सामग्री पर जाएँ

सदस्यः:Khulana Behera

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

महाभारतस्य कथावस्तु-

८ नीलकण्ठः (सर्वेषां लोकप्रियटीका)-भारतभावदीप-

चन्द्रवंशस्य महाराजः प्रतीपस्य पुत्रः शान्तनुः देवीं गङ्गां विवोढवान्। विवाहकाले जातपुत्राणां विसर्जनं गङ्गायामेव भवतीति गङ्गायाः प्रतिज्ञा आसीत् । परन्तु यदा शान्तनुः नाङ्गीकरिष्यति तदानीमहं पुनरपि गङ्गां गमिष्यामीति । तथैव सप्तपुत्राणां गङ्गायां विसर्जनानन्तरम् अष्टमपुत्रस्य विसर्जनसमयेऽयं शान्तनुः चादीकारः कृतवान् इति कृत्वा गङ्गा पुनरषि नदीं गतवती । तदनन्तरम् अयम् अष्टमपुत्रः भीष्मः पितुः शान्तनोः शोकम् अनुभूय सत्यवतीम् आनय पुनरपि विवाहितवान् । तस्थाः सत्यवत्याः द्वौ पुत्रौ अजायतां चित्राङ्गदविचित्रवीर्यश्चेति । अयं भीष्मः तयोः द्वयोः पुत्रयोः कृते त्रिस्त्रः राजकन्याः आनयन् । तत्र आद्या अम्बा लज्जामभिप्राप्य गतवती । सैव प्रतिज्ञां कृत्वा अन्तिमकाले भीष्मं हतवती । अम्बिकायाः धृतराष्ट्रः अम्बालिकायाः पण्डुः, एकस्याः दास्याः विदुरः इति त्रयः पुत्राः समभवन् । अयमग्रजः धृतराष्ट्रः अन्धत्वात् सिंहासनं नैवास्ढम् । तत्स्थाने तु पण्डुः स्वीकृतवान् । तेषां त्रयाणामपि विवाहः जातः । धृतराष्ट्रस्य गान्धारी, पण्डोः कुन्ती इति । धृतराष्टस्य शतपुत्रा जाताः तेषु आद्यः दुर्योधनः कन्या दुश्चला इति। दुश्चलायाः पतिः जयद्रथः । अयञ्च जयद्रथः अर्जुनेन हतः। कुन्तीगर्भात् त्रयः पुत्राः आसन् - युधिष्ठिर-भीम- अर्जुनादयः । पण्डोः द्वितीयायाः पल्ल्याः माद्रयाः गर्भात् द्वौ नकुलसहदेवौ जातौ इति । एवं क्रमेण पञ्च पाण्डवाः, शत कौरवाः समभवन् । मृगयया पण्डुः दिवं गतवान् । पुनश्च अन्धः धृतराष्ट्रः सिंहासनं लब्धवान् । दुर्योधनस्य मातुलः गान्धार्याः अनुजः शकुनिः एतयोः परिवारयोः कलहं संस्थापितवान् । अत्र द्युतक्रीडायां पाण्डवाः पराजितवन्तः । अतः चतुर्दशवर्षाणि राज्यात् बहिः घावसन् । तत्र द्वादशवर्षानन्तरम् एकवर्षम् अज्ञातवासेन मत्स्यदेशस्य राजा विराड् सहायेन स्थिताः पापदेशवाकरराज्याचे बहिः अपव्यवहारं दृष्ट्वा गदाधारी भीमः तं हतवान् । तत्र तेषां छद्मनामानि आसन् । यथा बुद्धिष्ठिरस्य वैयाघ्रपाद, भीसेनस्य अल्लभः, अर्जुनस्य बृहन्नला-नकुलस्य ग्रन्थिकः, सहदेवस्य अरिष्टनेमिः इति नामानि आसन् । पुनश्च द्रौपद्याः शैलन्ध्री आसीत् । अर्जुनस्य पत्नी सुभद्रा । तस्य पुत्रः अभिमन्युः। अभिमन्योः पत्नी उत्तरा । उत्तरायाः गर्भे अश्वत्थमा ब्रह्मास्त्रं प्रेषितवान् । कर्णस्य चातुः नाम राधा पिता अधिरथ इति इयं तु पालिता माता । परन्तु जन्मदात्री कुन्ती पिता सूर्य इति । पितामहभीष्मस्य घातकः शिखण्डी भवति । कर्णः अभिमन्युं घटोत्कचं (इन्द्रास्त्रेण) हतवान् । द्रुपदराजं द्रोणाचार्यः हतवान् । अतः द्रुपदपुत्रः दृष्टद्युम्नः राणवार्य हतवान् । युद्धिष्ठिरः शल्यं हतवान्। सहदेवः शकुनीं हतवान् । वेल्लालसेनः भीमस्य पुत्र आसीत् । भीमः सर्वान् रतकौरवान् हतवान् । दुर्योधनस्य च जानुभङ्गं कृतवान् । अर्जुनः जयद्रथं कर्णं च हतवान् । अभिमन्युः लक्ष्मणं हतवान् । स्वत्थमा धृष्टद्युम्नं हतवान् । भीष्मः उत्तरकुमारं शंयञ्च हतवान् । कर्णस्य द्रोणाचार्यस्य भीष्मस्य च गुरुः परशुरामः आसीत् । किलव्यस्य पिता हिरण्यधनुकः । शकुनेः पिता सुबलः माता सुदर्मा तस्य पत्नी आरशी, पुत्रश्च उलूकः इति । अर्जुनस्य एकः पुत्र भावान् आसीत् तं अलम्बुषः हतवान् । अश्वत्थमा-बालि-व्यास-हनुमान् च विभीषणः कृपा परशुरामश्च सप्तैति चिरञ्जिविनः । एते या चिरञ्जिविनः भवन्तिः । अतः कृपाचार्यः अश्वत्थमा च चिरञ्जिविनौ भवतः ।

"https://sa.wikipedia.org/w/index.php?title=सदस्यः:Khulana_Behera&oldid=490109" इत्यस्माद् प्रतिप्राप्तम्