सामग्री पर जाएँ

सदस्यः:Jimani Haloi

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः
  संस्कृतालंकारशास्त्रेषु काव्यस्वरूपम्

'कवेः कर्म काव्यम्' । काव्यस्य स्वरूपम् अत्यन्तव्यापकमस्ति । काव्यस्य स्वरूपं यावद् व्यापकम्, तावदेव सूक्ष्मं भवति । अनादिकालाद् आरभ्य इदानीं पर्यन्तं काव्यलक्षणनिर्माणे अस्य काव्यस्य परिभाषानिरूपणे च संस्कृताचार्याः यत्नशीलाः दृश्यन्ते । 'काव्यम्' मनुष्यचेतनायाः महत्सृष्टिरस्ति काव्यशास्त्रे काव्यस्य विश्लेषणम्भवति 1 तत्र 1 गुणालङ्कारादिनिष्ठप्रकारतानिरूपितविशेषता काव्ये काव्यत्वम् काव्यलक्षणनिर्धारणं काव्यशास्त्रस्य महत्त्वपूर्ण प्रयोजनमस्ति । काव्यलक्षणद्वारा विशालसंस्कृतवाक्ये अन्यप्रकारेभ्यः काव्यस्य भेदः प्रदर्श्यते । लक्षणस्य अर्थोऽस्ति 'असाधारणार्थः। भारतीयकाव्यशास्त्रे परिभाषां' लक्षणम्' शब्देन अभिधीयते। लक्षणे तिस्रः दोषाः भवन्ति- अव्याप्तिदोषः, अतिव्याप्तिदोषः, असम्भवदोषः चा परन्तु काव्यस्य लक्षणम् अव्याप्ति-अतिव्याप्ति-असम्भवदोषरहितो भवेत्। पुनः काव्यं संक्षिप्तं सुबोधं पारिभाषिकं च शब्दावलीरहितं भवेत्। काव्यमिति विचारचर्चायाम् अनेकानि काव्यलक्षणानि दृष्टिपथम् अवतरन्ति। परमद्यावधि नैकमपि लक्षणं निर्दुष्टं सर्वसम्मतं वा । भरतस्य नाट्यशास्त्रे प्राचीनतममं लक्षणम् उपलभ्यते- " मृदु-ललित-पदाढ्यं गूढशब्दार्थहीनं जनपदसुखबोध्यं युक्तिमननृत्ययोग्यम् । बहुकृतरसमार्ग सन्धि-सन्तान-युक्तं भवति जगति योग्यं नाटकं प्रेक्षकाणाम् ॥"" अर्थात् यत्र मृदुललितं पदं, गुढशब्दार्थयो अभावः, पाठकानां सुखवोधाय यत्, यत्र विविधरसानां समावेशः, यत् च सन्धिसन्धानयुक्तं भवति, तदेव शोभकिव्यम् अभिधीयते। अत्र क्रमशः सप्त विशेषतायाः वर्णनमस्तिा अस्य पञ्चम तथा सप्तम विशेषता नाटकस्य दृष्ट्याः वर्णितमस्ति । पुनः शेषे गुण-रीति-रस-अलङ्काराणाञ्च च वर्णनमस्ति । अत्र मुख्यतो दृश्यकाव्यमेव परिभाष्यते । सर्वप्रथमं अग्निपुराणे काव्यलक्षणं निर्दिश्यते-"संक्षेपाद् वाक्यमिष्टार्थव्यवच्छिन्ना पदावली।" काव्यं स्फुरदलंकारं गुणवद् दोषवर्जितम् ।।" " अत्र काव्यस्य पञ्च तत्त्वानि स्वीक्रियन्ते इष्टार्थः, संक्षिप्तं वाक्यम्, अलङ्काराः, गुणाः, दोषाश्चेति। एतेन काव्यस्य बाह्यरूपरेखा स्फुटीभवति। एतदनन्तरं प्राचीनाचार्यो भामहः काव्यालङ्कारग्रन्थे काव्यलक्षणम् अभिधत्तेः- " शब्दार्थी सहितौ काव्यम्।" भामहः वदन्ति यत् यत्र शब्दार्थों परस्परौ सहितभावं प्रतिस्पर्धा वा कुर्वन्तौ परोगच्छतः, तत्र शब्दार्थसन्निधौ काव्यत्वं सब्जायते। भामहानुसारं शब्दालङ्कारस्य अर्थालङ्कारस्य च सहभाव एव काव्यसौन्दर्यद्योतको भवति। सः शब्दार्थों समानमहत्वं पददानः उभयोः शब्दार्थयोः प्रतिस्पर्धायाः यथार्थतायाः च उपयोगीतां सिद्ध्यति। शब्दार्थयोः आभ्यामेव प्रतिस्पर्धा- उपयुक्तताभ्यां चारुत्वस्य सौन्दर्यस्य च निष्पत्तिर्भवति। 'शरीरं आचार्यदण्डी काव्यलक्षणं कथयन् स्वीकरोति यत् तावदिष्टार्थव्यवच्छिन्नापदावली। अर्थात् शरीरम् इप्सितार्थ-उद्घाटनस्य पदावली वर्तते। डा० नागेन्द्रः भामहस्य काव्यलक्षणं विश्लेषयति। नागेन्द्रानुसारम् इष्टार्थस्य अभिव्यञ्जकः शब्दः तथा शब्दार्थयोः साहित्यम्, सहभावः, सामञ्जस्यता वा एका एव। यतोहि कोऽपि शब्दः तदा एव इष्टार्थम् अभिव्यञ्जयितुं शक्नोति, यदा शब्दार्थों पूर्णतया सहभावी भवतः । आचार्यवामनः तस्य काव्यालङ्कारसूत्रे रीतिरात्मा काव्यस्य " इति निगदन् रीतिमेव काव्यात्मरूपेण स्वीकरोति। रीतिशब्देन शैली सालङ्कृतित्वं च अभीष्यते । वामनेनोच्यते- गुणालङ्कासंस्कृतयोः शब्दार्थयोर्वर्तते, तु शब्दार्थमात्रवचनो गृह्यते। रुद्रटाचार्योऽपि 'काव्याल‌ङ्कारग्रन्थे काव्यस्वरूपविषये एवम् आह- "शब्दार्थी काव्यम्" इति । रुद्रटः शब्दं अर्थञ्च एव काव्यम् इति मन्यते । भामहवत् एव आचार्यरुद्रटः शब्दार्थयोः काव्यत्वं स्वीकरोति ।ध्वनिकार आनन्दवर्धनः काव्यस्य आत्माविषये एवं दीयते तस्य ध्वन्यालोके "काव्यस्वात्मा ध्वनिरिति बुधै समान्मात पूर्वः..." इति । काव्यस्यात्माविषये आलङ्कारिकाः तेषां तेषां तत्त्वानां प्रतिपादनं कुर्वन्ति किन्तु वस्तुतः काव्यस्यात्मा ध्वनिरेव विद्यतो तस्य अर्थस्य प्रतिपादनं प्राचीनैः व्यासवाल्मीकिकालिदासप्रभृतिभिः स्वकीयैः लक्ष्यग्रन्यानां माध्यमेन प्रतिपादनं चक्रुः । पुनः काव्यस्वरूपविषये आचार्य आनन्दवर्धन एवं दीयते - “सहृदयहृदयाह्लादिशब्दाऽर्थमयत्वमेव काव्यलक्षणम् "" इति । अर्थात् सहृदयानां हृदयाह्लादकौ शब्दार्थों एवं काव्यं भवितुम् अर्हति इति राजानकानन्दवर्धनस्य मतम् । अनेन प्रतीयते यत् असौऽपि शब्दार्थो एव काव्यत्वम् अङ्गीकरोति । आचार्यकुन्तकानुसारम् अलङ्कारसंहितौ शब्दार्थों एव काव्यम्। असी अलङ्कारं काव्यस्य न स्वीकृत्य मुलाधाररूपेण गृह्णाति । एषः काव्यस्य व्यवस्थितलक्षणं प्रस्तूयं कथयति काव्यमर्मज्ञानां आह्लादजनकवक्तमयकविकौशलयुक्ता-रचनयां विद्यमानौ शब्दार्थों एवं काव्यम् इति। अयं शब्दार्थयो उभयोः सदभावं काव्यमिति मन्यते। उक्तञ्च "शब्दाऽथों सहितौ वक्तकविव्यापारशालिनी । बंधे व्ययस्थिती काव्यं तद्विदाह्लादकारिणी ।।" राजानकमहिमभट्टेन व्यक्तिविवेकनामकः प्रख्यातग्रन्थः विरचितवान् । व्यक्तिविवेके प्रथमविमर्श ध्वनिलक्षणे 'काव्यविशेषः' इत्यत्र विशेषशब्दोपादानं व्यर्थमिति प्रतिपादयितुं किं तावत् काव्यम् इति महिमभट्टः कथयति । तद्यथा- " विभावादिसंयोजनात्मा रसाऽभिव्यक्त्यव्यभिचारी कविव्यापारः काव्यम्। " काव्यकौतुके भवति तस्य कर्म स्मृतं काव्यम् इति कविशब्दसन्निधानेन चायं व्यापारः न सामान्यः अपि तु विभावादिघटनासु अभाव एव । तेन चायं नियमेन रसापेक्षी एव भवति । विभावादिसंयोजनत्वेनैव शब्दर्थयोः काव्ये प्राधान्यम् । तेन न केवलेन शब्दार्थसंयोजनेन व्यापारेण कवित्वसिद्धिः परं विभावादिसंयोजनात्मना व्यापारेणैवेति निष्कर्षो जायते। विभावादिसंयोजनस्यापि परमंप्रयोजनम् अव्यभिचारेण रसाभिव्यक्तिः भवति । आनन्दवर्धनाचार्यमतेन तावत् वस्तुमात्रेण अलङ्कारादिना वा ध्वनिना काव्यत्वं कथञ्चित् वक्तुं शक्यते। महिमभट्टमतेन तु रसेन विना काव्यं न जायते । काव्यस्यात्मनि संज्ञिनि रसादिरूपे न कस्यचिद्विमतिः इति निःसन्देहं प्रख्यापयता महिभट्टेनैव अलङ्कारशास्त्रस्येतिहासे सर्वप्रथमं रसस्य सर्वाधिकं महत्वं प्रदाय काव्यलक्षणमुक्तम्। एतदेव काव्यलक्षणं महिमभट्टपरवर्तिना विश्वनाथकविराजेन साहित्यदर्पणे भङ्ग्यन्तरेण कचितम् । "काव्यमात्रस्य अन्वयव्यतिरेकाभ्यां रसस्य काव्यात्मत्वं ग्रन्थे तत्र तत्र स्पष्टतया उपपादितं वर्तते । ध्वनिकारस्यापि एष एवं सिद्धान्तः इष्टः स्यादिति महिमभट्टो वदति । तद्यथा ध्वनिव्यपदेशविषयत्वनेष्टत्वात् तस्य रसात्मकत्वोपगमात् " इति । यत् स एवाह - " काव्यस्यात्मा स एवार्थस्तथा चादिकवेः पुरा । क्रौञ्चद्वन्द्ववियोगोत्थः शोकः श्लोकत्वमागतः " ।। इति । व्यतिरेकेणापि रसस्य काव्यात्मत्वं महिमभड्डेन बहुत्र निरूपितमस्ति । तत्रैकत्र यथा- "अत एव च न गुणालङ्कारसंस्कृतशब्दार्थमात्रशरीरं काव्यम्..... तस्य रसात्मकताभावे मुख्यवृत्त्या काव्यव्यपदेश एवं न स्वात् किमुत विशिष्टत्वम्" इति। महिमभट्टेन ध्वनिलक्षणे समुद्भावितानां दोषाणां परिहारानन्तरं निर्दुष्टं यल्लक्षणमुक्तं तदपि काव्यलक्षणमेवास्ति । तद्यथा - वाच्यस्तदनुमितो वा यत्रार्थोऽर्थान्तरं प्रकाशयति । सम्बन्धतः कुतश्चित् सा काव्यानुमितिरित्युक्ता ।। इति । सरस्वतीकण्ठाभरणग्रन्थे आचार्यभोजः काव्यलक्षणविषये एवमुष्यते - "निर्दोषं गुणवत्काव्यमलङ्कारैरलङ्कृतम् । रसाऽन्वितं कविः कुर्वन्तीर्ति प्रीति च विन्दति ।।"" अर्थात् दोषरहितं सगुणं अलङ्कारैरलंकृतं रसयुक्तं शब्दार्थयुगलमेव काव्यम् इति भोजराजमतम् । आचार्येण काव्यलक्षणे स्पष्टतया शब्दार्थयो वर्णनं क्रियते । तत्प्रदत्ते लक्षणे' काव्यलंकारै' तथा रसान्वितं ' इति पदद्वयेन अनुमातुं शक्यते यत् भोजोऽपि पूर्ववर्तीणाम् आचार्याणामिव काव्ये शब्दार्थयोः समन्वयं स्वीकृतवान् । पुनः रसान्वितम् इति विशेषणों दीयते। परन्तु केवलेन शब्देन : एवं रसस्य साक्षात् अन्वयः न भवितुमर्हति। अतः स्पष्टो जायते यत् भामहवत् भोजदेवेन अपि काव्ये शब्दार्थयोः महत्वं स्वीक्रियते ।काव्यशाने मुख्यत्वेन आचार्यमम्मटस्य लक्षणं स्वीक्रियते उद्धये प्रस्तूयते च तददोषी शब्दार्थी सगुणावनलङ्कृती पुनः क्वापि। लक्षणे तत् काव्यस्य स्वरूपं सर्वाङ्गत्वेन व्यवस्थापयति । अत एव काव्यशास्त्रज्ञैर्लक्षणमुतद् बाहुल्येन स्वीक्रियते। अत्र पूर्वाचार्यैः स्वीकृतं शब्दार्थयोर्महत्वं पूर्ववद् उपस्थाप्यते । काव्ये प्रसादादि गुणानां महत्वमत्र स्वीक्रियते। काव्ये उत्कटदोषाभावेऽपि विशेषतोऽवधानं दत्तम् । 'अनलंकृती पुनः कापि इत्यनेनालंकाराणां गौणत्वं प्रतिपाद्यते। तदभावेऽपि न काव्यत्वक्षतिः। आचार्यों मम्मट इदमुत्तममतिशयिनि व्यङ्ग्ये वाच्याद् ध्वनिर्बुधैः कथितः । इत्यनेन ध्वनेर्महत्त्वमप्युपपाइते। आचार्यों हेमचन्द्रोऽपि काव्यानुशासने प्रकारान्तरेण मम्मटाभिमतं निर्दिशति। अदोषौ सगुणी सालङ्कारौ च शब्दार्थों काव्यम् । कविकुलशेखरेण राजशेखरेण तदीये काव्यमीमांसाग्रन्थे काव्यस्वरूपम् एवं दीयते "गुणवदलङ्कृतं वाक्यमेव काव्यम् "। अर्थात् गुणविशिष्टम् अलंकारेण अलंकृतं च वाक्यमेव (पदसमूह) काव्यम्। गुणालंकारयुक्तस्य वाक्यस्य नाम एवं काव्यं भवति । आचार्यमन्यते यत् काव्येषु अतिशयोक्तिदोषानां समावेशं भवितुमर्हति । तस्यानुसारं अतिशयोक्तिपुर्णकाव्यं न हि त्याज्यं भवति न हि असत्यम् । अर्थात् काव्ये य अतिशयोक्तिं भवति तस्य समर्थनं शास्त्रे लोके च द्वयमेव भवति । काव्येषु शृङ्गाररसोऽपि प्रयुज्यते । तत्र पुरूषनार्योः मिलनवर्णनं अश्विलं भवति इति केचाञ्चित् मतम् । अस्मिन् विषये आचार्यराजशेखरस्य मतमस्ति यत् काव्ये मनुष्यजीवनस्य समग्रताया अभिव्यक्तिः विधियते अथवा भवति तर्हि तत्र संयोगः किमर्थं वर्जितः स्यात् । कलावादस्य दृष्टिनुसारं तुः तु श्लील-अश्लीलस्य विवादमेव न भवितुमर्हति । आचार्यविश्वनाथस्य काव्यलक्षणं प्रायो विद्वद्भिः प्रशस्यते "वाक्यं रसात्मकं काव्यम् । रस एवात्मा साररूपतया जीवनाधायको यस्य। तेन विना तस्य काव्यत्वाभावस्य प्रतिपादितत्वात् । रस्यते इति रसः' इति व्युत्पत्तियोगाद् भावतदाभासादयोऽपि गृह्यते । अत्र ध्वनिकारैः प्रतिपादितो रसध्वनिरेव काव्यत्वेन स्वीक्रियते । अग्निपुराणेऽपि रसस्य महत्वं प्राप्यते "वाग्वैदग्ध्यप्रधानेऽपि रस एवात्र जीवितम्। भरतेनाप्युच्यते नहि रसाद् ऋते कश्चिदर्थः प्रवर्तते। एवं विचार्यते चेत् तर्हि ज्ञायते यत् विश्वनाथेन पूर्वाचार्यै: अङ्गीकृतं काव्यस्य रसात्मकत्वं स्फुटं प्रतिपादितम्। तैतिरीयोपनिषदि रसो वै सः• इति ब्रह्म रसरूपेण प्रतिपाद्यते, तत्प्राप्तिसाधनत्वेन काव्यमपि रसात्मकमिष्यते । रस्यते आस्वाद्यते इति रसः' इति लक्षणयन् आचार्यों भरतः काव्यम् आस्वादनीयं मनुते। एवमपि विश्वनाथकृतं लक्षणम् उचितं प्रतिभाति। आचार्यजगन्नाथमहाभागेन रसग‌ङ्गाधरे काव्यलक्षणप्रतिपादयता प्रोक्तम् "रमणीयार्थप्रतीपादक : शब्द: काव्यम् "5" । अर्थात् रमणीयार्थस्य प्रतिपादकः शब्द एव काव्यम्। रमणीयश्चासौ अर्थ: रमणीयार्थः रमणीयार्थस्य प्रतिपादकः रमणीयार्थप्रतिपादकः तादृश: शब्दः रमणीयास्य स्वज्ञानद्वारकविलक्षणचमत्कारकारणतया सुन्दरस्यार्थस्य वाच्यलक्ष्यव्यङ्गयान्यतमस्य, प्रतिपादकों बोधकः शब्दः काव्यम्। तथा च लक्षणस्वरूपं तावत् रमणीयार्थप्रतिपादकत्वे सति शब्दत्वं काव्यत्वम् इति । एवं रूपेण विभिन्नालंकारिकाः स्वकीये काव्यशास्त्रे काव्यस्य लक्षणं स्वरूपं वा सम्यकतया सुष्पष्टतया च दत्तम् । अघः शब्दार्थस्य, शब्दस्य, रसस्य तथा ध्वनेराधारेण च काव्यस्वरूपं मया उपस्थाप्यते ।

         जीमनि हालै
"https://sa.wikipedia.org/w/index.php?title=सदस्यः:Jimani_Haloi&oldid=483762" इत्यस्माद् प्रतिप्राप्तम्