सदस्यः:Kabyasmita
वेदान्तदर्शने शिक्षायाः महत्वम् ″दृश्यते ज्ञायते विचार्य्यते परमतत्त्वज्ञानम् अनेन इति दर्शनम् ।‶ दर्शन शब्द 'दृश्' धातु करणार्थे ल्युट् प्रत्येयात् निष्पन्न भवति । दर्शन शब्दस्यअर्थ तत्त्वदर्शनम् । यद्यपि दर्शन इति पद चक्षुरिन्द्रियेण सम्वद्धम् अस्ति । अर्थात् चक्षु इन्द्रिय माध्यमेन प्राप्त प्रत्यक्षज्ञानं भवति दर्शनम् । दर्शनस्य प्रारम्भ लौकिक पदार्थ साक्षात्कारेण भवति । तथापि दर्शनस्य चरम लक्ष्य आत्मसाक्षात्कारः । अस्मिन् प्रपञ्चे अनादि कालादेव आध्यात्मिकः – अधिभौतिकः –अधिदैविकः त्रिविधाः दुःखात् निवृत्ति निमित्तं मानवानां कृते दर्शनं नित्यान्त आवश्यकः । दर्शनस्य अध्ययनं माध्यमेन दुःखस्य दूरीकरणं भवति तथा मोक्षप्राप्तिः भविष्यति । साधारणतः दर्शनम् द्विविधम् । यथा भारतीय दर्शनम्, पाश्चात्य दर्शनम् । पुनः भारतीय दर्शनम् द्बिविधम् यथा- आस्तिक दर्शनम् , नास्तिक दर्शनम् । षड् आस्तिक दर्शनम् पराम्परायां वेदान्तदर्शनम् अन्यतमः । वेदान्तस्य अर्थ वेदस्य अन्तः । वेदस्य अन्तिम् भागः भवति उपनिषद । उपनिषद दर्शनम् एव वेदान्तदर्शनम् । वेदान्तदर्शनस्य प्रतिपादकः महर्षि वादरायणः । वेदान्तदर्शने उक्तम् यत् - ″ब्रह्म सत्यं जगत मिथ्या ‶ अर्थात् ब्रह्मतत्त्व सत्यं, इदं संसार मिथ्या इति मन्यते । प्रत्येक जीवनदर्शनं एकस्य विश्वासस्य उपरि आधारित भवति । यदि विश्वास अयं जीवनाय उपयोगी वा आवश्यक अस्ति तर्हि तस्य शैक्षिक महत्त्वं अपि अवश्यमेव भवितव्यम् । दर्शन शिक्षायोः मध्ये घनिष्ठ सम्बन्धः अस्ति । दर्शनशिक्षां प्रभावी करोति । शिक्षा माध्यमेन मानवानां व्यवहारे परिवर्त्तनं, संस्कारी, धार्मिक भावना, विद्वान, दार्शनिकाः भवन्ति । वेदान्तदर्शने शिक्षायाः उद्देश्यानि– वेदान्तदर्शनानुसारं शिक्षायाः मुख्यमुद्देश्यं भवति । ब्रह्म साक्षात्कारः । एवञ्च ″विद्यायाऽमृतमश्नुते‶इति ईशावास्योपनिषद वाक्ये विद्या शब्देन परब्रह्म विद्या एवविवक्षिता । उपनिषद दर्शनानुसारं परब्रह्म विद्याया परमपुरूषार्थस्य मोक्षस्य प्राप्तिः । मोक्षप्राप्तिः जीवनस्य उच्चतम लक्ष्यम् इति मन्यते । ″सा विद्या या विमुक्ते‶ अर्थात् विद्या नाम मोक्ष प्राप्त्यर्थं साधनम् उपकारिणी वा इति उच्यते । ″ वसुधैव कुटुम्वकम्‶ सम्पूर्ण्ण जगतं कुटुम्व सदृशं मन्यते । काम-क्रोध-लोभ-मोह आदि षड् रिपु दूरीकरण शिक्षायाः उद्देश्य भवति । वेदान्तदर्शनस्य पाठ्यक्रमः – वेदान्तदर्शनानुसारं पाठ्यक्रम् आध्यात्मिकः, परमार्थिक धार्मिकः विषयः भवति । वेद-उपनिषद-गीता-भागवत-पुराणादि विषयेषुप्रमुखता प्रदेयं पाठ्यक्रम भवति । उपनिषद गीतादि विषय पाठन माध्यमेन मानव संस्कारित तथा उत्तमाचरणः करोति । वेदान्तदर्शनस्य पाठ्यक्रमः मध्ये अनुशासन प्रधानः शिक्षा प्रदानं करोति । वेदान्तदर्शनानुसारं शिक्षणविधयः – सच्चिदानन्द स्वरूप ब्राह्मणः अधिगमः छात्रस्य भवतु इति शिक्षकः कामयते । तदर्थ शिक्षण विधीनां साहाय्यं अध्यापकः कामयते । तदर्थ शिक्षण विधीनां साहाय्यम् अध्यापकः स्वीकरोति । तत्र मुख्य रूपेण विधिद्वयस्य उपयोगं करोति । यथा – (a)अध्यारोप विधिः (b)अपवाद विधिः अध्यारोप विधिः – अध्यारोपे वस्तुनः अवस्तुनः च आवश्यकता वर्त्तते । रज्जौ सर्पस्य अध्यारोपः भवति । रज्जु वस्तुः भवति । सर्प अवस्तु भवति । एवमेव ब्रह्मणि जगतः अध्यारोप भवति । अत्र ब्रह्म वस्तु भवति जगत अवस्तु भवति । अनेन विधिना शिक्षकः छात्रसमक्षे इदमुपस्थापयति । यत् – आत्मा एव शरीरम्, आत्मा एव बुद्धिः आत्मा एव अन्तःकरणं तथा च आत्मा एव समर्थ पदार्थः इति एवञ्च अनेन विधिना अवस्तुनि वस्तुतः , ब्रह्मणि जगतः च अध्यासः क्रियते । अपवाद विधिः – ″अपवादोनां रज्जु विवर्तस्य सर्पस्य रज्जुमात्रात्वाद वस्तु विवर्तस्य अवस्तुनोऽज्ञानादेः प्रपञ्चस्य वस्तु मात्रं ‶ इति । विधिना तर्क शैल्या युक्ता च क्रमशः इदं सिद्धं क्रियते । यत् आत्मा तु शरीर न मनः न वा बुद्धि न तु पदार्थः किन्तु एतत् अतिरिच्य भिन्न पदार्थः भवति इति । अन्ते आत्मनः अजरत्वम् अविनाशित्वं चोपदिशता प्रोच्यते । शिक्षकस्य गुणः – वेदान्तदर्शने शिक्षकस्य स्थानं अत्यन्त महत्वपुणं वर्त्तते । विद्यालये छात्राणां मेरूदण्डः भवति शिक्षकः । शिक्षकस्य पर्याय शब्द भवति गुरूः, आचार्यः, अध्यापकः, उपाध्यायः तथा च आङ्गलभाषायाः Teacher इति कथ्यते । शिक्षा शास्त्रीणः मतानुसारं – शिक्षकस्य तात्पर्य भवति प्रथमतः 'शि' अक्षरस्य अर्थ शिष्टाचारी, 'क्ष' अक्षरस्य अर्थ क्षमाशीलः । 'क' अक्षरस्य अर्थ कर्मठ वा कर्त्तव्यप्रियः भवति । शिक्षकः न केवल छात्राणां मेरूदण्डः अपि तु छात्राणां समक्षे ब्रह्मा, विष्णु, महेश्वरः सदृश भवति कथ्यते – ″गुरू ब्रह्मा गुरूर्विष्णुः गुरूर्देवो महेश्वरः । गुरू साक्षात् परमब्रह्म तस्मै श्रीगुरूवे नमः ।।‶ शिक्षकः छात्राणां अज्ञान रुपकअन्धकारात् ज्ञान रुपक आलोक प्रदानं करोति । शिक्षकस्य गुणः भवति सत् चरित्र, मित्रवत् व्यवहारः, उत्तम् आचरणः प्रदर्शयति तथा च आध्यात्मिक विषये ज्ञान अध्यापकः पार्श्वे अस्ति । छात्राणां प्रति समभावेण दृष्टिः प्रदेयति । शिक्षकः सदासर्वदा समयपालकः भवति। अस्माकं समाजे शिक्षकं सर्वोच्चस्थाने तिष्ठन्ति । गुरु-शिष्य सम्बन्धः– वेदान्तदर्शने गुरु शिष्य सम्बन्धः पितापुत्रवत् आसीत् । उपनयन संस्कारः अनन्तरं गुरु समीपे शिष्यः अध्ययनं करोति । गुरु शिष्यः मध्ये सम्बन्ध सदासर्वदा परस्परं प्रति उत्तम् आचरणः , सहयोग भावना , परस्परं प्रति सम्मानं, ,स्नेहपूर्ण भवति । गुरु आशीर्वादेन शिष्यः बुद्धि , विद्या, ज्ञानं , तेजस्व्री , यशः प्राप्नोति । गुरु विश्वमित्रस्य आशीर्वादेन रामचन्द्रः युद्धे विजय प्राप्तवान् । संसारे रामचन्द्रस्य यशः, ख्यातिः सर्वविख्यात् अभवत् । गुरु शिष्यस्य शारीरिकः, मानसिकः, बौद्धिकः, आध्यात्मिकः गुणानां विकासः करोति । शिष्यस्य कर्त्तव्य गुरु सेवा गुरु आज्ञापालनं कुर्यात् । निष्कर्ष – अतएव स्पष्टमस्ति यत् वेदान्त दर्शने वेद, उपनिषद अज्ञानात् निवृत्तिः , मोक्षप्रप्तिः, ब्रह्मज्ञानप्राप्तिः, आत्मा ज्ञानप्राप्तिः आदि विषये आलोचना दृष्टिया अतीव समृद्धदर्शनम् अस्ति । शिक्षा केवल ज्ञानार्जनाय एव नास्ति अपि तु व्यक्तेः जीवनं गम्भीर्य रुपेण सच्चरित्रं प्रति प्रेरयति इति ।