सदस्यः:Jyotirmayee panigrahi

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

वर्तमान सन्दर्भे शिक्षायाः उपादेयता

         मानवः सुखशान्त्यर्थं जन्मनैव प्रयासः क्रियमाणो दृश्यते   ।मानवः पूर्णशान्तिः शिक्षयैव अलभत । शिक्षायाः अमोघास्त्रेण सः चमत्कृतः अभवत् । तस्य सामाजिक तथा नैतिकोन्नतेः कारणं शिक्षा एवास्ति । तथा एव सः आलक्ष्यं गच्छति । यतः तस्यानुभवः जातः यत शिक्षां विना मानवजीवनं पशुतुल्यं वर्त्तते । यतो हि शिक्षां विना कर्तव्यबोधः नैव भवति । शिक्षयैव तस्य अन्तर्निहितशक्तीनां विकासः अपि सञ्जायते । अतः एव मानववृत्तेः विकासाय तथा आध्यात्मिकशान्त्यर्थं शिक्षा परमावश्यकी वर्त्तते । शिक्षया मानवस्य वुद्धिः परिष्कृता परिमार्जिता च भवति । मानवं सद्सत् इत्यस्यापि ज्ञानं शिक्षया एव भवति । भारतीयशिक्षायाः एकमात्रोद्देश्यं मानवाय पूर्णज्ञानप्रदानमेवासीत् । अनेन सः अज्ञानान्धकारात् बहिः आगत्य ज्ञानस्य प्रकाशे विचरणं करोति स्म । प्राचीनकाले एषा शिक्षा नगरस्य दूरे वनेषु स्थिरेषु महर्षिणाम् आश्रमेषु दीयते स्म ।ब्रह्मचारी पञ्चविंशतिः वर्ष पर्यन्तमध्ययनं करोति स्म । एतेषु पवित्राश्रमेषु छात्रस्य सर्वाङ्गीणोन्नत्यै वलं दीयते स्म । बहुमुखीप्रतिभायाः अवसरं प्राप्यते स्म । तदानीं भारतदेशः सम्पूर्णविश्वं शिक्षायाः पाठं पाठयति स्म । जनाः देववाणीग्रहणार्थम् आगच्छन्ति स्म ।तदानीं वैदेशिकाः अस्माकं भारते आगत्य अस्माकं भारते आगत्य अस्माकं संस्कृतिम्,आध्यात्मं च अवगच्छन्ति स्म । सत्यं वद, धर्मं चर, अतिथि देवो भव, मातृ देवो भव ,इत्यादयः सूक्तयः अस्माकं राष्ट्रैव आचर्यन्ते । तक्षशिला तथा नालन्दाविश्वविद्यालयौ तदानीन्तन शिक्षायाः केन्द्रे आस्ताम् । चाणक्यः तादृशः राजनैतिज्ञः तथा कौमारः तादृशः  शल्यचिकित्सकः अस्माकं देशैव आस्ताम् । कस्यापि देशस्य भाविनागरिकाः छात्राः भवन्ति तथा प्रत्येकदेशस्य प्रगति तस्य देशस्य शिक्षायाम् आश्रिता भवति । किमर्थं अद्य अमेरिका, जापान, चीन् इत्यादि राष्ट्राणां संस्कृतेः गानं नैव क्रियते, तस्य पृष्ठे किमपि कारणं स्यात् । तत् कारणं संस्कृति शिक्षायाः एव वर्त्तते । इदानीं वयमपि पाश्चात्यसंस्कृतेः शिक्षायाः वा अनुकरणं कुर्वन्तः स्मः। यतो हि तेषां राष्ट्राणां संस्कृतिः अल्पसमयेनैववहुधनं प्रापयति । यतोहि तत्र शिक्षा नाम धनार्जनमस्ति । तत्र तु मातापुत्रसम्बन्धः जन्मपर्यन्तम् एव भवति । परन्तु भारते सा साक्षात् देवीस्वरूपा पूज्यते । उक्तमपि महर्षि बाल्मीकिना रामायणे यथा-

अपि स्वर्णमयी लंका, न मे लक्ष्मण रोचते। जननी जन्मभूमिश्च, स्वर्गादपि गरीयसी ।। कःअपि शिक्षितो भूत्वा वृत्तिं प्राप्नोति चेत् समाजः तं हीनभावनया पश्यति । संस्कृतछात्राणां विषये तु अधिकाधिकहीनभावना जनेषु दरीदृश्यते । अध्ययने अयम् उत्तम नैवासीत् एतस्मात् कारणादेव अनेन संस्कृतम् अधीतम् । देहल्याम् आयोजिते केन्द्रीयविद्यालयसंगठनस्य स्वर्णजयन्तीसमारोहे मुख्यातिथिरूपेण अस्माकं प्रधानमन्त्रीणः उक्तवन्तः यत् –छात्राः इदानीं यत् किमपि पठन्तः सन्ति तत्तु अपेक्षया न्युनमेवासीत् । एषा टिप्पणी प्रधानमन्त्रिणा कृतं 2000 शीर्षविश्वविद्यालयेषु भारतस्य एकः अपि विश्वविद्यालयः नास्ति, तत्र तैः तदर्थमेव असन्तोषं प्रकटितम् । इदानीं छात्राः पाश्चात्यसंस्कृतेः अन्धानुकरणमेव कुर्वन्तः सन्ति । अत एव गीतायां भगवता श्रीकृष्णेनोक्तम्-

         “श्रेयान् स्वधर्मो विगुणः परधर्मात् स्वनुष्ठितात् ।
          स्वधर्मे निधनं श्रेयः, परधर्मो भयावहः ।।’’ (गीता )

अर्थात् यदा यदा जनाः अन्यस्य राष्ट्रस्य शिक्षां, संस्कृतिं च स्वीकुर्वन्ति तदा तदा तेषां हानिः एव भवति । अत एव इदानीं कालः शयनस्य नास्ति अपितु जागरणस्यैव वर्त्तते । अतः एव स्वामिविवेकानन्देनोक्तम् यत् – “उतिष्ठत जाग्रत प्राप्यवरान्निवोधयत इति ’’।

"https://sa.wikipedia.org/w/index.php?title=सदस्यः:Jyotirmayee_panigrahi&oldid=449634" इत्यस्माद् प्रतिप्राप्तम्