सामग्री पर जाएँ

सदस्यः:Kanteswar Roy/प्रयोगपृष्ठम्

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

महापुरुषः श्रीमन्तशंकरदेवः

      महापुरुषः श्रीमन्तशंकरदेवः एकः सुप्रसिद्धः वैष्णवधर्मस्य गुरुः आसीत्। ईषवीय एकोनपञ्चाशदधिकचतुर्दशशततम (२४४९) वर्षस्य आश्विनमासे असमप्रदेशस्य नवग्राम वरदोवा मण्डलस्य आलिपुखुरी नामक ग्रामे शंकरदेवस्य जन्म अभवत्। तस्य पितुर्नाम कुसुम्बर भूञा, मातुर्नाम च सत्यसन्ध्या। शैशवे एव तस्य माता-पितरौ दिवं गतौ। तयोर्मरणात्परं शंकरदेवस्य वृद्धमाता खेरसूती तं पालितवती। तदनन्तरं महेन्द्रकन्दली महोदयस्य विद्यालये शंकरदेवः शिक्षाग्रहणं कृतवान्। कानिचित् दिनानि महेन्द्रमहोदयस्य समीपे कालं यापयित्वा सः वर्णमालां ज्ञात्वा गुरुः तस्मिन् अतीव स्निह्यति स्म। अल्पे वयसि एव पुराणादिशास्त्राणि अधीत्य शंकरदेवः स्वकीय पाण्डित्यस्य परिचयं दत्तवान्।

       शिक्षां समाप्य शंकरदेवः निष्ठासहकारं शास्त्रचर्चायां तथा आध्यात्मिकसाधनायां व्रती बभूव। साधनायां सिद्धिरपि तस्य जाता। महापुरुषः शंकरदेवः एकशरण-हरि-नाम-धर्मस्य प्रवर्तकः आसीत्। तस्य मते एकस्यैव भगवतः श्रीकृष्णस्य शरणं ग्राह्यम्।

       धर्मगुरुः शंकरदेवः धर्मप्रचारार्थं कीर्तननामकं ग्रन्थं विरचितवान्। भागवतपुराणमपि अनुदितवान्। भागवतस्य आख्यानानि आश्रित्य अनेकग्रन्थान् च विरचितवान्। तेषु 'हरिश्चन्द्र-उपाख्यानम्', 'अजामिल-उपाख्यानम्', 'बलिछलनम्'- इत्यादयः ग्रन्थाः उल्लेखनीयाः। संस्कृतभाषायां शंकरदेवेन 'भक्तिरत्नाकर' नामकः संग्रहग्रन्थः विरचितः। धर्मप्रचारस्य माध्यमरूपेण तेन अनेकानि वरगीतानि अङ्कीयानाटकानि च रचितानि। अङ्कीयानाटकानां मध्ये 'रुक्मिणी-हरणम्', 'पारिजात-हरणम्', 'चिह्नयात्रा' इति एतानि सुप्रसिद्धानि सन्ति। अनेन प्रकारेण श्रीमन्तशंकरदेवः धर्मप्रचारमतिरिच्य साहित्यजगति अपि महदवदानं कृतवान्।

       यद्वा तद्वा भवतु शंकरदेवः असमराज्यस्य श्रेष्ठः महापुरुषः आसीत्। प्रायः विंशत्यधिकशतं वर्षाणि जीवित्वा असौ वैकुण्ठप्रयाणं कृतवान्।