सदस्यः:LaxmiPriya Dalai
आख्यातोपयोगे
आख्याता-प्रवक्ता, उपयोगे-नियमपूर्वकाध्ययनम् । नियमपूर्वकविद्याध्ययने प्रवक्तुः (अध्यापकस्य) पञ्चमी विभक्तिः भवति ।
उदा-क. छात्रः अध्यापकात् अधीते ।
ख. रामलक्ष्मणौ विश्वामित्रात् अधीतवन्तौ ।
ग. छात्राः गुरोः व्याकरणं पठन्ति ।
. जनिकर्तुः प्रकृतिः
यस्मात् उत्पद्यते तस्य अपादानसंज्ञा भवति ।
क . ब्रह्मणः सृष्टिः प्रजायते ।
ख. गोमयाद वृश्चिकाः जायन्ते ।
ग. मृगशुङ्गात् शरः जायते ।
घ. भूमेः वनस्पतयः जायन्ते ।
ङ. अनृतात् पापं जायते ।
च. सङ्गात् सेजायते कामः कामात् क्रोधोऽभिजायते ।
. भुवः प्रभवः
प्रभवति प्रयोगे यस्मात् उत्पत्ति र्भवन्ति तस्य अपादानसंज्ञा भवति । उदा-
क. हिमालयात् गङ्गा प्रभवति ।
ख. कश्मीरेभ्यः वितस्ता प्रभवति ।
१०. ल्यब्लोपे कर्मण्यधिकरणे च
ल्यप्प्रत्ययस्य लोपे अप्रयुज्यमाने पूर्व विद्यमानस्य कर्मणः अधिकरणस्य च पञ्चमीविभक्तिः भवति । उदा- क.रामः गृहे उपविश्य पठति।
अत्र उपविश्य इति। अभावे पूर्व विद्यमानस्य गृहे इत्यस्य पञ्चमीविभक्तिः भवति ।
। रामः गृहात् पठति।
ख. वानरः वृक्षम् आरुह्य पश्यति। वानरः वृक्षात् पश्यति ।
ग. दमयन्ती प्रासादम् आरुह्य बीक्षते । दमयन्ती प्रसादात् बौक्षते।
घ. नकुलः वृक्षम् आरूह्य पश्यति। नकुलः वृक्षात् सरोवरम् अपश्यत् । ङ. पितामहः शयने शयित्वा भर्त्सयति। पितामहः शयनात् भर्त्सयति ।
११. प्रश्नाख्यानयोक्ष पञ्चमी वक्तव्या
प्रश्न-उत्तरकथनप्रसङ्गेऽपि पञ्चमीविभक्तिः भवति । उदा-त्वं कस्मात् । (त्वं कस्मात् स्थानात् आगच्छति इत्यर्थः)
उत्तरम्-ग्रामात् (ग्रामतः आगतवान्)
प्रश्न:-कुतः त्वम् ।
उत्तरम्-विद्यालयात् ।
यस्मात् मार्गवाचक-कालवाचकादीनां मापनं भवति । तस्मात् पञ्चमीविभक्तिः भवति । उदा-
क. बनाद ग्रामः योजनं योजने वा ।
ख. कार्तिक्या: मार्गशीर्षः मासे ।
ग. कटकात् भुवनेश्वरं त्रिंश क्रोशा: ।
प. मङ्गलवासरात् शनिवासर: त्रिषु दिनेषु अस्ति ।
उपपदविभक्ति:
अन्य, आरात्, पूर्व, उत्तर, पश्चिम, प्राक्, पञ्चमौविभक्तिः भवति । अन्य इत्यत्र भिन्न, इतरादीनां ग्रहणम्
ऋ, प्रत्यक्, उदक्, दक्षिणा, उत्तरा, दक्षिणाहि, उत्तराहि, वहिः इत्यादिदिग्वाचकानां शब्दानां योगे । उदा -
क. कृष्णात् अन्यः भिन्नः इतरः श्यामः ।
ख. बनात् आरात् मन्दिरम् अस्ति ।
ग. कृष्णात् ऋते मुक्तिः नास्ति ।
घ. ग्रामात् पूर्वः देवालयः अस्ति ।
ड. चैत्रात् पूर्वः फाल्गुनः ।