सदस्यः:Kirtan padhan
अधिगमः LEARNING
शिशुः जन्मसमये निस्सहायः भवति । स्वावश्यकतानां पूर्तये सः सर्वदा मातरम् आश्रयति । गच्छता कालेन ज्ञानेन्द्रियेषु चेतनाशक्तिः प्रबला भूत्वा विविधाः प्रतिक्रियाः करोति येन वातावरणे सामञ्जस्यं संपादयति । सामञ्जस्यसंपादनावसरे सः विभिन्नानुभवान् अर्जयित्वा तदाधारेण स्वव्यवहारे परिवर्तनमानयति । इत्थमनुभवैः व्यवहारपरिवर्तनमेव अधिगमः इति कथ्यते । ज्ञानस्य , कौशलानाम् , अभिवृत्तीनाम् आचाराणाञ्च प्राप्तिरप्यधिगमः निगद्यते । नूतनपरिवेषे सामञ्जस्यप्रक्रियापि अधिगमः इत्युच्यते । प्रक्रियेयम् आजीवनं ( जन्मतः मरणपर्यन्तं ) निरन्तरं प्रचलति । इमाम् अधिगमप्रक्रियाम् अनुभवः परिपक्वता च अत्यन्तं प्रभावयतः । यथा- लघुबालः दीपं दृष्ट्वा हस्तेन तं ग्रहीतुं प्रयतते , तस्य हस्तः ज्वलति तथा पीडामनुभवति । अनेन अनुभवेन सः भविष्ये न कदापि दीपं स्पृशति । वर्षद्वयात्मकबालकः द्विचक्रिकां चालयितुं न शक्नोति यतः द्विचक्रिका चालयितुम् अपेक्षितशारीरिकविकासः नाभूत् । , अर्थात् बालकः शारीरिकपरिपक्वतां न प्राप्तवान् । परन्तु कालान्तरे 10 अथवा 12 वर्षात्मके वयसि बालकः प्रशिक्षणेन द्विचक्रिकाचालने निपुणः भवति । इत्थं दैनन्दिनजीवने वयं बहून् विषयानधिगच्छामः । विद्यालये कक्ष्याप्रकोष्ठेषु च शिक्षकस्य प्रमुखकर्तव्यं छात्रेष्वधिगमसंपादनम् । अतः शिक्षकाः अधिगमस्य स्वरूपमवश्यं जानीयुः ।
अधिगमस्य परिभाषा- स्किन्नर- व्यवहारे उत्तरोत्तरसामञ्जस्यप्रक्रिया एव अधिगमः । Learning is a process of behaviour adoption - Skinner C.E. वुडवर्त - नूतनज्ञानस्य नूतनप्रतिक्रियाणाञ्च प्राप्तिप्रक्रिया अधिगमः । The process of acquiring new knowledge and new responses is the process of learning – woodworth
गेट्स इत्यादयः- अनुभवेन प्रशिक्षणेन च व्यवहारस्य नवीकरणमेवाधिगमः । Learning is the modification of behaviour through experience and training - Gates & Others क्रो तथा क्रो - आचाराणां ज्ञानस्य अभिवृत्तीनाञ्च प्राप्तिरेव अधिगमः । Learning is the acquisition of habits , knowledge and attitudes Crow & Crow . स्मिथ् . हेच .पि.- अनुभवेन पूर्वव्यवहारस्य दृढीकरणं दुर्बलीकरणं वा , अथवा नूतनव्यवहारस्य प्राप्तिः अधिगमः । Learning is the acquisition of new behaviour or strengthening or weakening of old behaviour as the result of experience Smith H.P. • किम्ब्ले जि.ए.- अनुभवेन व्यवहारे अथवा व्यवहारसंभाव्यतायां जायमानं सापेक्षं शाश्वतञ्च परिवर्तनम् अधिगमः । औषधैः , आयासेन , अस्वास्थ्येन च जातं तात्कालिकपरिवर्तनमत्र नान्तर्भवति । Learning is relatively permanant change in behaviour or in behavioural potentiality that results from experience and can not be attributed to temporary body states such as those in duced by illness , fatigue or drugs.- Kimble GA .
अधिगमस्य लक्षणानि -( Characteristics of Learning ) - पूर्वोक्तपरिभाषाणां परिशीलनेन विश्लेषणेन व्याख्यानेनं च अधिगमस्य अधोनिर्दिष्टलक्षणानि वयं प्राप्नुमः । 1. अधिगमः सामञ्जस्यप्रक्रिया वर्तते । 2. अधिगमः सप्रयोजनं वर्तते । 3. अधिगमः अभिवृत्तीः , आचारान् , कौशलानि च विकासयति । 4. अधिगमः सार्वत्रिकः वर्तते । अर्थात् सर्वे जीवाः अधिगच्छन्ति । 5. अधिगमः व्यवहारपरिवर्तनप्रक्रिया वर्तते । 6. अभ्यासः प्रशिक्षणञ्च अधिगम प्रभावयतः । 7. अधिगमः क्रियाशीलः वर्तते । 8. अधिगमः विवेकपूर्णः सर्जनात्मकश्च भवति ।9. अधिगमः वातावरणस्य फलस्वरूपः वर्तते । 10. अधिगमः वैयक्तिकः सामाजिकश्च भवति । 11. अधिगमः व्यवहारे सततपरिवर्तनमानयति । 12. अधिगमप्रक्रिया आजीवनं प्रचलति । 13. अधिगमः शारीरिकवृद्धिं मानसिकविकासञ्च अवलम्बते । 14. अधिगमसामर्थ्य वेगश्च सर्वेषु व्यक्तिषु सर्वास्ववस्थासु समानः न भवति ।
अधिगमसिद्धान्ताः- अधिगमस्य प्रक्रिया , परिभाषा प्रकाराश्च ज्ञातपूर्वाः । तत्र ज्ञानस्य , कौशलानाम् अभिवृत्तीनाम् अभिरुचीनां समायोजनस्य च प्रक्रियैव अधिगमः इति ज्ञायते । अभ्यासः , अनुभवः , प्रशिक्षणञ्च अधिगमं प्रभावयन्ति । एवमेतेषां प्राप्तिः विभिन्नैरुपायैः पद्धतिभिश्च संभवति । अतः अधिगमप्रक्रियायाः विषये बहुभिः मनोवैज्ञानिकैः पञ्चाशदधिकाः सिद्धान्ताः प्रतिपादिताः । प्रत्येकं सिद्धान्तः आधिगमस्य स्वभावं प्रक्रियाञ्च विवृणोति । अमी सिद्धान्ताः छात्राणाम् अध्यापकानाञ्च पुरतःविविधाधिगमपद्धतीः , अधिगमसोपानानि च प्रस्तुवन्ति । केचन सिद्धान्ताः प्रेरण प्रतिक्रियाणां सम्बन्धैः अधिगमः जायत इति प्रतिपादयन्ति । अन्ये अधिगमे उद्देश्यानाम् अन्तर्दृष्टः अवबोधनस्य च महत्त्वं प्रतिपादयन्ति । अपरे तु अधिगमे अनुभवानां महत्वं प्रतिपादयन्ति । परन्त्वेतेषु न कोपि सिद्धान्तः संपूर्णाधिगमप्रक्रियायाः व्याख्याने असमर्थः वर्तते । अतः विभिन्नसिद्धान्तानाम् अध्ययनेनैव अधिगमस्य स्वरूपस्वभावान् ज्ञातुं शक्नुमः । पुनश्च तेषां सिद्धान्तानां वर्गीकरणमावश्यकम् । वर्गीकरणेन सिद्धान्तानां स्वरूपम् , आधारः , अनुप्रयोगश्च इतोऽपि स्पष्ट भविष्यति । अधिगमसिद्धान्तानां वर्गीकरणं द्वेधा भवितुमर्हति । यथा अधिगमसिद्धान्ताः प्रेरक प्रतिक्रियासिद्धान्ताः S - R Theories संज्ञानात्मक सिद्धान्ताः Cognitive Theories थार्नडेक - यत्नदोषसिद्धान्तः पावलोव - शास्त्रीयनिबन्धनसिद्धान्तः स्किन्नर - सक्रियनिबन्धनसिद्धान्तः गत्रि - सामीप्यतासिद्धान्तः हल्- चालकन्यूनीकरणसिद्धान्तः कोहर- अन्तर्दृष्ट्यधिगमः टोल्मन्- सप्रयोजनव्यवहारवादः कर्ट लेविन् - क्षेत्रसिद्धान्तः राबर्ट गाने – अधिगमानुक्रमः
अधिगमस्य प्रकाराः- ( Types of Learning )- मानवः जीवनस्य विविधसन्दर्भेषु विभिन्नावस्थासु विविधाधिगमपरिवेषान् प्राप्नोति । सः कदाचित् ज्ञानमर्जयति , कदाचित् कौशलानि प्राप्नोति , कदाचित् नियम संप्रत्ययं वा अवबुध्यते , कदाचित् समस्यां परिष्करोति च । एतेषु सर्वत्र अधिगतविषयाः भिद्यन्ते , अधिगमस्य प्रकारोऽपि भिद्यते । परन्त्वेतेषां मध्ये परस्परसम्बन्धः परस्पराश्र यश्च वर्तते । अतः एतेषां पृथक्करणं दुष्करमेव । तथापि राबर्ट गानेमहोदयः कार्येस्मिन् साफल्यं प्राप्तवान् । सः अधिगमस्य अष्टप्रकारान् निरूप्य तान्येकस्मिन् क्रमे व्यवस्था पयामास । एतादृशक्रमस्य अधिगमस्य अनुक्रमाः ( Hierarchical order of learn ing ) इति नामकरणमकरोत् । ते यथा 1. सकेताधिगमः ( Signal learning ) 2. प्रेरक - प्रतिक्रियाधिगमः ( S - R learning ) 3. श्रृङ्खलाधिगमः ( Chain Learning ) 4. शब्दसाहचर्याधिगमः ( Verbal associate Learning ) 5. बहुलविभेदीकरणाधिगमः ( Multiple Descrimination Learning ) 6. संप्रत्ययाधिगमः ( Learning of Concepts ) 7. नियमाधिगमः ( Learning of principles ) 8. समस्यासमाधानम् ( Problem solving ) इति । गानेमहोदयस्य मते एते सर्वे परस्परमवलम्बन्ते । तत्र अधिगमस्य अनन्तर प्रकाराः पूर्वप्रकारानाश्रित्य तिषन्ति । अतस्तत्र सङ्केताधिगमं विना प्रेरक प्रतिक्रिया धिगमः , एतयोर्द्वयोः विना श्रृङ्खलाधिगमः , एतैस्त्रिभिः विना शब्दसाहचर्याधिगमश्च नसंभवति । इत्थं नियमाधिगमपर्यन्तं सप्तप्रकाराणाम् अधिगममन्तरा समस्यासमाधान न संभवति ।
भारतीयाधिगमसिद्धान्तः- पूर्वोक्ताः अधिगमसिद्धान्तास्सर्वेऽपि जन्तुषु पशुशु पक्षिषु चानुसन्धानं कृत्वा पाश्चात्यैः प्रतिपादिताः आसन् । कक्ष्याप्रकोष्ठे एतेषां सिद्धान्तानां प्रयोगे सति अधिगमे अमानवीयगुणानां प्रवेशः भवतीति केषाञ्चिन्मतम् । अतः भारतीयदर्शनमाश्रित्य आचार्याः पेरिसुब्बरायन्महोदयाः आप्तवाक्याधिगमसिद्धान्तं प्रत्यपादयन् । एतत् अधिगमस्य उच्चस्तरीयोद्देश्यानां प्राप्तये अत्यन्तमुपकरोति । सिद्धान्तोऽयं बहुभिः विश्वविद्यालयैः अङ्गीकृतः वर्तते । सम्प्रति अस्मिन् विषये अनुसन्धानानि भारते विदेशेषु चप्रचलन्ति । सिद्धान्तस्यास्य सारांशः प्रस्तूयते ।
पास्चात्य अधिगम सिद्धान्तः - अपेक्षितप्रतिक्रियासम्पादनाय योग्यप्रेरकाणां चयनं कृत्वा उपस्थाप्यन्ते । एतेन प्रेरकप्रतिक्रिययोः मध्ये सम्बन्धः जायते । एतदेव अधिगममनो विज्ञानदृष्ट्या निबन्धनम् इति कथ्यते । निबन्धनप्रक्रियायां पुलर्बलनस्य महत्त्वपूर्णस्थानं विद्यते । एतेषां प्रवर्तकेषु थार्नडैक , पावलोव , स्किन्नर इत्यादयः प्रसिद्धाः वर्तन्ते । एतानेव सम्बन्धवादसिद्धान्ताः, व्यवहारवादसिद्धान्ताः इति नाम्नापि व्यवहारः क्रियते ।द्वितीयाः संज्ञानात्मकसिद्धान्ताः अध्येतुः परिसरस्य प्रत्यक्षीकरणस्य मध्ये संसर्गेण अधिगमः संभवतीति निरूपयन्ति । अधिगमप्रक्रियायां प्रयोजनम् अन्तर्दृष्टिःअवबोधनम् इत्यादिसंज्ञानात्मकसामर्थ्यानां महत्त्वमेते प्रतिपादयन्ति । एतत्सिद्धान्तस्य प्रवर्तकेषु कोहरमहोदयः , टोल्मनमहोदयः , कर्ट लेविन् महोदयः , वेर्दिमरमहोदयः प्रसिद्धा वर्तन्ते ।
यत्नदोषाधिगमसिद्धान्तं प्रत्यपादयत् । जन्तवः बहुप्रयासैः किञ्चित् अधिगच्छन्ति । यदा कश्चित् जीवः तमेव विषयं ज्ञातुं पुनः पुनः प्रयतते तदा क्रमशः दोषाः न्यूनाः भवन्ति । एवं जीवः यलदोषैरेव प्रेरकप्रतिक्रिययोः सम्बन्धं ज्ञात्वा क्रमिकाधिगम प्राप्नोति । इत्थं प्रतिक्रिययोः सम्बन्धेन अधिगमः जायत इति हेतोः सिद्धान्तमम सम्बन्धवादसिद्धान्तः इत्यपि व्यवहरन्ति । थार्नडैकमहोदयस्य मते यदा जीवस्य पुरतः किमपि प्रेरकं भवति तदा प्रतिक्रियां करोति । प्रतिक्रियया जीवः सन्तुष्टश्चेत् प्रेरकप्रतिक्रिययोः मध्ये सम्बन्धः जायते । इत्थं प्रेरकप्रतिक्रिययोः सम्बन्ध एव अधिगमः इत्युच्यते । एतादृशसम्बन्ध निर्माणप्रक्रियां बहूनि कारकाणि प्रभावयन्ति । यदि परिणामः सन्तोषं जनयति तर्हि प्रेरकप्रतिक्रिययोः सम्बन्धः सुदृढः भवति । परिणामः बाधाकरश्चेत् तयोस्सम्बन्धः न्यूनः भवति । यदि कस्यचित् विशिष्टप्रेरकस्य कस्यश्चित् विशिष्टप्रति क्रियायाश्च सम्बन्धः जायते तर्हि जीवाय विशिष्टप्रेरक प्रस्तौति चेत् विशिष्टप्रतिक्रियां करोति । इत्थं प्रेरकप्रतिक्रिययोः सम्बन्धनिर्माणमेव अधिगमः इत्युच्यते । अत एव सिद्धान्तस्यास्य सम्बन्धवादसिद्धः इति व्यवहारः लोकप्रसिद्धः वर्तते । अतः बयं जानिमः पाश्चात्य अधिगम सिद्धांत ।