल्पस्तुल्यबलयोर्विरोधश्चातुरीयुतः । कान्ताचित्तेऽधरे वापि कुरु त्वं वीतरागताम् । । ५.९५ । ।

भूयसां एकसम्बन्ध-भाजां गुम्फः समुच्चयः । नश्यन्ति पश्चात्पश्यन्ति भ्रश्यन्ति च तव द्विषः । । ५.९६ । ।

समाधिः कार्यसौकर्यं कारणान्तरसन्निधेः । उत्कण्ठितां च कलयन्जगामास्तं च भानुमान् । । ५.९७ । ।

प्रत्यनीकं बलवतः शत्रोः पक्षे पराक्रमः । जैत्रनेत्रानुगौ कर्णावुत्पलाभ्यां अधःकृतौ । । ५.९८ । ।

प्रतीपं उपमानस्य हीनत्वं उपमेयतः । दृष्टं चेद्वदनं तस्याः किं पद्मेन किमिन्दुना । । ५.९९ । ।

उल्लासोऽन्यमहिम्ना चेद्दोषो ह्यन्यत्र वर्ण्यते । तदभाग्यं धनस्यैव यन्नाश्रयति सज्जनम् । । ५.१०० । ।

तद्गुणः स्वगुणत्यागादन्यतः स्वगुणोदयः । पद्मरागारुणं नासा-मौक्तिकं तेऽधरश्रितम् । । ५.१०१ । ।

पुनः स्वगुणसम्प्राप्तिर्विज्ञेया पूर्वरूपता । हरकण्ठांशुलिप्तोऽपि शेषस्त्वद्यशसा सितः । । ५.१०२ । ।

यद्वस्तुनोऽन्यथा रूपं तथा स्यात्पूर्वरूपता । दीपे निर्वापिते ह्यासीत्काञ्चीरत्नैरहर्महः । । ५.१०३ । ।

सङ्गतान्यगुणानङ्गी-कारं आहुरतद्गुणम् । विशन्नपि रवेर्मध्यं शीत एव सदा शशी । । ५.१०४ । ।

प्राक्सिद्धस्वगुणोत्कर्षोऽनुगुणः परसन्निधेः । कर्णोत्पलानि दधते कटाक्षैरपि नीलताम् । । ५.१०५ । ।

अवज्ञा वर्ण्यते वस्तु गुणदोषाक्षमं यदि । म्लायन्ति यदि पद्मानि का हानिरमृतद्युतेः । । ५.१०६ । ।

प्रश्नोत्तरं क्रमेणोक्तौ स्यूतं उत्तरं उत्तरम् । यत्रासौ वेतसी पान्थ तत्रासौ सुतरा सरित् । । ५.१०७ । । पिहितं परवृत्तान्त-ज्ञातुरन्यस्य चेष्टितम् । प्रिये गृहागते प्रातः कान्ता तल्पं अकल्पयत् । । ५.१०८ । ।

व्याजोक्तिः शङ्कमानस्य छद्मना वस्तुगोपनम् । सखि पश्य गृहाराम-परागैरस्मि धूसरा । । ५.१०९ । ।

वक्रोक्तिः श्लेषकाकुभ्यां वाच्यार्थान्तरकल्पनम् । मुञ्च मानं दिनं प्राप्तं मन्द नन्दी हरान्तिके । । ५.११० । ।

स्वाभावोक्तिः स्वभावस्य जात्यादिषु च वर्णनम् । कुरङ्गैरुत्तरङ्गाक्षि स्तब्धकर्णैरुदीक्ष्यते । । ५.१११ । ।

भाविकं भूतभाव्यर्थ-साक्षाद्दर्शनवर्णनम् । अलं विलोकयाद्यापि युद्ध्यन्तेऽत्र सुरासुराः । । ५.११२ । ।

देशात्मविप्रकृष्टस्य दर्शनं भाविकच्छविः । त्वं वसन्हृदये तस्याः साक्षात्पञ्चेषुरीक्ष्यसे । । ५.११३ । ।

उदात्तं ऋद्धेश्चरितं श्लाघ्यं चान्योपलक्षणम् । सानौ यस्याभवद्युद्धं तद्धूर्जटिकिरीटिनोः । । ५.११४ । ।

अत्युक्तिरद्भुतातथ्य-शौर्यौदार्यादिवर्णनम् । त्वयि दातरि राजेन्द्र याचकाः कल्पशाखिनः । । ५.११५ । ।

रसभावतदाभास-भावशान्तिनिबन्धनाः । रसवत्प्रेयऊर्जस्वि-समाहितमयाभिधाः । । ५.११६ । ।

भावानामुदयः सन्धिः शबलत्वं इति त्रयः । अलङ्कारानिमान्सप्त केचिदाहुर्मनीषिणः । । ५.११७ । ।

शुद्धिरेकप्रधानत्वं तथा संसृष्टिसंकरौ । एतेषां एव विन्यासान्नालङ्कारान्तराण्यमी । । ५.११८ । ।

सर्वेषां च प्रतिद्वन्द्व-प्रतिच्छन्दभिदाभृताम् । उपाधिः क्वचिदुद्भिन्नः स्यादन्यत्रापि संभवात् । । ५.११९ । ।

माला परंपरा चैषां भूयसां अनुकूलके । मनुष्ये भवतः क्वापि ह्यलङ्काराङ्गतां गते । । ५.१२० । । शब्दे पदार्थे वाक्यार्थे वाक्यार्थस्तबके तथा । एते भवन्ति विन्यासाः स्वभावातिशयात्मकाः । । ५.१२१ । ।

कस्याप्यतिशयस्योक्तेरित्यन्वर्थविचारणात् । प्रायेणामी ह्यलंकारा भिन्ना नातिशयोक्तितः । । ५.१२२ । ।

अलंकारप्रधानेषु दधानेष्वपि साम्यताम् । वैलक्षण्यं प्रतिव्यक्ति प्रतिभाति मुखेष्विव । । ५.१२३ । ।

अलंकारेषु तथ्येषु यद्यनास्था मनीषिणाम् । तदर्वाचीनभेदेषु नाम्नां नाम्नाय इष्यताम् । । ५.१२४ । ।

महादेवः सत्रप्रमुखमखविद्यैकचतुरः सुमित्रा तद्भक्तिप्रणिहितमतिर्यस्य पितरौ । चतुर्थः सैकोयं सुकविजयदेवेन रचिते चिरं चन्द्रालोके सुखयतु मयूखः सुमनसः । । ५.१२५ । ।


आलम्बनोद्दीपनात्मा विभावः कारणं द्विधा । कार्योऽनुभावो भावश्च सहायो व्यभिचार्यपि । । ६.१ । ।

गलद्वेद्यान्तरोद्भेदो हृदयेष्वजडात्मनाम् । मिलन्मलयजालेप इवाह्लादं विकासयन् । । ६.२ । ।

काव्ये नाट्ये च कार्ये च विभावाद्यैर्विभावितः । आस्वाद्यमानैकतनुः स्थायी भावो रसः स्मृतः । । ६.३ । ।

रत्याख्यस्थायिभावात्मा वल्लभादिविभावितः । आलस्येर्ष्याजुगुप्साभ्यो विना संचारिभिर्युतः । । ६.४ । ।

अनुभावैः कटाक्षाद्यैरुन्मादाद्यैर्यथाक्रमम् । सम्भोगो विप्रलम्भश्च शृङ्गारो द्विविधो मतः । । ६.५ । ।

हासस्थायी रसो हास्यो विभावद्यैर्यथाक्रमम् । वैरूप्यफुल्लगण्डत्वावहित्थाद्यैः समन्वितः । । ६.६ । ।

अभीष्टविप्रयोगाश्रु-पातग्लान्यादिभिः क्रमात् । विभावाद्यैर्युतः शोक-स्थायी स्यात्करुणो रसः । । ६.७ । ।

क्रोधस्थायी रसो रौद्रो विभावाद्यैः समन्वितः । मात्सर्यहस्तनिष्पेष-संमोहाद्यैर्यथाक्रमम् । । ६.८ । ।

उत्साहाख्यस्थायिभावः प्रभावादिविभावभूः । वीरोऽनुभावैः स्थैर्याद्यैर्भावैर्गर्वादिभिर्युतः । । ६.९ । ।

व्याघ्रादिभिर्विभावैस्तु वेपिताद्यनुभावभृत् । भावैर्मोहादिभिर्युक्तो भयस्थायी भयानकः । । ६.१० । ।

स्थायी जुगुप्सा बीभत्सो विभावाद्या यथाक्रमम् । अनिष्टेक्षणनिष्ठीव-मोहाद्या यत्र संमताः । । ६.११ । ।

अद्भुतो विस्मयस्थायी मायादिकविभावभूः । रोमाञ्चाद्यनुभावोऽयं स्तम्भादिव्यभिचारिकः । । ६.१२ । ।

निर्वेदस्थायिकः शान्तः सत्सङ्गादिविभावभूः । क्षमादिकानुभावोऽयं स्तम्भादिव्यभिचारिकः । । ६.१३ । ।

रतिर्देवादिविषया सन्ति च व्यभिचारिणः । वेद्यमाना निगद्यन्ते भावाः साहित्यवेदिभिः । । ६.१४ । ।

निर्वेदग्लानिशङ्काख्यास्तथासूयामदश्रमाः । आलस्यं चैव दैन्यं च चिन्ता मोहः स्मृतिर्धृतिः । । ६.१५ । ।

व्रीडा चपलता हर्ष आवेगो जडता तथा । गर्वो विषाद औत्सुक्यं निद्रापस्मार एव च । । ६.१६ । ।

सुप्तं प्रबोधोऽमर्षश्चाप्यवहित्थं अथोग्रता । मतिर्व्याधिस्तथोन्मादस्तथा मरणं एव च । । ६.१७ । ।

त्रासश्चैव वितर्कश्च विज्ञेया व्यभिचारिणः । त्रयस्त्रिंशदिमे भावाः समाख्यातास्तु नामतः । । ६.१८ । ।

सर्वसाधारणप्रेम-प्रश्रयादिस्वरूपया । अनौचित्या रसाभासा भावाभासाश्च कीर्तिताः । । ६.१९ । ।

भावस्य शान्तिरुदयः सन्धिः शबलता तथा । काव्यस्य काञ्चनस्येव कुङ्कुमं कान्तिसंपदे । । ६.२० । ।

आतुर्यं आसप्तमं च यथेष्टैरष्टमादिभिः । समासः स्यात्पदैर्न स्यात्समासः सर्वथापि च । । ६.२१ । ।

पाञ्चालिकी च लाटीया गौडीया च यथारसम् । वैदर्भी च यथासंख्यं चतस्रो रीतयः स्मृताः । । ६.२२ । ।

मधुरायां समाक्रान्ता वर्गस्थाः पञ्चमैर्निजैः । लकारश्च लसंयुक्तो ह्रस्वव्यवहितौ रणौ । । ६.२३ । ।

रेफाक्रान्ता वर्ग्ययणाष्टवर्गात्पञ्चमादृते । कपाक्रान्तस्तवर्गः स्यात्प्रौढायां च कमूर्धता । । ६.२४ । ।

सर्वैरूर्ध्वैः सकारस्य सर्वै रेफस्य सर्वथा । रहोर्द्वेधा तु संयोगः परुषायां शषौ स्वतः । । ६.२५ । ।

लकारोऽन्यैरसंयुक्तो लघवो घभधा रसौ । ललितायां तथा शेषा भद्रायां इति वृत्तयः । । ६.२६ । ।

अङ्गभङ्गोल्लसल्लीला तरुणी स्मरतोरणम् । तर्ककर्कशपूर्णोक्ति-प्राप्तोत्कटधियां वृथा । । ६.२७ । ।

वीप्सोत्सर्पन्मुखाग्रार्द्रं बर्ही जह्रे कृशस्तृषम् । ललना रभसं धत्ते घनाटोपे महीयसि । । ६.२८ । ।

महादेवः सत्रप्रमुखमखविद्यैकचतुरः सुमित्रा तद्भक्तिप्रणिहितमतिर्यस्य पितरौ । मयूखस्तेनासौ सुकविजयदेवेन रचिते चिरं चन्द्रालोके सुखयतु महति ऋतुसंख्यः । । ६.२९ । ।


वृत्तिभेदैस्त्रिभिर्युक्ता स्रोतोभिरिव जाह्नवी । भारती भाति गम्भीरा कुटिला सरला क्वचित् । । ७.१ । ।

सांमुख्यं विदधानायाः स्फुटं अर्थान्तरे गिरः । कटाक्ष इव लोलाक्ष्या व्यापारो व्यञ्जनात्मकः । । ७.२ । ।

अविवक्षितवाच्यस्य द्वौ भेदौ वाच्यं एव चेत् । अर्थान्तिरे संक्रमितं अत्यन्तं वा तिरस्कृतम् । । ७.३ । ।

द्वौ विवक्षितवाच्यस्य लक्ष्यालक्ष्यक्रमात्मकौ । चत्वारिंशद्युतैकेन भेदाः षट्चानयोः क्रमात् । । ७.४ । ।

त्रिधा शब्दार्थतद्युग्म-शक्तिजन्मा स्फुटक्रमात् । रसभावतदाभास-प्रमुखस्त्वस्फुटक्रमात् । । ७.५ । ।

वस्त्वलङ्कारयोर्व्यक्तेर्भेदौ द्वौ शब्दशक्तिजौ । अर्थशक्तिसमुत्थस्य भेदा द्वादश तद्यथा । । ७.६ । ।

चत्वारो वस्त्वलंकारं अलंकारस्तु वस्तु यत् । अलंकारं अलंकारो वस्तु वस्तु व्यनक्ति तत् । । ७.७ । ।

वक्तुः कविनिबद्धस्य कवेर्वा प्रौढिनिर्मितः । स्वसिद्धो वा व्यञ्जकोऽर्थश्चत्वारस्त्रिगुणास्ततः । । ७.८ । ।

शब्दार्थोभयभूरेकः स च वाक्यैकसंश्रयः । पदैकदेशे रचना-वर्णवाक्यपदेष्वपि । । ७.९ । ।

प्रबन्धे चेति षोढासौ रसाद्याख्योऽस्फुटक्रमः । एषु सप्तदशस्वेकं परित्यज्यास्फुटक्रमम् । । ७.१० । ।

ये षोडशाद्या द्विगुणास्ते स्युर्वाक्यपदाश्रयात् । प्रबन्धेऽपि द्वादश स्युरर्थशक्तिभुवो भिदः । । ७.११ । ।

द्वात्रिंशद्द्वादशैकः षट्सर्वसंकलितध्वनेः । भेदाः स्युरेकपञ्चाशत्संभिन्नास्तु सहस्रशः । । ७.१२ । ।

वक्तृस्यूतं बोधयितुं व्यङ्ग्यं वक्तुरभीप्सितम् । स्वाङ्कुरितं अतद्रूपं स्वयं उल्लसितं गिरः । । ७.१३ । ।

कश्चित्साधारणः कश्चिदामन्त्र्य प्रतिबोधितः । कश्चित्तटस्थः कश्चिच्च बोधितप्रतिबोधितः । । ७.१४ । ।

इत्येवं बोद्धृवैचित्र्याद्वक्तृस्यूतं चतुर्विधम् । उपेक्षानिह्नवाभ्यां च द्विधा स्वाङ्कुरितं मतम् । । ७.१५ । ।

भूतादिकालभेदेन निह्नवः स्यादनेकधा । अनेनापि प्रभेदेन व्यक्तिवल्ली विजृम्भते । । ७.१६ । ।

नानाप्रभेदा नियता क्वचित्प्रकरणादिना । अर्थेऽर्थं अन्यं यं वक्ति तद्वाच्यव्यङ्ग्यं इष्यते । । ७.१७ । ।

महादेवः सत्रप्रमुखमखविद्यैकचतुरः सुमित्रा तद्भक्तिप्रणिहितमतिर्यस्य पितरौ । मयूखस्तेनासौ सुकविजयदेवेन रचिते चिरं चन्द्रालोके सुखयतु महति मुनिसंख्यः । । ७.१८ । ।


यद्व्यज्यमानं मनसः स्तैमित्याय स नो ध्वनिः । अन्यथा तु गुणीभूत-व्यङ्ग्यं आपतितं त्रिधा । । ८.१ । ।

व्यक्तिरेव क्वचिद्व्यङ्ग्यः क्वचिदर्थस्वभावतः । क्वचिच्चारुतरस्याग्रे स विमुञ्चति चारुताम् । । ८.२ । ।

अगूढं कलयेदर्थान्तरसंक्रमितादिकम् । विस्मृतः किं अपांनाथ स त्वया कुम्भसंभवः । । ८.३ । ।

अपरस्य रसादेश्चेदङ्गमन्यद्रसादिकम् । हा हा! मत्कुचकाश्मीर-लिप्तं भिन्नं उरः शरैः । । ८.४ । ।

तथा वाच्यस्य सिद्ध्यङ्गं नौरर्थो वारिधेर्यथा । संश्रित्य तरणिं धीरास्तरन्ति व्याधिवारिधीन् । । ८.५ । ।

अस्फुटं स्तनयोरत्र कोकसादृश्यवन्मतम् । कुङ्कुमाक्तं स्तनद्वन्द्वं मानसं मम गाहते । । ८.६ । ।

संदिग्धं यदि संदेहो दैर्घ्याद्युत्पलयोरिव । संप्राप्ते नयने तस्याः श्रवणोत्तंसभूमिकाम् । । ८.७ । ।

तुल्यप्राधान्यं इन्दुत्वं इव वाच्येन साम्यभृत् । कान्ते त्वदाननरुचा ग्लानिं एति सरोरुहम् । । ८.८ । ।

असुन्दरं यदि व्यङ्ग्यं स्याद्वाच्यादमनोहरम् । सरस्यामीलदम्भोजे चक्रः कान्तां विलोकते । । ८.९ । ।

काकुस्थं प्रणतोऽम्भोधिरद्य माद्यतु रावणः । इत्यष्टधा गुणीभूत-व्यङ्ग्यं अङ्गीकृतं बुधैः । । ८.१० । ।

महादेवः सत्रप्रमुखमखविद्यैकचतुरः सुमित्रा तद्भक्तिप्रणिहितमतिर्यस्य पितरौ । मयूखस्तेनासौ सुकविजयदेवेन रचिते चिरं चन्द्रालोके महति वसुसंख्यः सुखयतु । । ८.११ । ।


मुख्यार्थस्याविवक्षायां पूर्वार्वाची च रूढितः । प्रयोजनाच्च संबद्धं वदन्ती लक्षणा मता । । ९.१ । ।

लक्षणीयस्वशब्दस्य मीलनामीलनाद्द्विधा । लक्षणा सा त्रिधा सिद्ध-साध्यसाध्याङ्गभेदतः । । ९.२ । ।

स्फुटास्फुटप्रभेदेन प्रयोजनं अपि द्विधा । विदुः स्फुटं तटस्थत्वादर्थगत्वाद्द्विधा बुधाः । । ९.३ । ।

अस्फुटं चार्थनिष्ठत्वात्तटस्थत्वादपि द्विधा । लक्ष्यलक्षकनिष्ठत्वादर्थसंस्थं अपि द्विधा । । ९.४ । ।

लक्षकस्थं स्फुटं यत्र सा विचक्षणलक्षणा । अस्फुटत्वं तटस्थत्वं लक्ष्यस्थत्वं अमुष्य च । । ९.५ । ।

अन्यास्तिस्र इति व्यक्ता शक्तितः सा चतुर्विधा । इन्दुरेवैष तद्वक्त्रं उत्कर्षो लक्ष्यते मुखे । । ९.६ । ।

प्रदीपं वर्धयेत्यत्र तटस्थं मङ्गलोदयः । पटोऽयं दग्ध इत्यादौ स्फुटं नास्ति प्रयोजनम् । । ९.७ । ।

अमृतं सूक्तं इत्यादौ लक्ष्यस्थं अतिहृद्यता । आभिमुख्यात्संनिधानात्तथाकारप्रतीतितः । । ९.८ । ।

कार्यकारणभावात्सा वाच्यवाचकभावतः । इत्येवमादेः संबन्धात्किंचान्यस्माच्चतुष्टयात् । । ९.९ । ।

सादृश्यात्समवायात्सा वैपरीत्यात्क्रियान्वयात् । सारोपाध्यवसानाख्ये गौणशुद्धे पृथक्पृथक् । । ९.१० । ।

गौणं सारोपं उद्दिष्टं इन्दुर्मुखं इतीदृशम् । गौणं साध्यवसानं स्यादिन्दुरेवेदं ईदृशम् । । ९.११ । ।

शुद्धं सारोपं उद्दिष्टं आयुर्घृतं इतीदृशम् । शुद्धं साध्यवसानं स्यादायुरेवेदं ईदृशम् । । ९.१२ । । उपादानार्पणद्वारे द्वे चान्ये इति षड्विधा । कुन्ता विशन्ति गङ्गायां घोषो निवसतीति च । । ९.१३ । ।

लक्ष्यलक्षकवैशिष्ट्य-वैशिष्ट्याद्द्विविधा पुनः । सरसं काव्यं अमृतं विद्या स्थिरतरं धनम् । । ९.१४ । ।

तथा सहेतुरतथाभेदभिन्ना च कुत्रचित् । सौन्दर्येणैष कन्दर्पः सा च मूर्तिमती रतिः । । ९.१५ । ।

शब्दे पदार्थे वाक्यार्थे संख्यायां कारके तथा । लिङ्गे चेयं अलङ्काराङ्कुरबीजतया स्थिता । । ९.१६ । ।

महादेवः सत्रप्रमुखमखविद्यैकचतुरः सुमित्रा तद्भक्तिप्रणिहितमतिर्यस्य पितरौ । मयूखस्तेनासौ सुकविजयदेवेन रचिते चिरं चन्द्रालोके महति नवसंख्यः सुखयतु । । ९.१७ । ।


धर्मं कंचित्पुरस्कृत्य प्रायः शब्दः प्रवर्तते । ययार्थं स्पष्टं आचष्टे शब्दस्तां अभिधां विदुः । । १०.१ । ।

जात्या गुणेन क्रियया वस्तुयोगेन संज्ञया । निर्देशेन तथा प्राहुः षड्विधां अभिधां बुधाः । । १०.२ । ।

गौर्नीलः पाचको दण्डी डित्थः कंस इति क्रमात् । कं संहिनस्ति कंसारिर्नरं च कं समाश्रितम् । । १०.३ । ।

न योगादेरायतनं न सङ्केतनिकेतनम् । वृत्त्या निर्देशशब्दोऽयं मुख्यया स्वाभिधेयया । । १०.४ । ।

पीयूषवर्षप्रभवं चन्द्रालोकमनोहरम् । सुधानिधानं आसाद्य श्रयध्वं विबुधा मुदम् । । १०.५ । ।

जयन्ति याज्ञिकश्रीमन्-महादेवाङ्गजन्मनः । सूक्तिपीयूषवर्षस्य जयदेवकवेर्गिरः । । १०.६ । ।

महादेवः सत्रप्रमुखमखविद्यैकचतुरः सुमित्रा तद्भक्तिप्रणिहितमतिर्यस्य पितरौ । मयूखस्तेनासौ सुकविजयदेवेन रचिते चिरं चन्द्रालोके महति दशसंख्यः सुखयतु । । १०.७ । ।