सदस्यः:Jena Sagarika/प्रयोगपृष्ठम्
कोरोनावायरस
विश्वस्वास्थ्यसंगठनेन (W.H.O) कोरोना भूताणु: महमारित्वेन उद्घोषित:। अयं भूताणु: अत्यन्त सूक्ष्म: सन् अपि अत्यन्त प्रभावी भवति । अयं भूताणु: मानव केशस्य १०० अंशः भवति। परन्तु अस्य भूताणो: संक्रमणं समग्रे विश्वे शीघ्रतया भवति ।कोरोना भूताणु संक्रमित जनः ज्वरेण पीडितः भवति , श्वासक्रीयायां कष्टं अनुभवति । अस्य भूताणो: संक्रमणं प्रथमतया दिसम्बर मासे चिन् देशस्य “वुहान” नामक स्थानत: प्रारब्धम्।
लक्षणम् –
कोविड- 19 / कोरोना भुताणु संक्रमित: जनः –
· प्रथमतया ज्वरेण पीडितः भवति ।
· तदनन्तरं शुष्ककाश: भवति ।
· एकसप्ताहानन्तरं श्वासक्रियायं कष्टं अनुभवति।
· निमोनियादि – गम्भिररोगा: अपि कदाचित् भवन्ति।
· अस्य भूताणो: संक्रमणेन कदाचित् रोगिण: मृत्युः अपि भवति।
निराकरणोपाय: -
अस्य रोगस्य निराकरणाय कोपि स्थायी उपायः नास्ति। अस्य रोगस्य लक्षणानि अल्पिकर्तुं एव औषधानि दीयन्ते।यावत् पर्यन्तं रोगी स्वस्थ: न भवति तावत् पर्यन्तं सः अन्येभ्य: दूरे स्थाप्यते। अस्य भूताणो: प्रतिरोधकस्य आविष्काराय चिकित्साविज्ञानिनः चेष्टमाना: सन्ति। तै: मन्यते यत् अस्मिन् एव वर्षे अस्य भूताणो: प्रतीरोधकस्य सफलपरिक्षणं भविष्यति इति।अस्य भूताणो: संक्रमणात् मुक्तः भवितुं केचन नियमाः पाल्यन्ते।
ते नियमाः यथा –
· फेनकेन हस्तप्रक्षालनं कुर्यात्।
· करवस्त्रेण मुखं अवरुद्धाय एव छिन्केत्।
· श्वासक्रीयायां कष्टं अनुभवतः जनात् दूरे तिष्ठेत्।
· मुखावरणस्य व्यवहारं कुर्यात्।
एवं प्रकारेण यदि वयं जागरुका: भविष्यामः तर्हि अस्य भूताणो: प्रतिरोधकस्य कापि आवश्यकता नास्ति।अस्माकं शास्त्रे तु सर्वेषां भूताणुनां मुलोत्पाटनाय नैक विधय: सन्ति। यथा उच्यते –
“वाद्यस्य शब्देन हि यान्ति नाशं विषाणि घोराण्यपि यानि सन्ति ।“