सामग्री पर जाएँ

सदस्यः:Kalyani345/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

                                      पर्यावरणं स्वास्थ्यं च

                    परमवैचित्र्यमयी ‌इयं प्रकृतिः तथा मातृतुल्ये प्रकृतिः। कदाचित् शभिकराल‌रूपिणी कदाचित् वा परमाह्लादिनी। जनसंख्यावृद्धि कारणात् मानवस्य व्यक्तिगत-सामाजिक-स्वास्थ्यस्योपरि  अवधानाभावात् जनानां पुरतः स्वास्थ्यं सम्बन्धिन्याः समस्याः उत्पन्नाः अभवन्। एवं प्रतिदिनं वयं  प्राणदातारं वायुं,पवित्रजलं च विषपूरितकुर्वन्तः स्मः। अद्यतनकाले अस्माकं कर्त्तव्यमस्ति यत् जनसंख्याविषये, वातावरणविषये,उचितस्वास्थ्य सम्पादनविषये च सर्वत्र जनानां जागृतेः सम्पादनम्। यतः एतेन भविष्यत्कालिकजनानां स्वास्थ्य-सुरक्षा-विभसुखशान्तिसंवर्धनं च जायते।व्यक्तिगतस्वास्थ्य सम्पादने प्रमुखतत्वानि एतानि भवन्ति। मानवीयजीविविज्ञानसम्पादनं,जीवनप्रकारः,आर्थिकस्तरः,पर्यावरणं, स्वास्थ्यसेवादिकार्यक्रमणाम् आयोजनं चेति।  

                                शारीरिकपुष्टिरेव मानसिकविकासे प्रमुखं कारणं भवति। स्वस्थे शरीरे स्वस्थः मनः इति वचनानुसारेण स्वास्थ्यसंरक्षणस्य मुख्योध्देश्यं शारीरिक-मानसिकविकासः एवं च रोगरहितजीवनयापनं च भवति। शारीरिक-मानसिक-बौद्धिक-आध्यात्मिक विकाशानाम् उच्चादर्शेषु समन्वयनम्। असुरक्षितपेयजलं, प्रदूषित वायुः,मलमूत्रम् इत्यादि द्वारा पर्यावरणं कलुषितं भवति। येन व्यक्तिगत-जनस्वास्थ्योपरि प्रतिकूलप्रभावः पतति। अद्यतनकाले वायुप्रदूषण, ध्वनिप्रदूषणम् इत्येते आलोचनीयविषयाः सन्ति,यैः पर्यावरणस्य असन्तुलनं भवति। अतः व्यक्तिगतसार्वजानिक-स्वास्थसंरक्षणे विभिन्नप्रकारस्वास्थकरविषयाणां दूरीकरणे विशेषरुपेण अवधानं देयम्। विभिन्नप्रकारेण पर्यावरणप्रदूषणेन स्वास्थ्यसम्बन्धिनी समस्या उत्पन्नाः भवति। प्रमुखतया जलं, वायुः, ध्वनिः एवं मलमूत्रविसर्जनम् इत्यादिभिः वातावरणस्य असन्तुलनं भवति।

पर्यावरणपरिरक्षणे सुरक्षित जलं व्यवस्था स्वास्थ्यं संरक्षणं च

              जलं विना जीवनम् असम्भवं भवति। अतः विद्यालये,समाजे च सुरक्षिजलव्यवस्थाःउपरि विशेषरूपेणं अवधानं स्थापनीयम्। मूलात्रे जलस्थापनं उचितं भवति। जलपात्रं सदा परिशुभ्रं भवेत्। प्रतिदिनं जलपरिवर्तनं भवेत्। यथा परिशुद्धजलम् अस्मभ्यं मिलेत्। एतेन समीचीनस्वास्थ्यसम्पादनं भवति।

पर्यावरणपरिरक्षणे स्वच्छवायुः स्वास्थ्यं सम्पादनं च  

            अस्माकं जीवने स्वच्छवायोः महत्वपूर्णं स्थानमस्ति। विना स्वच्छवायुं जीवनविकासो नैव सम्भवति। बालकानाम् उचितशारीरिकविकासे नैव मानवाः स्वास्थ्यपूर्णाः भवन्ति। तेन मानसिक विकासः भवति। मानसिक विकासेन सम्पूर्ण जीवनस्य विकासः भवति। तर्हि स्वच्छवायोः सम्पादनं संरक्षणं च आवश्यकं वर्तते। तदर्थं वृक्षाणां संरक्षणं कर्त्तव्यम्,येन पर्यावरणसंरक्षणम् यत् भवति। पर्यावरणपरिक्षणेन स्वास्थ्यसंरक्षणम् अवश्यं भवति। तदर्थं अस्माकं कर्त्तव्यं वर्तते समये समये पर्यावरणपरिरक्षणं, स्वास्थ्यसंरक्षणं-वनमहोत्सवादीनां कार्यक्रमाणाम् आयोजनम् इति।

                  अधुना सर्वे जनाः पर्यावरणप्रदूषणेन ग्रस्ताः भूत्वा सम्पूर्ण पर्यावरणपरिरक्षणाय प्रदूषणानां दूरीकरणाय वैज्ञानिकोपायान् अन्विषयन्ति। अत एव वृक्षाणां संवद्धनेन वनसम्पदपरिरक्षणस्य महत्त्वं वैज्ञानिकाः अपि अङ्गिकुर्वन्ति।

                        अस्माकं स्वास्थ्यसंरक्षणाय परिशुद्धपर्यावरणम् अपेक्षितं भवति। यथा पर्यावरणस्य परिरक्षणं भवेत् तथा अस्माभिः कर्तव्यपरायणैः भाव्यम।