सदस्यः:Jashomati senapati
भाषाया: कौशलानि
भाषाया: परिभाषा ;-
मनुष्य: सर्वेषु प्राणिषु श्रेष्ठ:। यत: स: बुध्दिमान् विवेकवान् च। स: मनुष्य: स्वकीयभावं चिन्तनं वा भाषामाध्यमेन अपरस्य समक्षं प्रकाशयति। अत: उच्यते भाषा भावस्य वाहिक: ,वैदेशिका: W.P Whiteney मतानुसारेण -> { Language may be driefly and comprehensively defined as the means of expression of human thought. } अर्थात् या मानवचिन्ताधारां वहति,या च विचारधाराम् अभिव्यनक्ति सा भवति ‘भाषा’ । A.C Woolner मतानुसारेण -> { By language in general we mean human speech that is an activity of function where by men express their thoughts and feeling’s by means of articulate sounds uttered with their vocalorigin.} अस्यायं भाव: मनुष्यवाण्येव तस्य भाषा। साधारणत: मनुष्य: भाषाद्वारा स्वकीयातुभवं प्रकटयति।
भाषा व्यक्तायां वाचि इत्यस्मात् धातो: भाषा इति पदं निष्पन्नं भवति। यस्यार्थ: भावाभिव्यक्ति: भवति।मानवसभ्यताया: संस्कृतेश्च विकासे भाषाया: महत्वपूर्णं योगदानं वर्तते। भाषा मानवानां स्वभावनाया: अभिव्यक्ते: उत्कृष्टं साधनं वर्तते। वैदिककालात् शिक्षाया: अंग: वर्तते भाषाशिक्षणम्।
भाषाशिक्षणम् ;-
भाषाया: शिक्षणं ऩाम केवलं व्याकरणस्य अधिगममात्रं न, तदन्तर्गतानां सूत्राणामपि न, भाषाया: स्वरुपस्य वैशिष्ट्य अवगमनमात्रमपि न भवति। अपितु भाषाशिक्षणं नाम श्रवण-भाषण-पठन-लेखनादिषु चतुर्षु अपि कौशलेषु दक्षताप्राप्ति: एव इति।
1) श्रवणम् -> भाषा शिक्षणस्य प्रथमं कौशलम् एव वर्तते। प्राचीनकाले तु मौखिकपध्दति: एव श्रेष्ठा पध्दति: आसीत्। अस्माकं परम्परा “श्रुतिपरम्परा” इति असकृत् प्रयुज्यमानम् अस्माभि: श्रूयते। भाषाया: ग्रहणं प्रायश: श्रवणेन एव भवति। बालक: शब्दान् श्रुत्वा वुध्दौ स्थापयति। तत: उच्चारणं करोति। पुन: भावसंग्रहणं कृत्वा लेखितुं समर्थ: भवति।अत: सम्यक् श्रवणं समिचिनभाषणे , निर्दुष्टपठने, उतमलेखने च साहार्य्यं करोति। 2) भाषणम् -> भाषाकौशलेषु द्वितीय स्थानं भाषणस्य वर्तते। अस्मिन् संसारे मानवानां स्वाभिव्यक्तिं प्रकटयितुं प्राय: सामान्यरुपेण भाषा एव माध्यमं वर्तते।भाषाया: सम्यक् विकासार्थं भाषाकौषलस्य विकास: आवश्यकं वर्तते। अत: एतस्य कौशलस्य विकास: तु भाषणेन एव जायते।सरलकथामाध्यमेन अपि बालकानां भाषणकौशलस्य विकास: भवति। 3) वाचनम् -> भाषाया: विकासार्थं वाचनकौशलस्य विकास: अपि आवश्यक: वर्तते। लिखितरुपे विद्यमानम् अंश मनसि पठित्वा तदर्थभावाग्रहणमेव वाचनमुच्यते। वाचनप्रकाश: प्रायस: निम्नप्रकारका: भवन्ति यथा – आदर्शवाचनम्, अनुकरणवाचनम्, मौनवाचनम्, विस्तारवाचनम् च।त्रुटिसंशोधनमाध्यमेन अपि वाचनकौशलस्य विकास: भवति। 4) लेखनम् -> स्वविचारस्य प्रकाशनाय लिपिम् आश्रित्य क्रियमाण: अक्षरविन्यास: एव लेखनं भवति। अक्षरविन्यास: एव लेखनार्थपर्याप्त: न भवति। अर्थवोधनाय वर्णानां पदानां वा सम्यक् क्रमवध्द: सुव्यवस्थित समायोजनमावश्यकं वर्तते। लेखनकौशलस्य विकासार्थं प्रथमस्तु शिक्षकस्य लेखनं सुन्दरं भवितव्य:। लेखनमाध्यमेन लेखनक्षमताया: सम्यक विकास: भवितुं शक्नोति।