सदस्यः:Labani96/प्रयोगपृष्ठम्
केषाञ्चनालङ्कारध्वनीनामाधिकृतत्य ध्वनिसमन्वयम्
व्यार्थात् व्यङ्ग्यार्थस्य प्रधान्य सति ध्वनिः। असौ द्वनिः वस्त्वलङ्काररसभेदेन त्रिविधः। अधुना केषाञ्चनालङ्कारध्वनीनामुदाहरणं प्रदर्श्यते । यथा
“प्राप्तश्रीरेष कस्मात् पुनरपि मयि तं मन्थखेदं विदध्यात्
निद्रामप्यस्य पूर्वामनलसमनसो नैव सम्भावयामि।
सेतुं बध्नाति भूयः किमिति च सकलद्वीपनाथानुयात-
स्त्वय्यायाते वितर्कानिति दधत इवाभाति कम्पः पयोधेः।।”
अत्र तटे राजानं दृष्ट्वा समुद्रः वितर्कान् करोति असौ किं विष्णुः?पुनश्च मां मन्थिष्यति । एतदपि न । तत् पार्श्वे र्श्रीवर्तते। किं पुनः शयनं करिष्यति ? एतदपि न,यतोहि अस्य निद्रालुत्वं न दृश्यते।किं पुनः सेतुं वध्नाति?एतदपि न। यतोहि सकलद्वीपनाथः अस्य निकटे सन्ति,तेषामनुयायित्वात् तान् प्रति यद्धस्य अनावश्यकत्वात्। एवं क्रमेण पयोधिः वितर्कयति।
अत्र पयोधेः राजानं दृष्ट्वा वितर्को दयात् ससन्देह- उत्प्रेक्षालङ्कारद्वयं वाच्यायमानं भवति। अपि च राज्ञि विष्णुत्वारोपणं प्रतीयमानं भवति। अतः श्लोकेऽस्मिन् रूपकं ध्वन्यते। एवं च –
“लावण्यकान्तिपरिपूरितदिङ्गमुखेऽस्मिन्”
स्मरेऽधुना तव मुखे तरलायताक्षि!
क्षोभं यदेति न मनागपि तेन मन्ये
सुव्यक्तमेव जलराशिरयं पयोधिः।।
सुन्दरीं प्रियतमामुद्दिश्य नायको ब्रवीति-हे तरलायताक्षि!तव स्मरमुखे विद्यमाने सति यदि अस्मिन् समुद्रे क्षोभः न जायते,तर्हि अहं चिन्तयामि नूनं मयं पयोधिः जडराशिः न तु जलराशिः। अत्र जलराशिपदे डलयोरभेदात् जडराशिरित्यर्थकरणेन श्लेषः वाच्यः। अस्मात् श्लेषात् मुखे चन्द्रारोपणं व्यज्यते। आनन्दवर्धनोऽपि ध्वन्यालोके कथयति “एवंविधे विषयेऽनुरणनरूपकाश्रयेण काव्यचारुत्व-
व्यवस्थानाद्रूपकध्वनिरीति व्यादेशोन्याय्यः।”
उपमाध्वनिः
वीराणां रमते घृसृणारुणे न तथा प्रियास्तनोत्सङ्गे-
दृष्टीरीपुगजकुम्भस्थले यथा बहलसिन्दुरे।।”
अत्र श्लोके प्रियास्तनाप्रेक्षया रिपुगजकुम्भं प्रति वीराणां आग्रहातिशयत्वात् व्यतिरेकः वाच्यः। अनेन व्यतिरेकेण प्रीयास्तनगजकुम्भयोर्मध्ये साम्यं व्यज्यते। अतः उपमाध्वनिरत्र।उपमाध्वनेरन्यदेकमुदाहरणम्-
“तत्तोषां श्रीसहोदररत्नाहरणे हृदयमेकरसम्।
बिम्बाधर प्रियाणां निवेशितं कुसुमबाणेन।।”
समुद्रमन्थनकाले कौस्तुभं रत्नं दृष्ट्वा असुराणां मनसि प्रिया- अधरदृश्यं जागरितम्।अत्र असम्बन्धे सम्बन्धरूपा अतिशयोक्तिः वाच्या, अनेन रत्नप्रियाधरयोर्मध्ये साम्यं प्रतीपते इति कृत्वा उपमा ध्वनिः।
उत्प्रेक्षाध्वनिः-
चन्दनासक्तभूजङ्गनिः श्वसानिलमूर्च्छितः
मूर्च्छयत्यैष पथिकान् मधौ मलयमारूतः।
अस्मिन् श्लोके पथिकमूर्च्छाकारित्वं मलयानिलः सम्पादयतीति कथनात् मन्मथोद्दीपनकारित्वं प्रकाश्यते। एतदेव चन्दनासक्तसर्पाणां निःश्वासपवनेन उत्प्रेक्षते इति उत्प्रेक्षाध्वनिः।
एतेषामलङ्कारध्वनीनामुपयोगितां दर्शयितुं कथयति-
“शरीरीकरणं येषां वाच्यत्वेन व्यावस्थितं।
तेऽलङ्कारः परां छायां यान्ति ध्वन्यङ्गतां गताः।।”