सामग्री पर जाएँ

सदस्यः:LaxmiPriya Dalai

विकिपीडिया, कश्चन स्वतन्त्रः विश्वकोशः

आख्यातोपयोगे

आख्याता-प्रवक्ता, उपयोगे-नियमपूर्वकाध्ययनम् । नियमपूर्वकविद्याध्ययने प्रवक्तुः (अध्यापकस्य) पञ्चमी विभक्तिः भवति ।

उदा-क. छात्रः अध्यापकात् अधीते ।

ख. रामलक्ष्मणौ विश्वामित्रात् अधीतवन्तौ ।

ग. छात्राः गुरोः व्याकरणं पठन्ति ।

. जनिकर्तुः प्रकृतिः

यस्मात् उत्पद्यते तस्य अपादानसंज्ञा भवति ।

क . ब्रह्मणः सृष्टिः प्रजायते ।

ख. गोमयाद वृश्चिकाः जायन्ते ।

ग. मृगशुङ्गात् शरः जायते ।

घ. भूमेः वनस्पतयः जायन्ते ।

ङ. अनृतात् पापं जायते ।

च. सङ्गात् सेजायते कामः कामात् क्रोधोऽभिजायते ।

. भुवः प्रभवः

प्रभवति प्रयोगे यस्मात् उत्पत्ति र्भवन्ति तस्य अपादानसंज्ञा भवति । उदा-

क. हिमालयात् गङ्गा प्रभवति ।

ख. कश्मीरेभ्यः वितस्ता प्रभवति ।

१०. ल्यब्लोपे कर्मण्यधिकरणे च

ल्यप्प्रत्ययस्य लोपे अप्रयुज्यमाने पूर्व विद्यमानस्य कर्मणः अधिकरणस्य च पञ्चमीविभक्तिः भवति । उदा- क.रामः गृहे उपविश्य पठति।

अत्र उपविश्य इति। अभावे पूर्व विद्यमानस्य गृहे इत्यस्य पञ्चमीविभक्तिः भवति ।

। रामः गृहात् पठति।

ख. वानरः वृक्षम् आरुह्य पश्यति। वानरः वृक्षात् पश्यति ।

ग. दमयन्ती प्रासादम् आरुह्य बीक्षते । दमयन्ती प्रसादात् बौक्षते।

घ. नकुलः वृक्षम् आरूह्य पश्यति। नकुलः वृक्षात् सरोवरम् अपश्यत् । ङ. पितामहः शयने शयित्वा भर्त्सयति। पितामहः शयनात् भर्त्सयति ।

११. प्रश्नाख्यानयोक्ष पञ्चमी वक्तव्या

प्रश्न-उत्तरकथनप्रसङ्गेऽपि पञ्चमीविभक्तिः भवति । उदा-त्वं कस्मात् । (त्वं कस्मात् स्थानात् आगच्छति इत्यर्थः)

उत्तरम्-ग्रामात् (ग्रामतः आगतवान्)

प्रश्न:-कुतः त्वम् ।

उत्तरम्-विद्यालयात् ।

यस्मात् मार्गवाचक-कालवाचकादीनां मापनं भवति । तस्मात् पञ्चमीविभक्तिः भवति । उदा-

क. बनाद ग्रामः योजनं योजने वा ।

ख. कार्तिक्या: मार्गशीर्षः मासे ।

ग. कटकात् भुवनेश्वरं त्रिंश क्रोशा: ।

प. मङ्गलवासरात् शनिवासर: त्रिषु दिनेषु अस्ति ।

उपपदविभक्ति:


अन्य, आरात्, पूर्व, उत्तर, पश्चिम, प्राक्, पञ्चमौविभक्तिः भवति । अन्य इत्यत्र भिन्न, इतरादीनां ग्रहणम्

ऋ, प्रत्यक्, उदक्, दक्षिणा, उत्तरा, दक्षिणाहि, उत्तराहि, वहिः इत्यादिदिग्वाचकानां शब्दानां योगे । उदा -

क. कृष्णात् अन्यः भिन्नः इतरः श्यामः ।

ख. बनात् आरात् मन्दिरम् अस्ति ।

ग. कृष्णात् ऋते मुक्तिः नास्ति ।

घ. ग्रामात् पूर्वः देवालयः अस्ति ।

ड. चैत्रात् पूर्वः फाल्गुनः ।

"https://sa.wikipedia.org/w/index.php?title=सदस्यः:LaxmiPriya_Dalai&oldid=483579" इत्यस्माद् प्रतिप्राप्तम्