सदस्यः:Kalyaniswain
अभिप्रेरणस्य प्रकाराः-
आवश्यकताप्रणोदनोद्यीपनैः समन्वितोऽभिप्रेरको मनोविदिभः बहुविधं वर्गीकृतः। वर्गीकरणस्याधारस्तेषां वैज्ञानिकरीत्या सम्पन्नमध्ययणमेव वर्तते।विविधैः मनोवैज्ञानिकैः प्रतिपादिताः अभिप्रेरणस्य प्रकाराः समासेनात्र प्रस्तूयन्ते। थामसनमहोदयेन कृतम् अभिप्रेरकवर्गीकरणम्ः- थामसनमहोदयोऽभिप्रेरणसन्दर्भे बहुविधमनुसन्धानं कृतवान्। वैज्ञानिकरीत्या विहितैरनुसन्धानैः तेन प्रतिपादितं यदभिप्रेरकाः द्विविधाः विभज्यन्ते॒- प्राकृतिकाः कृत्रिमाश्चेति। प्राकृतिकाः अभिप्रेरकाः-आन्तरिकाभिप्रेरणं व्यक्तौ प्राकृतिकेच्छभिः,आवश्यकताभिः मूलप्रवृतिभिः सह सम्वद्धानि भवन्ति यानि प्रायः जन्मजातानि भवन्ति। एतानि व्यक्तेः तथा तस्य जातेः संरक्षणे सहायकानि भवन्ति । यथा बुभुक्षा,पिपासा,भयम्,क्रोधश्चेत्येते प्राकृतिकरुपेन जीवेषु प्राप्यन्ते।एतेषाम् अभिप्रेरकानां माध्यमेन मानवजीवस्य विकासः सम्भवति। कोऽपि बुभुक्षादीनां सन्तुष्टिःस्वान्तः सुखाय प्रसन्नताहेतोश्च करोति। तत्कृते जनस्य रुचिः सततं भवति।अतः एतत् आन्तरिकाभिप्रेरणम् इत्युच्यते ।व्यक्तेः सहजाताः अभिरुचयः,इच्छा इत्यादयोऽत्र अन्तर्भवन्ति । प्राकृतिकाभिप्रेरणम् इत्यपि अस्य नामान्तरम् अस्ति। कृत्रिमाः अभिप्रेरकाः-एतादृशा अभिप्रेरकाः वातावरणे विकासिताः भवन्ति ।वाह्याभिप्रेरणं कदाचित् व्यक्तिः आत्मसन्तोषाय कार्यं न करोति ।परन्तु किमपि लक्ष्यं साधयितुम् अथवा पुरस्कारं प्राप्तुं प्रयतते ।यथा- बालाः पित्रोः,अध्यापकानाञ्च प्रीतिसम्पादनाय कार्यं कुर्वन्ति ।अत्र व्यक्तिः पुरस्कारप्राप्तये अथवा दण्डभीत्या च कार्यं करोति। एतादृशमभिप्रेरणं वाह्यभिप्रेरणम् इति कथ्यते।एतस्यैव अप्राकृतिकाभिप्रेरणम् इत्यपि व्यवहारः वर्तते।
वाह्याभिप्रेरणस्य अपेक्षया आन्तरिकाभिप्रेरणम् एव श्रेष्ठं मन्यन्ते बहवःमनोविज्ञानकाः।आन्तरिकाभिप्रेरणम् अधिगमप्रक्रियाम् अत्यन्त प्रभावयति।अतः शिक्षकैः पितृभिश्च आन्तरिकाभिप्रेरणस्य प्रयोगः करणीयः ।परन्तु यत्र आन्तरिकाभिप्रेरणं न सम्भवति,तत्र वाह्यभिप्रेरणस्य प्रयोगः कर्तव्यः।विषयवस्तुनः स्वभावं परिवेशञ्च अवलम्व योग्याभिप्रेरणं कुर्यात्।