सदस्यः:Krupsi 1999/प्रयोगपृष्ठम्
श्रीमन्न्यायसुधामङ्गलम् -सर्वेषां आद्यात्मिकानां भक्तानां हिताय भगवान् वेदव्यासः ब्रह्मसुत्रं इति वेदार्थनिर्णायकम् ग्रन्थं चकार। -ब्रम्हसूत्रस्य यथार्थज्ञानाय आचार्यमध्वाः अनुव्याख्यानमिति एकं प्रमेयग्रन्थमपि निरमाय। -अस्य अनुव्याख्यानस्य प्रदीपनाय जयतीर्थार्याः न्यायसुधामिति टीकाग्रन्थं अलिखन्। -सर्वे माध्वाः इमं टीकाग्रन्थं माध्वसारस्वतलोकस्य मॆरूमिति मन्यन्ते। -अस्मिन् ग्रन्थे सर्वेषां हिन्दूधर्माणां विमर्शः वर्तते। -माध्वसिद्धान्तः कथं सर्वश्रेष्ठः इत्यपि सम्यक् प्रतिपादितमस्ति। -माध्वाः दशवर्षपर्यन्तं गुरुकुले अन्यान्यशास्त्राणि अधीत्य अन्ते न्यायसुधाम् अधीयन्ते। -बहुशः न्यायसुधां गुरुकुलस्य कुलपतिरेव पाठयन्ति। -वर्षद्वयपर्यन्तं इमं ग्रन्थं विव्रियन्ते। -आन्ते स्नातकपदविवत् न्यायसुधामङ्गलं सम्पध्यते। -तथा च विध्यार्थिनां द्वादशवर्षपर्यन्तगुरुकुलवासः न्यायसुधामङ्गलेन परिसमाप्यते। -अयमेव न्यायसुधामङ्गलो नाम।